अङ्गदादिनिर्वेदः
किष्किन्धाकाण्डः / अङ्गदादिनिर्वेदः
Script
Translation
Previous
बिलप्रवेशकारणकथनम्
Next
हनूमद्भेदनम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे अङ्गदादिनिर्वेदः नाम त्रिपञ्चाशः सर्गः ॥४-५३॥
ततस्ते ददृशुर्घोरं सागरं वरुणालयम् ।
अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम् ॥४-५३-१॥
मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम् ।
तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥४-५३-२॥
विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे ।
उपविश्य महात्मानश्चिन्तामापेदिरे तदा ॥४-५३-३॥
ततः पुष्पातिभाराग्राँल्लताशतसमावृतान् ।
द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुर्भयशङ्किताः ॥४-५३-४॥
ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम् ।
नष्टसंदेशकालार्था निपेतुर्धरणीतले ॥४-५३-५॥
ततस्तान् कपिवृद्धांश्च शिष्टांश्चैव वनौकसः ।
वाचा मधुरयाऽऽभाष्य यथावदनुमान्य च ॥४-५३-६॥
स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः ।
युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् ॥४-५३-७॥
शासनात् कपिराजस्य वयं सर्वे विनिर्गताः ।
मासः पूर्णो बिलस्थानां हरयः किं न बुध्यत ॥४-५३-८॥
वयमाश्वयुजे मासि कालसंख्याव्यवस्थिताः ।
प्रस्थिताः सोऽपि चातीतः किमतः कार्यमुत्तरम् ॥४-५३-९॥
भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः ।
हितेष्वभिरता भर्तुर्निसृष्टाः सर्वकर्मसु ॥४-५३-१०॥
कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः ।
मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः ॥४-५३-११॥
इदानीमकृतार्थानां मर्तव्यं नात्र संशयः ।
हरिराजस्य संदेशमकृत्वा कः सुखी भवेत् ॥४-५३-१२॥
अस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् ।
प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् ॥४-५३-१३॥
तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः ।
न क्षमिष्यति नः सर्वानपराधकृतो गतान् ॥४-५३-१४॥
अप्रवृत्तौ च सीतायाः पापमेव करिष्यति ।
तस्मात् क्षममिहाद्यैव गन्तुं प्रायोपवेशनम् ॥४-५३-१५॥
त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च ।
ध्रुवं नो हिंसते राजा सर्वान् प्रतिगतानितः ॥४-५३-१६॥
वधेनाप्रतिरूपेण श्रेयान् मृत्युरिहैव नः ।
न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः ॥४-५३-१७॥
नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा ।
स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् ॥४-५३-१८॥
घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः ।
किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे ।
इहैव प्रायमासिष्ये पुण्ये सागररोधसि ॥४-५३-१९॥
एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् ।
सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ॥४-५३-२०॥
तीक्ष्णः प्रकृत्या सुग्रीवः प्रियारक्तश्च राघवः ।
समीक्ष्याकृतकार्यांस्तु तस्मिंश्च समये गते ॥४-५३-२१॥
अदृष्टायां च वैदेह्यां दृष्ट्वा चैव समागतान् ।
राघवप्रियकामाय घातयिष्यत्यसंशयम् ॥४-५३-२२॥
न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः ।
प्रधानभूताश्च वयं सुग्रीवस्य समागताः ॥४-५३-२३॥
इहैव सीतामन्वीक्ष्य प्रवृत्तिमुपलभ्य वा ।
नो चेद् गच्छाम तं वीरं गमिष्यामो यमक्षयम् ॥४-५३-२४॥
प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे ।
अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः ॥४-५३-२५॥
इदं हि मायाविहितं सुदुर्गमं प्रभूतपुष्पोदकभोज्यपेयम् ।
इहास्ति नो नैव भयं पुरंदरान्न राघवाद् वानरराजतोऽपि वा ॥४-५३-२६॥
श्रुत्वाङ्गदस्यापि वचोऽनुकूलमूचुश्च सर्वे हरयः प्रतीताः ।
यथा न हन्येम तथा विधानमसक्तमद्यैव विधीयतां नः ॥४-५३-२७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अङ्गदादिनिर्वेदः नाम त्रिपञ्चाशः सर्गः ॥४-५३॥
Previous
बिलप्रवेशकारणकथनम्
Next
हनूमद्भेदनम्