लङ्घनावष्टम्भः
किष्किन्धाकाण्डः / लङ्घनावष्टम्भः
Script
Translation
Previous
हनुमद्बलसंधुक्षणम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे लङ्घनावष्टम्भः नाम सप्तषष्ठितमः सर्गः ॥४-६७॥
तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम् ।
वेगेनापूर्यमाणं च सहसा वानरोत्तमम् ॥४-६७-१॥
सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः ।
विनेदुस्तुष्टुवुश्चापि हनूमन्तं महाबलम् ॥४-६७-२॥
प्रहृष्टा विस्मिताश्चापि ते वीक्षन्ते समन्ततः ।
त्रिविक्रमं कृतोत्साहं नारायणमिव प्रजाः ॥४-६७-३॥
संस्तूयमानो हनुमान् व्यवर्धत महाबलः ।
समाविद्ध्य च लाङ्गूलं हर्षाद् बलमुपेयिवान् ॥४-६७-४॥
तस्य संस्तूयमानस्य वृद्धैर्वानरपुङ्गवैः ।
तेजसाऽऽपूर्यमाणस्य रूपमासीदनुत्तमम् ॥४-६७-५॥
यथा विजृम्भते सिंहो विवृते गिरिगह्वरे ।
मारुतस्यौरसः पुत्रस्तथा सम्प्रति जृम्भते ॥४-६७-६॥
अशोभत मुखं तस्य जृम्भमाणस्य धीमतः ।
अम्बरीषोपमं दीप्तं विधूम इव पावकः ॥४-६७-७॥
हरीणामुत्थितो मध्यात् सम्प्रहृष्टतनूरुहः ।
अभिवाद्य हरीन् वृद्धान् हनूमानिदमब्रवीत् ॥४-६७-८॥
आरुजन् पर्वताग्राणि हुताशनसखोऽनिलः ।
बलवानप्रमेयश्च वायुराकाशगोचरः ॥४-६७-९॥
तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः ।
मारुतस्यौरसः पुत्रः प्लवनेनास्मि तत्समः ॥४-६७-१०॥
उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् ।
मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः ॥४-६७-११॥
बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे ।
समाप्लावयितुं लोकं सपर्वतनदीह्रदम् ॥४-६७-१२॥
ममोरुजङ्घावेगेन भविष्यति समुत्थितः ।
समुत्थितमहाग्राहः समुद्रो वरुणालयः ॥४-६७-१३॥
पन्नगाशनमाकाशे पतन्तं पक्षिसेवितम् ।
वैनतेयमहं शक्तः परिगन्तुं सहस्रशः ॥४-६७-१४॥
उदयात् प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् ।
अनस्तमितमादित्यमहं गन्तुं समुत्सहे ॥४-६७-१५॥
ततो भूमिमसंस्पृष्ट्वा पुनरागन्तुमुत्सहे ।
प्रवेगेनैव महता भीमेन प्लवगर्षभाः ॥४-६७-१६॥
उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् ।
सागरान् शोषयिष्यामि दारयिष्यामि मेदिनीम् ॥४-६७-१७॥
पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमः ।
हरिष्याम्युरुवेगेन प्लवमानो महार्णवम् ॥४-६७-१८॥
लतानां विविधं पुष्पं पादपानां च सर्वशः ।
अनुयास्यति मामद्य प्लवमानं विहायसा ॥४-६७-१९॥
भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे ।
चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव च ॥४-६७-२०॥
द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः ।
महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवङ्गमाः ॥४-६७-२१॥
दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम् ।
विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान् ।
सागरं शोषयिष्यामि प्लवमानः समाहितः ॥४-६७-२२॥
वैनतेयस्य वा शक्तिर्मम वा मारुतस्य वा ।
ऋते सुपर्णराजानं मारुतं वा महाबलम् ।
न तद् भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत् ॥४-६७-२३॥
निमेषान्तरमात्रेण निरालम्बनमम्बरम् ।
सहसा निपतिष्यामि घनाद् विद्युदिवोत्थिता ॥४-६७-२४॥
