प्रायोपवेशः

किष्किन्धाकाण्डः / प्रायोपवेशः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे प्रायोपवेशः नाम पञ्चपञ्चाशः सर्गः ॥४-५५॥
श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् । स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत् ॥४-५५-१॥
स्थैर्यमात्ममनःशौचमानृशंस्यमथार्जवम् । विक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते ॥४-५५-२॥
भ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम् । धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः ॥४-५५-३॥
कथं स धर्मं जानीते येन भ्रात्रा दुरात्मना । युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् ॥४-५५-४॥
सत्यात् पाणिगृहीतश्च कृतकर्मा महायशाः । विस्मृतो राघवो येन स कस्य सुकृतं स्मरेत् ॥४-५५-५॥
लक्ष्मणस्य भयेनेह नाधर्मभयभीरुणा । आदिष्टा मार्गितुं सीता धर्मस्तस्मिन् कथं भवेत् ॥४-५५-६॥
तस्मिन् पापे कृतघ्ने तु स्मृतिभिन्ने चलात्मनि । आर्यः को विश्वसेज्जातु तत्कुलीनो विशेषतः ॥४-५५-७॥
राज्ये पुत्रः प्रतिष्ठाप्यः सगुणो निर्गुणोऽपि वा । कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥४-५५-८॥
भिन्नमन्त्रोऽपराद्धश्च भिन्नशक्तिः कथं ह्यहम् । किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः ॥४-५५-९॥
उपांशुदण्डेन हि मां बन्धनेनोपपादयेत् । शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ॥४-५५-१०॥
बन्धनाच्चावसादान्मे श्रेयः प्रायोपवेशनम् । अनुजानन्तु मां सर्वे गृहं गच्छन्तु वानराः ॥४-५५-११॥
अहं वः प्रतिजानामि न गमिष्याम्यहं पुरीम् । इहैव प्रायमासिष्ये श्रेयो मरणमेव मे ॥४-५५-१२॥
अभिवादनपूर्वं तु राजा कुशलमेव च । अभिवादनपूर्वं तु राघवौ बलशालिनौ ॥४-५५-१३॥
वाच्यस्तातो यवीयान् मे सुग्रीवो वानरेश्वरः । आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे ॥४-५५-१४॥
मातरं चैव मे तारामाश्वासयितुमर्हथ । प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी ॥४-५५-१५॥
विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् । एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च ॥४-५५-१६॥
विवेश चाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः । तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः ॥४-५५-१७॥
नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः । सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् ॥४-५५-१८॥
परिवार्याङ्गदं सर्वे व्यवसन् प्रायमासितुम् । तद् वाक्यं वालिपुत्रस्य विज्ञाय प्लवगर्षभाः ॥४-५५-१९॥
उपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन् । दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः ॥४-५५-२०॥
मुमूर्षवो हरिश्रेष्ठा एतत् क्षममिति स्म ह । रामस्य वनवासं च क्षयं दशरथस्य च ॥४-५५-२१॥
जनस्थानवधं चैव वधं चैव जटायुषः । हरणं चैव वैदेह्या वालिनश्च वधं तथा । रामकोपं च वदतां हरीणां भयमागतम् ॥४-५५-२२॥
स संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवंगमैः । बभूव संनादितनिर्दरान्तरो भृशं नदद्भिर्जलदैरिवाम्बरम् ॥४-५५-२३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे प्रायोपवेशः नाम पञ्चपञ्चाशः सर्गः ॥४-५५॥