सूर्यानुगमनाख्यानम्

किष्किन्धाकाण्डः / सूर्यानुगमनाख्यानम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे सूर्यानुगमनाख्यानम् नाम एकषष्ठितमः सर्गः ॥४-६१॥
ततस्तद् दारुणं कर्म दुष्करं सहसा कृतम् । आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा ॥४-६१-१॥
भगवन् व्रणयुक्तत्वाल्लज्जया चाकुलेन्द्रियः । परिश्रान्तो न शक्नोमि वचनं परिभाषितुम् ॥४-६१-२॥
अहं चैव जटायुश्च संघर्षाद् गर्वमोहितौ । आकाशं पतितौ दूराज्जिज्ञासन्तौ पराक्रमम् ॥४-६१-३॥
कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम् । रविः स्यादनुयातव्यो यावदस्तं महागिरिम् ॥४-६१-४॥
अप्यावां युगपत् प्राप्तावपश्याव महीतले । रथचक्रप्रमाणानि नगराणि पृथक् पृथक् ॥४-६१-५॥
क्वचिद् वादित्रघोषश्च क्वचिद् भूषणनिःस्वनः । गायन्तीः स्माङ्गना बह्वीः पश्यावो रक्तवाससः ॥४-६१-६॥
तूर्णमुत्पत्य चाकाशमादित्यपदमास्थितौ । आवामालोकयावस्तद् वनं शाद्वलसंस्थितम् ॥४-६१-७॥
उपलैरिव संछन्ना दृश्यते भूः शिलोच्चयैः । आपगाभिश्च संवीता सूत्रैरिव वसुंधरा ॥४-६१-८॥
हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहागिरिः । भूतले सम्प्रकाशन्ते नागा इव जलाशये ॥४-६१-९॥
तीव्रः स्वेदश्च खेदश्च भयं चासीत् तदावयोः । समाविशत मोहश्च ततो मूर्च्छा च दारुणा ॥४-६१-१०॥
न च दिग् ज्ञायते याम्या न चाग्नेयी न वारुणी । युगान्ते नियतो लोको हतो दग्ध इवाग्निना ॥४-६१-११॥
मनश्च मे हतं भूयश्चक्षुः प्राप्य तु संश्रयम् । यत्नेन महता ह्यस्मिन् मनः संधाय चक्षुषी ॥४-६१-१२॥
यत्नेन महता भूयो भास्करः प्रतिलोकितः । तुल्यपृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ ॥४-६१-१३॥
जटायुर्मामनापृच्छ्य निपपात महीं ततः । तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम् ॥४-६१-१४॥
पक्षाभ्यां च मया गुप्तो जटायुर्न प्रदह्यत । प्रमादात् तत्र निर्दग्धः पतन् वायुपथादहम् ॥४-६१-१५॥
आशङ्के तं निपतितं जनस्थाने जटायुषम् । अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः ॥४-६१-१६॥
राज्याच्च हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च । सर्वथा मर्तुमेवेच्छन् पतिष्ये शिखराद् गिरेः ॥४-६१-१७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सूर्यानुगमनाख्यानम् नाम एकषष्ठितमः सर्गः ॥४-६१॥