भूषणप्रत्यभिज्ञानम्

किष्किन्धाकाण्डः / भूषणप्रत्यभिज्ञानम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे भूषणप्रत्यभिज्ञानम् नाम षष्ठः सर्गः ॥४-६॥
पुनरेवाब्रवीत् प्रीतो राघवं रघुनन्दनम् । अयमाख्याति ते राम सचिवो मन्त्रिसत्तमः ॥४-६-१॥
हनुमान् यन्निमित्तं त्वं निर्जनं वनमागतः । लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव ॥४-६-२॥
रक्षसापहृता भार्या मैथिली जनकात्मजा । त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता ॥४-६-३॥
अन्तरं प्रेप्सुना तेन हत्वा गृध्रं जटायुषम् । भार्यावियोगजं दुःखं प्रापितस्तेन रक्षसा ॥४-६-४॥
भार्यावियोगजं दुःखं नचिरात् त्वं विमोक्ष्यसे । अहं तामानयिष्यामि नष्टां वेदश्रुतीमिव ॥४-६-५॥
रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले । अहमानीय दास्यामि तव भार्यामरिंदम ॥४-६-६॥
इदं तथ्यं मम वचस्त्वमवेहि च राघव । न शक्या सा जरयितुमपि सेन्द्रैः सुरासुरैः ॥४-६-७॥
तव भार्या महाबाहो भक्ष्यं विषकृतं यथा । त्यज शोकं महाबाहो तां कान्तामानयामि ते ॥४-६-८॥
अनुमानात् तु जानामि मैथिली सा न संशयः । ह्रियमाणा मया दृष्टा रक्षसा रौद्रकर्मणा ॥४-६-९॥
क्रोशन्ती रामरामेति लक्ष्मणेति च विस्वरम् । स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा ॥४-६-१०॥
आत्मना पञ्चमं मां हि दृष्ट्वा शैलतले स्थितम् । उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ॥४-६-११॥
तान्यस्माभिर्गृहीतानि निहितानि च राघव । आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि ॥४-६-१२॥
तमब्रवीत् ततो रामः सुग्रीवं प्रियवादिनम् । आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे ॥४-६-१३॥
एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम् । प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया ॥४-६-१४॥
उत्तरीयं गृहीत्वा तु स तान्याभरणानि च । इदं पश्येति रामाय दर्शयामास वानरः ॥४-६-१५॥
ततो गृहीत्वा वासस्तु शुभान्याभरणानि च । अभवद् बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः ॥४-६-१६॥
सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः । हा प्रियेति रुदन् धैर्यमुत्सृज्य न्यपतत् क्षितौ ॥४-६-१७॥
हृदि कृत्वा स बहुशस्तमलंकारमुत्तमम् । निशश्वास भृशं सर्पो बिलस्थ इव रोषितः ॥४-६-१८॥
अविच्छिन्नाश्रुवेगस्तु सौमित्रिं प्रेक्ष्य पार्श्वतः । परिदेवयितुं दीनं रामः समुपचक्रमे ॥४-६-१९॥
पश्य लक्ष्मण वैदेह्या संत्यक्तं ह्रियमाणया । उत्तरीयमिदं भूमौ शरीराद् भूषणानि च ॥४-६-२०॥
शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया । उत्सृष्टं भूषणमिदं तथा रूपं हि दृश्यते ॥४-६-२१॥
एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् । नाहं जानामि केयूरे नाहं जानामि कुण्डले ॥४-६-२२॥
नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् । ततस्तु राघवो वाक्यं सुग्रीवमिदमब्रवीत् ॥४-६-२३॥
ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया । रक्षसा रौद्ररूपेण मम प्राणप्रिया हृता ॥४-६-२४॥
क्व वा वसति तद् रक्षो महद् व्यसनदं मम । यन्निमित्तमहं सर्वान् नाशयिष्यामि राक्षसान् ॥४-६-२५॥
हरता मैथिलीं येन मां च रोषयता ध्रुवम् । आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम् ॥४-६-२६॥
मम दयिततमा हृता वनाद् रजनिचरेण विमथ्य येन सा । कथय मम रिपुं तमद्य वै प्लवगपते यमसंनिधिं नयामि ॥४-६-२७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे भूषणप्रत्यभिज्ञानम् नाम षष्ठः सर्गः ॥४-६॥