हनुमद्बलसंधुक्षणम्

किष्किन्धाकाण्डः / हनुमद्बलसंधुक्षणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे हनुमद्बलसंधुक्षणम् नाम षट्षष्ठितमः सर्गः ॥४-६६॥
अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् । जाम्बवान् समुदीक्ष्यैवं हनूमन्तमथाब्रवीत् ॥४-६६-१॥
वीर वानरलोकस्य सर्वशास्त्रविदां वर । तूष्णीमेकान्तमाश्रित्य हनूमन् किं न जल्पसि ॥४-६६-२॥
हनूमन् हरिराजस्य सुग्रीवस्य समो ह्यसि । रामलक्ष्मणयोश्चापि तेजसा च बलेन च ॥४-६६-३॥
अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः । गरुत्मानिव विख्यात उत्तमः सर्वपक्षिणाम् ॥४-६६-४॥
बहुशो हि मया दृष्टः सागरे स महाबलः । भुजङ्गानुद्धरन् पक्षी महाबाहुर्महाबलः ॥४-६६-५॥
पक्षयोर्यद् बलं तस्य भुजवीर्यबलं तव । विक्रमश्चापि वेगश्च न ते तेनापहीयते ॥४-६६-६॥
बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुङ्गव । विशिष्टं सर्वभूतेषु किमात्मानं न सज्जसे ॥४-६६-७॥
अप्सराऽप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला । अञ्जनेति परिख्याता पत्नी केसरिणो हरेः ॥४-६६-८॥
विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि । अभिशापादभूत् तात कपित्वे कामरूपिणी ॥४-६६-९॥
दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः । मानुषं विग्रहं कृत्वा रूपयौवनशालिनी ॥४-६६-१०॥
विचित्रमाल्याभरणा कदाचित् क्षौमधारिणी । अचरत् पर्वतस्याग्रे प्रावृडम्बुदसंनिभे ॥४-६६-११॥
तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् । स्थितायाः पर्वतस्याग्रे मारुतोऽपाहरच्छनैः ॥४-६६-१२॥
स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ । स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् ॥४-६६-१३॥
तां बलादायतश्रोणीं तनुमध्यां यशस्विनीम् । दृष्ट्वैव शुभसर्वाङ्गीं पवनः काममोहितः ॥४-६६-१४॥
स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः । मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम् ॥४-६६-१५॥
सा तु तत्रैव सम्भ्रान्ता सुव्रता वाक्यमब्रवीत् । एकपत्नीव्रतमिदं को नाशयितुमिच्छति ॥४-६६-१६॥
अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत । न त्वां हिंसामि सुश्रोणि मा भूत् ते मनसो भयम् ॥४-६६-१७॥
मनसास्मि गतो यत् त्वां परिष्वज्य यशस्विनि । वीर्यवान् बुद्धिसम्पन्नस्तव पुत्रो भविष्यति ॥४-६६-१८॥
महासत्त्वो महातेजा महाबलपराक्रमः । लङ्घने प्लवने चैव भविष्यति मया समः ॥४-६६-१९॥
एवमुक्ता ततस्तुष्टा जननी ते महाकपे । गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभ ॥४-६६-२०॥
अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने । फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युत्पतो दिवम् ॥४-६६-२१॥
शतानि त्रीणि गत्वाथ योजनानां महाकपे । तेजसा तस्य निर्धूतो न विषादं गतस्ततः ॥४-६६-२२॥
त्वामप्युपगतं तूर्णमन्तरिक्षं महाकपे । क्षिप्तमिन्द्रेण ते वज्रं कोपाविष्टेन तेजसा ॥४-६६-२३॥
तदा शैलाग्रशिखरे वामो हनुरभज्यत । ततो हि नामधेयं ते हनुमानिति कीर्तितम् ॥४-६६-२४॥
ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् । त्रैलोक्यं भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः ॥४-६६-२५॥
सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते सति । प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः ॥४-६६-२६॥
प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ । अशस्त्रवध्यतां तात समरे सत्यविक्रम ॥४-६६-२७॥
वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च । सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् ॥४-६६-२८॥
स्वच्छन्दतश्च मरणं तव स्यादिति वै प्रभो । स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः ॥४-६६-२९॥
मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः । त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः ॥४-६६-३०॥
वयमद्य गतप्राणा भवानस्मासु साम्प्रतम् । दाक्ष्यविक्रमसम्पन्नः कपिराज इवापरः ॥४-६६-३१॥
त्रिविक्रमे मया तात सशैलवनकानना । त्रिःसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ॥४-६६-३२॥
तथा चौषधयोऽस्माभिः संचिता देवशासनात् । निर्मथ्यममृतं याभिस्तदानीं नो महद्बलम् ॥४-६६-३३॥
स इदानीमहं वृद्धः परिहीनपराक्रमः । साम्प्रतं कालमस्माकं भवान् सर्वगुणान्वितः ॥४-६६-३४॥
तद् विजृम्भस्व विक्रान्त प्लवतामुत्तमो ह्यसि । त्वद्वीर्यं द्रष्टुकामा हि सर्वा वानरवाहिनी ॥४-६६-३५॥
उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् । परा हि सर्वभूतानां हनुमन् या गतिस्तव ॥४-६६-३६॥
विषण्णा हरयः सर्वे हनुमन् किमुपेक्षसे । विक्रमस्व महावेग विष्णुस्त्रीन् विक्रमानिव ॥४-६६-३७॥
ततः कपीनामृषभेण चोदितः प्रतीतवेगः पवनात्मजः कपिः । प्रहर्षयंस्तां हरिवीरवाहिनीं चकार रूपं महदात्मनस्तदा ॥४-६६-३८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे हनुमद्बलसंधुक्षणम् नाम षट्षष्ठितमः सर्गः ॥४-६६॥