राज्यनिर्वासकथनम्

किष्किन्धाकाण्डः / राज्यनिर्वासकथनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे राज्यनिर्वासकथनम् नाम दशमः सर्गः ॥४-१०॥
ततः क्रोधसमाविष्टं संरब्धं तमुपागतम् । अहं प्रसादयांचक्रे भ्रातरं हितकाम्यया ॥४-१०-१॥
दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः । अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दन ॥४-१०-२॥
इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् । छत्रं सवालव्यजनं प्रतीच्छस्व मया धृतम् ॥४-१०-३॥
आर्तस्तत्र बिलद्वारि स्थितः संवत्सरं नृप । दृष्ट्वा च शोणितं द्वारि बिलाच्चापि समुत्थितम् ॥४-१०-४॥
शोकसंविग्नहृदयो भृशं व्याकुलितेन्द्रियः । अपिधाय बिलद्वारं शैलशृङ्गेण तत् तदा ॥४-१०-५॥
तस्माद् देशादपाक्रम्य किष्किन्धां प्राविशं पुनः । विषादात्त्विह मां दृष्ट्वा पौरैर्मन्त्रिभिरेव च ॥४-१०-६॥
अभिषिक्तो न कामेन तन्मे क्षन्तुं त्वमर्हसि । त्वमेव राजा मानार्हः सदा चाहं यथा पुरा ॥४-१०-७॥
राजभावे नियोगोऽयं मम त्वद्विरहात् कृतः । सामात्यपौरनगरं स्थितं निहतकण्टकम् ॥४-१०-८॥
न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् । मा च रोषं कृथाः सौम्य मम शत्रुनिषूदन ॥४-१०-९॥
याचे त्वां शिरसा राजन् मया बद्धोऽयमञ्जलिः । बलादस्मिन् समागम्य मन्त्रिभिः पुरवासिभिः ॥४-१०-१०॥
राजभावे नियुक्तोऽहं शून्यदेशजिगीषया । स्निग्धमेवं ब्रुवाणं मां स विनिर्भर्त्स्य वानरः ॥४-१०-११॥
धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह । प्रकृतीश्च समानीय मन्त्रिणश्चैव सम्मतान् ॥४-१०-१२॥
मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् । विदितं वो मया रात्रौ मायावी स महासुरः ॥४-१०-१३॥
मां समाह्वयत क्रुद्धो युद्धाकांक्षी तदा पुरा । तस्य तद् भाषितं श्रुत्वा निःसृतोऽहं नृपालयात् ॥४-१०-१४॥
अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः । स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः ॥४-१०-१५॥
प्राद्रवद् भयसंत्रस्तो वीक्ष्यावां समुपागतौ । अभिद्रुतस्तु वेगेन विवेश स महाबिलम् ॥४-१०-१६॥
तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम् । अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः ॥४-१०-१७॥
अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् । बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् ॥४-१०-१८॥
स्थितोऽयमिति मत्वाहं प्रविष्टस्तु दुरासदम् । तं मे मार्गयतस्तत्र गतः संवत्सरस्तदा ॥४-१०-१९॥
स तु दृष्टो मया शत्रुरनिर्वेदाद् भयावहः । निहतश्च मया सद्यः स सर्वैः सह बन्धुभिः ॥४-१०-२०॥
तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम् । पूर्णमासीद् दुराक्रामं स्तनतस्तस्य भूतले ॥४-१०-२१॥
सूदयित्वा तु तं शत्रुं विक्रान्तं तमहं सुखम् । निष्क्रामं नैव पश्यामि बिलस्य पिहितं मुखम् ॥४-१०-२२॥
विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः । यतः प्रतिवचो नास्ति ततोऽहं भृशदुःखितः ॥४-१०-२३॥
पादप्रहारैस्तु मया बहुभिः परिपातितम् । ततोऽहं तेन निष्क्रम्य पथा पुरमुपागतः ॥४-१०-२४॥
तत्रानेनास्मि संरुद्धो राज्यं मृगयताऽऽत्मनः । सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् ॥४-१०-२५॥
एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः । तदा निर्वासयामास वाली विगतसाध्वसः ॥४-१०-२६॥
तेनाहमपविद्धश्च हृतदारश्च राघव । तद्भयाच्च महीं सर्वां क्रान्तवान् सवनार्णवाम् ॥४-१०-२७॥
ऋष्यमूकं गिरिवरं भार्याहरणदुःखितः । प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे ॥४-१०-२८॥
एतत्ते सर्वमाख्यातं वैरानुकथनं महत् । अनागसा मया प्राप्तं व्यसनं पश्य राघव ॥४-१०-२९॥
वालिनश्च भयात् तस्य सर्वलोकभयापह । कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् ॥४-१०-३०॥
एवमुक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम् । वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव ॥४-१०-३१॥
अमोघाः सूर्यसंकाशा निशिता मे शरा इमे । तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः ॥४-१०-३२॥
यावत् तं नहि पश्येयं तव भार्यापहारिणम् । तावत् स जीवेत् पापात्मा वाली चारित्रदूषकः ॥४-१०-३३॥
आत्मानुमानात् पश्यामि मग्नस्त्वं शोकसागरे । त्वामहं तारयिष्यामि बाढं प्राप्स्यसि पुष्कलम् ॥४-१०-३४॥
तस्य तद् वचनं श्रुत्वा हर्षपौरुषवर्धनम् । सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ॥४-१०-३५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे राज्यनिर्वासकथनम् नाम दशमः सर्गः ॥४-१०॥