भविष्यति हि मे रूपं प्लवमानस्य सागरम् ।
विष्णोः प्रक्रममाणस्य तदा त्रीन् विक्रमानिव ॥४-६७-२५॥
बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा ।
अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः ॥४-६७-२६॥
मारुतस्य समो वेगे गरुडस्य समो जवे ।
अयुतं योजनानां तु गमिष्यामीति मे मतिः ॥४-६७-२७॥
वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः ।
विक्रम्य सहसा हस्तादमृतं तदिहानये ॥४-६७-२८॥
लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः ।
तमेवं वानरश्रेष्ठं गर्जन्तममितप्रभम् ॥४-६७-२९॥
प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः ।
तच्चास्य वचनं श्रुत्वा ज्ञातीनां शोकनाशनम् ॥४-६७-३०॥
उवाच परिसंहृष्टो जाम्बवान् प्लवगेश्वरः ।
वीर केसरिणः पुत्र वेगवन् मारुतात्मज ॥४-६७-३१॥
ज्ञातीनां विपुलः शोकस्त्वया तात प्रणाशितः ।
तव कल्याणरुचयः कपिमुख्याः समागताः ॥४-६७-३२॥
मङ्गलान्यर्थसिद्ध्यर्थं करिष्यन्ति समाहिताः ।
ऋषीणां च प्रसादेन कपिवृद्धमतेन च ॥४-६७-३३॥
गुरूणां च प्रसादेन सम्प्लव त्वं महार्णवम् ।
स्थास्यामश्चैकपादेन यावदागमनं तव ॥४-६७-३४॥
त्वद्गतानि च सर्वेषां जीवनानि वनौकसाम् ।
ततश्च हरिशार्दूलस्तानुवाच वनौकसः ॥४-६७-३५॥
कोऽपि लोके न मे वेगं प्लवने धारयिष्यति ।
एतानीह नगस्यास्य शिलासंकटशालिनः ॥४-६७-३६॥
शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च ।
येषु वेगं गमिष्यामि महेन्द्रशिखरेष्वहम् ॥४-६७-३७॥
नानाद्रुमविकीर्णेषु धातुनिष्पन्दशोभिषु ।
एतानि मम वेगं हि शिखराणि महान्ति च ॥४-६७-३८॥
प्लवतो धारयिष्यन्ति योजनानामितः शतम् ।
ततस्तु मारुतप्रख्यः स हरिर्मारुतात्मजः ।
आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः ॥४-६७-३९॥
वृतं नानाविधैः पुष्पैर्मृगसेवितशाद्वलम् ।
लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम् ॥४-६७-४०॥
सिंहशार्दूलसहितं मत्तमातङ्गसेवितम् ।
मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसंकुलम् ॥४-६७-४१॥
महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः ।
विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः ॥४-६७-४२॥
पादाभ्यां पीडितस्तेन महाशैलो महात्मना ।
ररास सिंहाभिहतो महान् मत्त इव द्विपः ॥४-६७-४३॥
मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः ।
वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः ॥४-६७-४४॥
नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः ।
उत्पतद्भिर्विहंगैश्च विद्याधरगणैरपि ॥४-६७-४५॥
त्यज्यमानमहासानुः संनिलीनमहोरगः ।
शैलशृङ्गशिलोत्पातस्तदाभूत् स महागिरिः ॥४-६७-४६॥
निःश्वसद्भिस्तदा तैस्तु भुजगैरर्धनिःसृतैः ।
सपताक इवाभाति स तदा धरणीधरः ॥४-६७-४७॥
ऋषिभिस्त्राससम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः ।
सीदन् महति कान्तारे सार्थहीन इवाध्वगः ॥४-६७-४८॥
स वेगवान् वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता ।
मनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी ॥४-६७-४९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे लङ्घनावष्टम्भः नाम सप्तषष्ठितमः सर्गः ॥४-६७॥
Previous
हनुमद्बलसंधुक्षणम्