बलेयत्ताविष्करणम्
किष्किन्धाकाण्डः / बलेयत्ताविष्करणम्
Script
Translation
Previous
समुद्रलङ्घनमन्त्रणम्
Next
हनुमद्बलसंधुक्षणम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे बलेयत्ताविष्करणम् नाम पञ्चषष्ठितमः सर्गः ॥४-६५॥
अथाङ्गदवचः श्रुत्वा ते सर्वे वानरर्षभाः ।
स्वं स्वं गतौ समुत्साहमूचुस्तत्र यथाक्रमम् ॥४-६५-१॥
गजो गवाक्षो गवयः शरभो गन्धमादनः ।
मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा ॥४-६५-२॥
आबभाषे गजस्तत्र प्लवेयं दशयोजनम् ।
गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् ॥४-६५-३॥
शरभो वानरस्तत्र वानरांस्तानुवाच ह ।
त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः ॥४-६५-४॥
ऋषभो वानरस्तत्र वानरांस्तानुवाच ह ।
चत्वारिंशद् गमिष्यामि योजनानां न संशयः ॥४-६५-५॥
वानरांस्तु महातेजा अब्रवीद् गन्धमादनः ।
योजनानां गमिष्यामि पञ्चाशत्तु न संशयः ॥४-६५-६॥
मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह ।
योजनानां परं षष्टिमहं प्लवितुमुत्सहे ॥४-६५-७॥
ततस्तत्र महातेजा द्विविदः प्रत्यभाषत ।
गमिष्यामि न संदेहः सप्ततिं योजनान्यहम् ॥४-६५-८॥
सुषेणस्तु महातेजाः सत्त्ववान् कपिसत्तमः ।
अशीतिं प्रतिजानेऽहं योजनानां पराक्रमे ॥४-६५-९॥
तेषां कथयतां तत्र सर्वांस्ताननुमान्य च ।
ततो वृद्धतमस्तेषां जाम्बवान् प्रत्यभाषत ॥४-६५-१०॥
पूर्वमस्माकमप्यासीत् कश्चिद् गतिपराक्रमः ।
ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम् ॥४-६५-११॥
किं तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम् ।
यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ ॥४-६५-१२॥
साम्प्रतं कालमस्माकं या गतिस्तां निबोधत ।
नवतिं योजनानां तु गमिष्यामि न संशयः ॥४-६५-१३॥
तांश्च सर्वान् हरिश्रेष्ठाञ्जाम्बवानिदमब्रवीत् ।
न खल्वेतावदेवासीद् गमने मे पराक्रमः ॥४-६५-१४॥
मया वैरोचने यज्ञे प्रभविष्णुः सनातनः ।
प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमम् ॥४-६५-१५॥
स इदानीमहं वृद्धः प्लवने मन्दविक्रमः ।
यौवने च तदासीन्मे बलमप्रतिमं परम् ॥४-६५-१६॥
सम्प्रत्येतावदेवाद्य शक्यं मे गमने स्वतः ।
नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति ॥४-६५-१७॥
अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा ।
अनुमान्य तदा प्राज्ञो जाम्बवन्तं महाकपिः ॥४-६५-१८॥
अहमेतद् गमिष्यामि योजनानां शतं महत् ।
निवर्तने तु मे शक्तिः स्यान्न वेति न निश्चितम् ॥४-६५-१९॥
तमुवाच हरिश्रेष्ठं जाम्बवान् वाक्यकोविदः ।
ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम ॥४-६५-२०॥
कामं शतसहस्रं वा नह्येष विधिरुच्यते ।
योजनानां भवान् शक्तो गन्तुं प्रतिनिवर्तितुम् ॥४-६५-२१॥
नहि प्रेषयिता तात स्वामी प्रेष्यः कथंचन ।
भवतायं जनः सर्वः प्रेष्यः प्लवगसत्तम ॥४-६५-२२॥
भवान् कलत्रमस्माकं स्वामिभावे व्यवस्थितः ।
स्वामी कलत्रं सैन्यस्य गतिरेषा परंतप ॥४-६५-२३॥
अपि वै तस्य कार्यस्य भवान् मूलमरिंदम ।
तस्मात् कलत्रवत् तात प्रतिपाल्यः सदा भवान् ॥४-६५-२४॥
मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः ।
मूले हि सति सिध्यन्ति गुणाः सर्वे फलोदयाः ॥४-६५-२५॥
तद् भवानस्य कार्यस्य साधनं सत्यविक्रम ।
वुद्धिविक्रमसम्पन्नो हेतुरत्र परंतप ॥४-६५-२६॥
गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम ।
भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने ॥४-६५-२७॥
उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः ।
प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः ॥४-६५-२८॥
यदि नाहं गमिष्यामि नान्यो वानरपुङ्गवः ।
पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम् ॥४-६५-२९॥
नह्यकृत्वा हरिपतेः संदेशं तस्य धीमतः ।
तत्रापि गत्वा प्राणानां न पश्ये परिरक्षणम् ॥४-६५-३०॥
स हि प्रसादे चात्यर्थकोपे च हरिरीश्वरः ।
अतीत्य तस्य संदेशं विनाशो गमने भवेत् ॥४-६५-३१॥
तत्तथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः ।
तद् भवानेव दृष्टार्थः संचिन्तयितुमर्हति ॥४-६५-३२॥
सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः ।
जाम्बवानुत्तमं वाक्यं प्रोवाचेदं ततोऽङ्गदम् ॥४-६५-३३॥
तस्य ते वीर कार्यस्य न किंचित् परिहास्यते ।
एष संचोदयाम्येनं यः कार्यं साधयिष्यति ॥४-६५-३४॥
ततः प्रतीतं प्लवतां वरिष्ठमेकान्तमाश्रित्य सुखोपविष्टम् ।
संचोदयामास हरिप्रवीरो हरिप्रवीरं हनुमन्तमेव ॥४-६५-३५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे बलेयत्ताविष्करणम् नाम पञ्चषष्ठितमः सर्गः ॥४-६५॥
Previous
समुद्रलङ्घनमन्त्रणम्
Next
हनुमद्बलसंधुक्षणम्