सुपार्श्ववचनानुवादः
किष्किन्धाकाण्डः / सुपार्श्ववचनानुवादः
Script
Translation
Previous
सीताप्रवृच्युपलम्भः
Next
संपातिपुरावृत्तवर्णनम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे सुपार्श्ववचनानुवादः नाम एकोनषष्ठितमः सर्गः ॥४-५९॥
ततस्तदमृतास्वादं गृध्रराजेन भाषितम् ।
निशम्य वदता हृष्टास्ते वचः प्लवगर्षभाः ॥४-५९-१॥
जाम्बवान् वानरश्रेष्ठः सह सर्वैः प्लवङ्गमैः ।
भूतलात् सहसोत्थाय गृध्रराजानमब्रवीत् ॥४-५९-२॥
क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् ।
तदाख्यातु भवान् सर्वं गतिर्भव वनौकसाम् ॥४-५९-३॥
को दाशरथिबाणानां वज्रवेगनिपातिनाम् ।
स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् ॥४-५९-४॥
स हरीन् प्रतिसम्मुक्तान् सीताश्रुतिसमाहितान् ।
पुनराश्वासयन् प्रीत इदं वचनमब्रवीत् ॥४-५९-५॥
श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् ।
येन चापि ममाख्यातं यत्र चायतलोचना ॥४-५९-६॥
अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते ।
चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः ॥४-५९-७॥
तं मामेवंगतं पुत्रः सुपार्श्वो नाम नामतः ।
आहारेण यथाकालं बिभर्ति पततां वरः ॥४-५९-८॥
तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः ।
मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम् ॥४-५९-९॥
स कदाचित् क्षुधार्तस्य ममाहाराभिकांक्षिणः ।
गतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः ॥४-५९-१०॥
स मयाऽऽहारसंरोधात् पीडितः प्रीतिवर्धनः ।
अनुमान्य यथातत्त्वमिदं वचनमब्रवीत् ॥४-५९-११॥
अहं तात यथाकालमामिषार्थी खमाप्लुतः ।
महेन्द्रस्य गिरेर्द्वारमावृत्य सुसमाश्रितः ॥४-५९-१२॥
तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम् ।
पन्थानमेकोऽध्यवसं संनिरोद्धुमवाङ्मुखः ॥४-५९-१३॥
तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम् ।
स्त्रियमादाय गच्छन् वै भिन्नाञ्जनचयोपमः ॥४-५९-१४॥
सोऽहमभ्यवहारार्थं तौ दृष्ट्वा कृतनिश्चयः ।
तेन साम्ना विनीतेन पन्थानमनुयाचितः ॥४-५९-१५॥
नहि सामोपपन्नानां प्रहर्ता विद्यते भुवि ।
नीचेष्वपि जनः कश्चित् किमङ्ग बत मद्विधः ॥४-५९-१६॥
स यातस्तेजसा व्योम संक्षिपन्निव वेगितः ।
अथाहं खेचरैर्भूतैरभिगम्य सभाजितः ॥४-५९-१७॥
दिष्ट्या जीवति सीतेति ह्यब्रुवन् मां महर्षयः ।
कथंचित् सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम् ॥४-५९-१८॥
एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः ।
स च मे रावणो राजा रक्षसां प्रतिवेदितः ॥४-५९-१९॥
पश्यन् दाशरथेर्भार्यां रामस्य जनकात्मजाम् ।
भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् ॥४-५९-२०॥
रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम् ।
एष कालात्ययस्तात इति वाक्यविदां वरः ॥४-५९-२१॥
एतदर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् ।
तच्छ्रुत्वापि हि मे बुद्धिर्नासीत् काचित् पराक्रमे ॥४-५९-२२॥
अपक्षो हि कथं पक्षी कर्म किंचित् समारभेत् ।
यत् तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना ॥४-५९-२३॥
श्रूयतां तत्र वक्ष्यामि भवतां पौरुषाश्रयम् ।
वाङ्मतिभ्यां हि सर्वेषां करिष्यामि प्रियं हि वः ॥४-५९-२४॥
यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः ।
तद् भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः ॥४-५९-२५॥
प्रहिताः कपिराजेन देवैरपि दुरासदाः ।
रामलक्ष्मणबाणाश्च विहिताः कङ्कपत्रिणः ॥४-५९-२६॥
त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे ।
कामं खलु दशग्रीवस्तेजोबलसमन्वितः ।
भवतां तु समर्थानां न किंचिदपि दुष्करम् ॥४-५९-२७॥
तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः ।
नहि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥४-५९-२८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सुपार्श्ववचनानुवादः नाम एकोनषष्ठितमः सर्गः ॥४-५९॥
Previous
सीताप्रवृच्युपलम्भः
Next
संपातिपुरावृत्तवर्णनम्