सुग्रीवसख्यम्
किष्किन्धाकाण्डः / सुग्रीवसख्यम्
Script
Translation
Previous
सुग्रीवसमीपगमनम्
Next
भूषणप्रत्यभिज्ञानम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे सुग्रीवसख्यम् नाम पञ्चमः सर्गः ॥४-५॥
ऋष्यमूकात् तु हनुमान् गत्वा तं मलयं गिरिम् ।
आचचक्षे तदा वीरौ कपिराजाय राघवौ ॥४-५-१॥
अयं रामो महाप्राज्ञ सम्प्राप्तो दृढविक्रमः ।
लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः ॥४-५-२॥
इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः ।
धर्मे निगदितश्चैव पितुर्निर्देशकारकः ॥४-५-३॥
राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः ।
दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः ॥४-५-४॥
तपसा सत्यवाक्येन वसुधा येन पालिता ।
स्त्रीहेतोस्तस्य पुत्रोऽयं रामोऽरण्यं समागतः ॥४-५-५॥
तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः ।
रावणेन हृता भार्या स त्वां शरणमागतः ॥४-५-६॥
भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ ।
प्रगृह्य चार्चयस्वैतौ पूजनीयतमावुभौ ॥४-५-७॥
श्रुत्वा हनूमतो वाक्यं सुग्रीवो वानराधिपः ।
दर्शनीयतमो भूत्वा प्रीत्योवाच च राघवम् ॥४-५-८॥
भवान् धर्मविनीतश्च सुतपाः सर्ववत्सलः ।
आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः ॥४-५-९॥
तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो ।
यत्त्वमिच्छसि सौहार्दं वानरेण मया सह ॥४-५-१०॥
रोचते यदि मे सख्यं बाहुरेष प्रसारितः ।
गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा ॥४-५-११॥
एतत् तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम् ।
सम्प्रहृष्टमना हस्तं पीडयामास पाणिना ॥४-५-१२॥
हृष्टः सौहृदमालम्ब्य पर्यष्वजत पीडितम् ।
ततो हनूमान् संत्यज्य भिक्षुरूपमरिंदमः ॥४-५-१३॥
काष्ठयोः स्वेन रूपेण जनयामास पावकम् ।
दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम् ॥४-५-१४॥
तयोर्मध्ये तु सुप्रीतो निदधौ सुसमाहितः ।
ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् ॥४-५-१५॥
सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ ।
ततः सुप्रीतमनसौ तावुभौ हरिराघवौ ॥४-५-१६॥
अन्योन्यमभिवीक्षन्तौ न तृप्तिमभिजग्मतुः ।
त्वं वयस्योऽसि हृद्यो मे ह्येकं दुःखं सुखं च नौ ॥४-५-१७॥
सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत् ।
ततः सुपर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम् ॥४-५-१८॥
सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ।
लक्ष्मणायाथ संहृष्टो हनुमान् मारुतात्मजः ॥४-५-१९॥
शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम् ।
ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा ॥४-५-२०॥
प्रत्युवाच तदा रामं हर्षव्याकुललोचनः ।
अहं विनिकृतो राम चरामीह भयार्दितः ॥४-५-२१॥
हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः ।
सोऽहं त्रस्तो वने भीतो वसाम्युद्भ्रान्तचेतनः ॥४-५-२२॥
वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ।
वालिनो मे महाभाग भयार्तस्याभयं कुरु ॥४-५-२३॥
कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद् यथा ।
एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः ॥४-५-२४॥
प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव ।
उपकारफलं मित्रं विदितं मे महाकपे ॥४-५-२५॥
वालिनं तं वधिष्यामि तव भार्यापहारिणम् ।
अमोघाः सूर्यसंकाशा ममेमे निशिताः शराः ॥४-५-२६॥
तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ।
कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः ॥४-५-२७॥
तीक्ष्णाग्रा ऋजुपर्वाणः सरोषा भुजगा इव ।
तमद्य वालिनं पश्य तीक्ष्णैराशीविषोपमैः ॥४-५-२८॥
शरैर्विनिहतं भूमौ प्रकीर्णमिव पर्वतम् ।
स तु तद् वचनं श्रुत्वा राघवस्यात्मनो हितम् ।
सुग्रीवः परमप्रीतः परमं वाक्यमब्रवीत् ॥४-५-२९॥
तव प्रसादेन नृसिंह वीर प्रियां च राज्यं च समाप्नुयामहम् ।
तथा कुरु त्वं नरदेव वैरिणं यथा न हिंस्यात् स पुनर्ममाग्रजम् ॥४-५-३०॥
सीताकपीन्द्रक्षणदाचराणां राजीवहेमज्वलनोपमानि ।
सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति ॥४-५-३१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सुग्रीवसख्यम् नाम पञ्चमः सर्गः ॥४-५॥
Previous
सुग्रीवसमीपगमनम्
Next
भूषणप्रत्यभिज्ञानम्