वैरवृत्तान्तानुक्रमः

किष्किन्धाकाण्डः / वैरवृत्तान्तानुक्रमः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे वैरवृत्तान्तानुक्रमः नाम नवमः सर्गः ॥४-९॥
वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः । पितुर्बहुमतो नित्यं मम चापि तथा पुरा ॥४-९-१॥
पितर्युपरते तस्मिन् ज्येष्ठोऽयमिति मन्त्रिभिः । कपीनामीश्वरो राज्ये कृतः परमसम्मतः ॥४-९-२॥
राज्यं प्रशासतस्तस्य पितृपैतामहं महत् । अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः ॥४-९-३॥
मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः । तेन तस्य महद्वैरं वालिनः स्त्रीकृतं पुरा ॥४-९-४॥
स तु सुप्ते जने रात्रौ किष्किन्धाद्वारमागतः । नर्दति स्म सुसंरब्धो वालिनं चाह्वयद् रणे ॥४-९-५॥
प्रसुप्तस्तु मम भ्राता नर्दतो भैरवस्वनम् । श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा ॥४-९-६॥
स तु वै निःसृतः क्रोधात् तं हन्तुमसुरोत्तमम् । वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना ॥४-९-७॥
स तु निर्धूय सर्वान् नो निर्जगाम महाबलः । ततोऽहमपि सौहार्दान्निःसृतो वालिना सह ॥४-९-८॥
स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम् । असुरो जातसंत्रासः प्रदुद्राव तदा भृशम् ॥४-९-९॥
तस्मिन् द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ । प्रकाशोऽपि कृतो मार्गश्चन्द्रेणोद्गच्छता तदा ॥४-९-१०॥
स तृणैरावृतं दुर्गं धरण्या विवरं महत् । प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ ॥४-९-११॥
तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः । मामुवाच ततो वाली वचनं क्षुभितेन्द्रियः ॥४-९-१२॥
इह तिष्ठाद्य सुग्रीव बिलद्वारि समाहितः । यावदत्र प्रविश्याहं निहन्मि समरे रिपुम् ॥४-९-१३॥
मया त्वेतद् वचः श्रुत्वा याचितः स परंतपः । शापयित्वा च मां पद्भ्यां प्रविवेश बिलं ततः ॥४-९-१४॥
तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः । स्थितस्य च बिलद्वारि स कालो व्यत्यवर्तत ॥४-९-१५॥
अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसम्भ्रमः । भ्रातरं न प्रपश्यामि पापशङ्कि च मे मनः ॥४-९-१६॥
अथ दीर्घस्य कालस्य बिलात् तस्माद् विनिःसृतम् । सफेनं रुधिरं दृष्ट्वा ततोऽहं भृशदुःखितः ॥४-९-१७॥
नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः । न रतस्य च संग्रामे क्रोशतोऽपि स्वनो गुरोः ॥४-९-१८॥
अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् । पिधाय च बिलद्वारं शिलया गिरिमात्रया ॥४-९-१९॥
शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे । गूहमानस्य मे तत् त्वं यत्नतो मन्त्रिभिः श्रुतम् ॥४-९-२०॥
ततोऽहं तैः समागम्य समेतैरभिषेचितः । राज्यं प्रशासतस्तस्य न्यायतो मम राघव ॥४-९-२१॥
आजगाम रिपुं हत्वा दानवं स तु वानरः । अभिषिक्तं तु मां दृष्ट्वा क्रोधात् संरक्तलोचनः ॥४-९-२२॥
मदीयान् मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् । निग्रहे च समर्थस्य तं पापं प्रति राघव ॥४-९-२३॥
न प्रावर्तत मे बुद्धिर्भ्रातृगौरवयन्त्रिता । हत्वा शत्रुं स मे भ्राता प्रविवेश पुरं तदा ॥४-९-२४॥
मानयंस्तं महात्मानं यथावच्चाभिवादयम् । उक्ताश्च नाशिषस्तेन प्रहृष्टेनान्तरात्मना ॥४-९-२५॥
नत्वा पादावहं तस्य मुकुटेनास्पृशं प्रभो । अपि वाली मम क्रोधान्न प्रसादं चकार सः ॥४-९-२६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे वैरवृत्तान्तानुक्रमः नाम नवमः सर्गः ॥४-९॥