समुद्रलङ्घनमन्त्रणम्
किष्किन्धाकाण्डः / समुद्रलङ्घनमन्त्रणम्
Script
Translation
Previous
संपातिपक्षप्ररोहः
Next
बलेयत्ताविष्करणम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे समुद्रलङ्घनमन्त्रणम् नाम चतुःषष्ठितमः सर्गः ॥४-६४॥
आख्याता गृध्रराजेन समुत्प्लुत्य प्लवङ्गमाः ।
संगताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः ॥४-६४-१॥
सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम् ।
हृष्टाः सागरमाजग्मुः सीतादर्शनकांक्षिणः ॥४-६४-२॥
अभिगम्य तु तं देशं ददृशुर्भीमविक्रमाः ।
कृत्स्नं लोकस्य महतः प्रतिबिम्बमवस्थितम् ॥४-६४-३॥
दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् ।
संनिवेशं ततश्चक्रुर्हरिवीरा महाबलाः ॥४-६४-४॥
प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः ।
क्वचित् पर्वतमात्रैश्च जलराशिभिरावृतम् ॥४-६४-५॥
संकुलं दानवेन्द्रैश्च पातालतलवासिभिः ।
रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः ॥४-६४-६॥
आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः ।
विषेदुः सहिताः सर्वे कथं कार्यमिति ब्रुवन् ॥४-६४-७॥
विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् ।
आश्वासयामास हरीन् भयार्तान् हरिसत्तमः ॥४-६४-८॥
न विषादे मनः कार्यं विषादो दोषवत्तरः ।
विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः ॥४-६४-९॥
यो विषादं प्रसहते विक्रमे समुपस्थिते ।
तेजसा तस्य हीनस्य पुरुषार्थो न सिद्ध्यति ॥४-६४-१०॥
तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह ।
हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत् ॥४-६४-११॥
सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ ।
वासवं परिवार्येव मरुतां वाहिनी स्थिता ॥४-६४-१२॥
कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् ।
अन्यत्र वालितनयादन्यत्र च हनूमतः ॥४-६४-१३॥
ततस्तान् हरिवृद्धांश्च तच्च सैन्यमरिंदमः ।
अनुमान्याङ्गदः श्रीमान् वाक्यमर्थवदब्रवीत् ॥४-६४-१४॥
क इदानीं महातेजा लङ्घयिष्यति सागरम् ।
कः करिष्यति सुग्रीवं सत्यसंधमरिंदमम् ॥४-६४-१५॥
को वीरो योजनशतं लङ्घयेत प्लवङ्गमः ।
इमांश्च यूथपान् सर्वान् मोचयेत् को महाभयात् ॥४-६४-१६॥
कस्य प्रसादाद् दारांश्च पुत्रांश्चैव गृहाणि च ।
इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् ॥४-६४-१७॥
कस्य प्रसादाद् रामं च लक्ष्मणं च महाबलम् ।
अभिगच्छेम संहृष्टाः सुग्रीवं च वनौकसम् ॥४-६४-१८॥
यदि कश्चित् समर्थो वः सागरप्लवने हरिः ।
स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् ॥४-६४-१९॥
अङ्गदस्य वचः श्रुत्वा न कश्चित् किंचिदब्रवीत् ।
स्तिमितेवाभवत् सर्वा सा तत्र हरिवाहिनी ॥४-६४-२०॥
पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः ।
सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः ।
व्यपदेशकुले जाताः पूजिताश्चाप्यभीक्ष्णशः ॥४-६४-२१॥
नहि वो गमने भङ्गः कदाचित् कस्यचिद् भवेत् ।
ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः ॥४-६४-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे समुद्रलङ्घनमन्त्रणम् नाम चतुःषष्ठितमः सर्गः ॥४-६४॥
Previous
संपातिपक्षप्ररोहः
Next
बलेयत्ताविष्करणम्