रामसमाश्वासनम्

किष्किन्धाकाण्डः / रामसमाश्वासनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे रामसमाश्वासनम् नाम सप्तमः सर्गः ॥४-७॥
एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः । अब्रवीत् प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः ॥४-७-१॥
न जाने निलयं तस्य सर्वथा पापरक्षसः । सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम् ॥४-७-२॥
सत्यं तु प्रतिजानामि त्यज शोकमरिंदम । करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम् ॥४-७-३॥
रावणं सगणं हत्वा परितोष्यात्मपौरुषम् । तथास्मि कर्ता नचिराद् यथा प्रीतो भविष्यसि ॥४-७-४॥
अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर । त्वद्विधानां न सदृशमीदृशं बुद्धिलाघवम् ॥४-७-५॥
मयापि व्यसनं प्राप्तं भार्याविरहजं महत् । नाहमेवं हि शोचामि धैर्यं न च परित्यजे ॥४-७-६॥
नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन् । महात्मा च विनीतश्च किं पुनर्धृतिमान् महान् ॥४-७-७॥
बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि । मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि ॥४-७-८॥
व्यसने वार्थकृच्छ्रे वा भये वा जीवितान्तगे । विमृशंश्च स्वयाबुद्ध्या धृतिमान् नावसीदति ॥४-७-९॥
बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते । स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ॥४-७-१०॥
एषोऽञ्जलिर्मया बद्धः प्रणयात् त्वां प्रसादये । पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि ॥४-७-११॥
ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् । तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि ॥४-७-१२॥
शोकेनाभिप्रपन्नस्य जीविते चापि संशयः । स शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम् ॥४-७-१३॥
हितं वयस्यभावेन ब्रूहि नोपदिशामि ते । वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि ॥४-७-१४॥
मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः । मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत् ॥४-७-१५॥
प्रकृतिस्थस्तु काकुत्स्थः सुग्रीवचनात् प्रभुः । सम्परिष्वज्य सुग्रीवमिदं वचनमब्रवीत् ॥४-७-१६॥
कर्तव्यं यद् वयस्येन स्निग्धेन च हितेन च । अनुरूपं च युक्तं च कृतं सुग्रीव तत् त्वया ॥४-७-१७॥
एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे । दुर्लभो हीदृशो बन्धुरस्मिन् काले विशेषतः ॥४-७-१८॥
किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे । राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ॥४-७-१९॥
मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् । वर्षास्विव च सुक्षेत्रे सर्वं सम्पद्यते तव ॥४-७-२०॥
मया च यदिदं वाक्यमभिमानात् समीरितम् । तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम् ॥४-७-२१॥
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन । एतत्ते प्रतिजानामि सत्येनैव शपाम्यहम् ॥४-७-२२॥
ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह । राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः ॥४-७-२३॥
एवमेकान्तसम्पृक्तौ ततस्तौ नरवानरौ । उभावन्योन्यसदृशं सुखं दुःखमभाषताम् ॥४-७-२४॥
महानुभावस्य वचो निशम्य हरिर्नृपाणामधिपस्य तस्य । कृतं स मेने हरिवीरमुख्यस्तदा च कार्यं हृदयेन विद्वान् ॥४-७-२५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे रामसमाश्वासनम् नाम सप्तमः सर्गः ॥४-७॥