संपातिपक्षप्ररोहः
किष्किन्धाकाण्डः / संपातिपक्षप्ररोहः
Script
Translation
Previous
निशाकरभविष्याख्यानम्
Next
समुद्रलङ्घनमन्त्रणम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे संपातिपक्षप्ररोहः नाम त्रिषष्ठितमः सर्गः ॥४-६३॥
एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः ।
मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमालयम् ॥४-६३-१॥
कन्दरात् तु विसर्पित्वा पर्वतस्य शनैः शनैः ।
अहं विन्ध्यं समारुह्य भवतः प्रतिपालये ॥४-६३-२॥
अद्य त्वेतस्य कालस्य वर्षं साग्रशतं गतम् ।
देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः ॥४-६३-३॥
महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे ।
मां निर्दहति संतापो वितर्कैर्बहुभिर्वृतम् ॥४-६३-४॥
उदितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये ।
बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणे मम ॥४-६३-५॥
सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः ।
बुध्यता च मया वीर्यं रावणस्य दुरात्मनः ॥४-६३-६॥
पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम् ।
तस्या विलपितं श्रुत्वा तौ च सीतावियोजितौ ॥४-६३-७॥
न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम् ।
तस्य त्वेवं ब्रुवाणस्य संहतैर्वानरैः सह ॥४-६३-८॥
उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम् ।
स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः ॥४-६३-९॥
प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत् ।
निशाकरस्य राजर्षेः प्रसादादमितौजसः ॥४-६३-१०॥
आदित्यरश्मिनिर्दग्धौ पक्षौ पुनरुपस्थितौ ।
यौवने वर्तमानस्य ममासीद् यः पराक्रमः ॥४-६३-११॥
तमेवाद्यावगच्छामि बलं पौरुषमेव च ।
सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ ॥४-६३-१२॥
पक्षलाभो ममायं वः सिद्धिप्रत्ययकारकः ।
इत्युक्त्वा तान् हरीन् सर्वान् सम्पातिः पतगोत्तमः ॥४-६३-१३॥
उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम् ।
तस्य तद् वचनं श्रुत्वा प्रतिसंहृष्टमानसाः ।
बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः ॥४-६३-१४॥
अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्धपौरुषाः ।
अभिजिदभिमुखां दिशं ययुर्जनकसुतापरिमार्गणोन्मुखाः ॥४-६३-१५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे संपातिपक्षप्ररोहः नाम त्रिषष्ठितमः सर्गः ॥४-६३॥
Previous
निशाकरभविष्याख्यानम्
Next
समुद्रलङ्घनमन्त्रणम्