संपातिप्रश्नः

किष्किन्धाकाण्डः / संपातिप्रश्नः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे संपातिप्रश्नः नाम षट्पञ्चाशः सर्गः ॥४-५६॥
उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले । हरयो गृध्रराजश्च तं देशमुपचक्रमे ॥४-५६-१॥
सम्पातिर्नाम नाम्ना तु चिरजीवी विहंगमः । भ्राता जटायुषः श्रीमान् विख्यातबलपौरुषः ॥४-५६-२॥
कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः । उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ॥४-५६-३॥
विधिः किल नरं लोके विधानेनानुवर्तते । यथायं विहितो भक्ष्यश्चिरान्मह्यमुपागतः ॥४-५६-४॥
परम्पराणां भक्षिष्ये वानराणां मृतं मृतम् । उवाचैतद् वचः पक्षी तान् निरीक्ष्य प्लवंगमान् ॥४-५६-५॥
तस्य तद् वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः । अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत् ॥४-५६-६॥
पश्य सीतापदेशेन साक्षाद् वैवस्वतो यमः । इमं देशमनुप्राप्तो वानराणां विपत्तये ॥४-५६-७॥
रामस्य न कृतं कार्यं न कृतं राजशासनम् । हरीणामियमज्ञाता विपत्तिः सहसाऽऽगता ॥४-५६-८॥
वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा । गृध्रराजेन यत् तत्र श्रुतं वस्तदशेषतः ॥४-५६-९॥
तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि । प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम् ॥४-५६-१०॥
अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः । ततस्तस्योपकारार्थं त्यजतात्मानमात्मना ॥४-५६-११॥
प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा । राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः ॥४-५६-१२॥
कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् । स सुखी गृध्रराजस्तु रावणेन हतो रणे । मुक्तश्च सुग्रीवभयाद् गतश्च परमां गतिम् ॥४-५६-१३॥
जटायुषो विनाशेन राज्ञो दशरथस्य च । हरणेन च वैदेह्याः संशयं हरयो गताः ॥४-५६-१४॥
रामलक्ष्मणयोर्वासमरण्ये सह सीतया । राघवस्य च बाणेन वालिनश्च तथा वधः ॥४-५६-१५॥
रामकोपादशेषाणां रक्षसां च तथा वधम् । कैकेय्या वरदानेन इदं च विकृतं कृतम् ॥४-५६-१६॥
तदसुखमनुकीर्तितं वचो भुवि पतितांश्च निरीक्ष्य वानरान् । भृशचकितमतिर्महामतिः कृपणमुदाहृतवान् स गृध्रराजः ॥४-५६-१७॥
तत् तु श्रुत्वा तथा वाक्यमङ्गदस्य मुखोद्गतम् । अब्रवीद् वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥४-५६-१८॥
कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे । जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ॥४-५६-१९॥
कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः । नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् ॥४-५६-२०॥
इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम् । यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥४-५६-२१॥
अतिदीर्घस्य कालस्य परितुष्टोऽस्मि कीर्तनात् । तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ॥४-५६-२२॥
भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः । तस्यैव च मम भ्रातुः सखा दशरथः कथम् ॥४-५६-२३॥
यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः । सूर्यांशुदग्धपक्षत्वान्न शक्नोमि विसर्पितुम् । इच्छेयं पर्वतादस्मादवतर्तुमरिंदमाः ॥४-५६-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे संपातिप्रश्नः नाम षट्पञ्चाशः सर्गः ॥४-५६॥