जटायुर्दिष्टकथनम्

किष्किन्धाकाण्डः / जटायुर्दिष्टकथनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे जटायुर्दिष्टकथनम् नाम सप्तपञ्चाशः सर्गः ॥४-५७॥
शोकाद् भ्रष्टस्वरमपि श्रुत्वा वानरयूथपाः । श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः ॥४-५७-१॥
ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवंगमाः । चक्रुर्बुद्धिं तदा रौद्रां सर्वान् नो भक्षयिष्यति ॥४-५७-२॥
सर्वथा प्रायमासीनान् यदि नो भक्षयिष्यति । कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः ॥४-५७-३॥
एतां बुद्धिं ततश्चक्रुः सर्वे ते हरियूथपाः । अवतार्य गिरेः शृङ्गाद् गृध्रमाहाङ्गदस्तदा ॥४-५७-४॥
बभूवर्क्षरजो नाम वानरेन्द्रः प्रतापवान् । ममार्यः पार्थिवः पक्षिन् धार्मिकौ तस्य चात्मजौ ॥४-५७-५॥
सुग्रीवश्चैव वाली च पुत्रौ घनबलावुभौ । लोके विश्रुतकर्माभूद् राजा वाली पिता मम ॥४-५७-६॥
राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः । रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ॥४-५७-७॥
लक्ष्मणेन सह भ्रात्रा वैदेह्या सह भार्यया । पितुर्निदेशनिरतो धर्मं पन्थानमाश्रितः ॥४-५७-८॥
तस्य भार्या जनस्थानाद् रावणेन हृता बलात् । रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट् ॥४-५७-९॥
ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा । रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् । परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे ॥४-५७-१०॥
एवं गृध्रो हतस्तेन रावणेन बलीयसा । संस्कृतश्चापि रामेण जगाम गतिमुत्तमाम् ॥४-५७-११॥
ततो मम पितृव्येण सुग्रीवेण महात्मना । चकार राघवः सख्यं सोऽवधीत् पितरं मम ॥४-५७-१२॥
मम पित्रा निरुद्धो हि सुग्रीवः सचिवैः सह । निहत्य वालिनं रामस्ततस्तमभिषेचयत् ॥४-५७-१३॥
स राज्ये स्थापितस्तेन सुग्रीवो वानरेश्वरः । राजा वानरमुख्यानां तेन प्रस्थापिता वयम् ॥४-५७-१४॥
एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः । वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव ॥४-५७-१५॥
ते वयं दण्डकारण्यं विचित्य सुसमाहिताः । अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतं बिलम् ॥४-५७-१६॥
मयस्य मायाविहितं तद् बिलं च विचिन्वताम् । व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः ॥४-५७-१७॥
ते वयं कपिराजस्य सर्वे वचनकारिणः । कृतां संस्थामतिक्रान्ता भयात् प्रायमुपासिताः ॥४-५७-१८॥
क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे । गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् ॥४-५७-१९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे जटायुर्दिष्टकथनम् नाम सप्तपञ्चाशः सर्गः ॥४-५७॥