वालिवधप्रतिज्ञा

किष्किन्धाकाण्डः / वालिवधप्रतिज्ञा

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे वालिवधप्रतिज्ञा नाम अष्टमः सर्गः ॥४-८॥
परितुष्टस्तु सुग्रीवस्तेन वाक्येन हर्षितः । लक्ष्मणस्याग्रजं शूरमिदं वचनमब्रवीत् ॥४-८-१॥
सर्वथाहमनुग्राह्यो देवतानां न संशयः । उपपन्नो गुणोपेतः सखा यस्य भवान् मम ॥४-८-२॥
शक्यं खलु भवेद् राम सहायेन त्वयानघ । सुरराज्यमपि प्राप्तुं स्वराज्यं किमुत प्रभो ॥४-८-३॥
सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव । यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम् ॥४-८-४॥
अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः । न तु वक्तुं समर्थोऽहं त्वयि आत्मगतान् गुणान् ॥४-८-५॥
महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् । निश्चला भवति प्रीतिर्धैर्यमात्मवतां वर ॥४-८-६॥
रजतं वा सुवर्णं वा शुभान्याभरणानि च । अविभक्तानि साधूनामवगच्छन्ति साधवः ॥४-८-७॥
आढ्योवापि दरिद्रो वा दुःखितः सुखितोऽपि वा । निर्दोषश्च सदोषश्च वयस्यः परमा गतिः ॥४-८-८॥
धनत्यागः सुखत्यागो देशत्यागोऽपि वानघ । वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् ॥४-८-९॥
तत् तथेत्यब्रवीद् रामः सुग्रीवं प्रियवादिनम् । लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ॥४-८-१०॥
ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् । सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत् ॥४-८-११॥
स ददर्श ततः सालमविदूरे हरीश्वरः । सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम् ॥४-८-१२॥
तस्यैकां पर्णबहुलां शाखां भङ्क्त्वा सुशोभिताम् । रामस्यास्तीर्य सुग्रीवो निषसाद सराघवः ॥४-८-१३॥
तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम् । शालशाखां समुत्पाट्य विनीतमुपवेशयत् ॥४-८-१४॥
सुखोपविष्टं रामं तु प्रसन्नमुदधिं यथा । सालपुष्पावसंकीर्णे तस्मिन् गिरिवरोत्तमे ॥४-८-१५॥
ततः प्रहृष्टः सुग्रीवः श्लक्ष्णया शुभया गिरा । उवाच प्रणयाद् रामं हर्षव्याकुलिताक्षरम् ॥४-८-१६॥
अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः । ऋष्यमूकं गिरिवरं हृतभार्यः सुदुःखितः ॥४-८-१७॥
सोऽहं त्रस्तो भये मग्नो वने सम्भ्रान्तचेतनः । वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥४-८-१८॥
वालिनो मे भयार्तस्य सर्वलोकाभयंकर । ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि ॥४-८-१९॥
एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः । प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव ॥४-८-२०॥
उपकारफलं मित्रमपकारोऽरिलक्षणम् । अद्यैव तं वधिष्यामि तव भार्यापहारिणम् ॥४-८-२१॥
इमे हि मे महाभाग पत्रिणस्तिग्मतेजसः । कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः ॥४-८-२२॥
कङ्कपत्रपरिच्छन्ना महेन्द्राशनिसंनिभाः । सुपर्वाणः सुतीक्ष्णाग्राः सरोषा भुजगा इव ॥४-८-२३॥
वालिसंज्ञममित्रं ते भ्रातरं कृतकिल्बिषम् । शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम् ॥४-८-२४॥
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः । प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥४-८-२५॥
राम शोकाभिभूतोऽहं शोकार्तानां भवान् गतिः । वयस्य इति कृत्वा हि त्वय्यहं परिदेवये ॥४-८-२६॥
त्वं हि पाणिप्रदानेन वयस्यो मेऽग्निसाक्षिकम् । कृतः प्राणैर्बहुमतः सत्येन च शपाम्यहम् ॥४-८-२७॥
वयस्य इति कृत्वा च विस्रब्धः प्रवदाम्यहम् । दुःखमन्तर्गतं तन्मे मनो हरति नित्यशः ॥४-८-२८॥
एतावदुक्त्वा वचनं बाष्पदूषितलोचनः । बाष्पदूषितया वाचा नोच्चैः शक्नोति भाषितुम् ॥४-८-२९॥
बाष्पवेगं तु सहसा नदीवेगमिवागतम् । धारयामास धैर्येण सुग्रीवो रामसंनिधौ ॥४-८-३०॥
स निगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे । विनिःश्वस्य च तेजस्वी राघवं पुनरूचिवान् ॥४-८-३१॥
पुराहं वालिना राम राज्यात् स्वादवरोपितः । परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा ॥४-८-३२॥
हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी । सुहृदश्च मदीया ये संयता बन्धनेषु ते ॥४-८-३३॥
यत्नवांश्च स दुष्टात्मा मद्विनाशाय राघव । बहुशस्तप्रयुक्ताश्च वानरा निहता मया ॥४-८-३४॥
शङ्कया त्वेतयाहं च दृष्ट्वा त्वामपि राघव । नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति ॥४-८-३५॥
केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे । अतोऽहं धारयाम्यद्य प्राणान् कृच्छ्रगतोऽपि सन् ॥४-८-३६॥
एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः । सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति चास्थिते ॥४-८-३७॥
संक्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते । स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः ॥४-८-३८॥
तद्विनाशेऽपि मे दुःखं प्रमृष्टं स्यादनन्तरम् । सुखं मे जीवितं चैव तद्विनाशनिबन्धनम् ॥४-८-३९॥
एष मे राम शोकान्तः शोकार्तेन निवेदितः । दुःखितः सुखितो वापि सख्युर्नित्यं सखा गतिः ॥४-८-४०॥
श्रुत्वैतच्च वचो रामः सुग्रीवमिदमब्रवीत् । किं निमित्तमभूद् वैरं श्रोतुमिच्छामि तत्त्वतः ॥४-८-४१॥
सुखं हि कारणं श्रुत्वा वैरस्य तव वानर । आनन्तर्याद् विधास्यामि सम्प्रधार्य बलाबलम् ॥४-८-४२॥
बलवान् हि ममामर्षः श्रुत्वा त्वामवमानितम् । वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः ॥४-८-४३॥
हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः । सृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव ॥४-८-४४॥
एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना । प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः ॥४-८-४५॥
ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे । वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे ॥४-८-४६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे वालिवधप्रतिज्ञा नाम अष्टमः सर्गः ॥४-८॥