हनूमद्भेदनम्

किष्किन्धाकाण्डः / हनूमद्भेदनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे हनूमद्भेदनम् नाम चतुःपञ्चाशः सर्गः ॥४-५४॥
तथा ब्रुवति तारे तु ताराधिपतिवर्चसि । अथ मेने हृतं राज्यं हनूमानङ्गदेन तत् ॥४-५४-१॥
बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम् । चतुर्दशगुणं मेने हनूमान् वालिनः सुतम् ॥४-५४-२॥
आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः । शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ॥४-५४-३॥
बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः । शुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम् ॥४-५४-४॥
भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविशारदः । अभिसंधातुमारेभे हनूमानङ्गदं ततः ॥४-५४-५॥
स चतुर्णामुपायानां तृतीयमुपवर्णयन् । भेदयामास तान् सर्वान् वानरान् वाक्यसम्पदा ॥४-५४-६॥
तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम् । भीषणैर्विविधैर्वाक्यैः कोपोपायसमन्वितैः ॥४-५४-७॥
त्वं समर्थतरः पित्रा युद्धे तारेय वै ध्रुवम् । दृढं धारयितुं शक्तः कपिराज्यं यथा पिता ॥४-५४-८॥
नित्यमस्थिरचित्ता हि कपयो हरिपुंगव । नाज्ञाप्यं विषहिष्यन्ति पुत्रदारं विना त्वया ॥४-५४-९॥
त्वां नैते ह्यनुरञ्जेयुः प्रत्यक्षं प्रवदामि ते । यथायं जाम्बवान् नीलः सुहोत्रश्च महाकपिः ॥४-५४-१०॥
नह्यहं ते इमे सर्वे सामदानादिभिर्गुणैः । दण्डेन न त्वया शक्याः सुग्रीवादपकर्षितुम् ॥४-५४-११॥
विगृह्यासनमप्याहुर्दुर्बलेन बलीयसा । आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः ॥४-५४-१२॥
यां चेमां मन्यसे धात्रीमेतद् बिलमिति श्रुतम् । एतल्लक्ष्मणबाणानामीषत् कार्यं विदारणम् ॥४-५४-१३॥
स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा । लक्ष्मणो निशितैर्बाणैर्भिन्द्यात् पत्रपुटं यथा ॥४-५४-१४॥
लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः । वज्राशनिसमस्पर्शा गिरीणामपि दारकाः ॥४-५४-१५॥
अवस्थानं यदैव त्वमासिष्यसि परंतप । तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः ॥४-५४-१६॥
स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः । खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः ॥४-५४-१७॥
स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः । तृणादपि भृशोद्विग्नः स्पन्दमानाद् भविष्यसि ॥४-५४-१८॥
न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः । अपवृत्तं जिघांसन्तो महावेगा दुरासदाः ॥४-५४-१९॥
अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम् । आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति ॥४-५४-२०॥
धर्मराजः पितृव्यस्ते प्रीतिकामो दृढव्रतः । शुचिः सत्यप्रतिज्ञश्च स त्वां जातु न नाशयेत् ॥४-५४-२१॥
प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम् । तस्यापत्यं च नास्त्यन्यत् तस्मादङ्गद गम्यताम् ॥४-५४-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे हनूमद्भेदनम् नाम चतुःपञ्चाशः सर्गः ॥४-५४॥