संपातिपुरावृत्तवर्णनम्
किष्किन्धाकाण्डः / संपातिपुरावृत्तवर्णनम्
Script
Translation
Previous
सुपार्श्ववचनानुवादः
Next
सूर्यानुगमनाख्यानम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे संपातिपुरावृत्तवर्णनम् नाम षष्ठितमः सर्गः ॥४-६०॥
ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः ।
उपविष्टा गिरौ रम्ये परिवार्य समन्ततः ॥४-६०-१॥
तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम् ।
जनितप्रत्ययो हर्षात् सम्पातिः पुनरब्रवीत् ॥४-६०-२॥
कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम ।
तथ्यं संकीर्तयिष्यामि यथा जानामि मैथिलीम् ॥४-६०-३॥
अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरानघ ।
सूर्यतापपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः ॥४-६०-४॥
लब्धसंज्ञस्तु षड्रात्राद् विवशो विह्वलन्निव ।
वीक्षमाणो दिशः सर्वा नाभिजानामि किंचन ॥४-६०-५॥
ततस्तु सागरान् शैलान् नदीः सर्वाः सरांसि च ।
वनानि च प्रदेशांश्च निरीक्ष्य मतिरागता ॥४-६०-६॥
हृष्टपक्षिगणाकीर्णः कन्दरोदरकूटवान् ।
दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः ॥४-६०-७॥
आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम् ।
ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपाऽभवत् ॥४-६०-८॥
अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा गिरौ ।
वसतो मम धर्मज्ञे स्वर्गते तु निशाकरे ॥४-६०-९॥
अवतीर्य च विन्ध्याग्रात् कृच्छ्रेण विषमाच्छनैः ।
तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः ॥४-६०-१०॥
तमृषिं द्रष्टुकामोऽस्मि दुःखेनाभ्यागतो भृशम् ।
जटायुषा मया चैव बहुशोऽधिगतो हि सः ॥४-६०-११॥
तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः ।
वृक्षो नापुष्पितः कश्चिदफलो वा न दृश्यते ॥४-६०-१२॥
उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः ।
द्रष्टुकामः प्रतीक्षे च भगवन्तं निशाकरम् ॥४-६०-१३॥
अथ पश्यामि दूरस्थमृषिं ज्वलिततेजसम् ।
कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम् ॥४-६०-१४॥
तमृक्षाः सृमरा व्याघ्राः सिंहा नानासरीसृपाः ।
परिवार्योपगच्छन्ति दातारं प्राणिनो यथा ॥४-६०-१५॥
ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः ।
प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम् ॥४-६०-१६॥
ऋषिस्तु दृष्ट्वा मां तुष्टः प्रविष्टश्चाश्रमं पुनः ।
मुहूर्तमात्रान्निर्गम्य ततः कार्यमपृच्छत ॥४-६०-१७॥
सौम्य वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते ।
अग्निदग्धाविमौ पक्षौ प्राणाश्चापि शरीरके ॥४-६०-१८॥
गृध्रौ द्वौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे ।
गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ ॥४-६०-१९॥
ज्येष्ठोऽवितस्त्वं सम्पाते जटायुरनुजस्तव ।
मानुषं रूपमास्थाय गृह्णीतां चरणौ मम ॥४-६०-२०॥
किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् ।
दण्डो वायं धृतः केन सर्वमाख्याहि पृच्छतः ॥४-६०-२१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे संपातिपुरावृत्तवर्णनम् नाम षष्ठितमः सर्गः ॥४-६०॥
Previous
सुपार्श्ववचनानुवादः
Next
सूर्यानुगमनाख्यानम्