बिलप्रवेशकारणकथनम्

किष्किन्धाकाण्डः / बिलप्रवेशकारणकथनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे बिलप्रवेशकारणकथनम् नाम द्विपञ्चाशः सर्गः ॥४-५२॥
अथ तानब्रवीत् सर्वान् विश्रान्तान् हरियूथपान् । इदं वचनमेकाग्रा तापसी धर्मचारिणी ॥४-५२-१॥
वानरा यदि वः खेदः प्रणष्टः फलभक्षणात् । यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि तां कथाम् ॥४-५२-२॥
तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः । आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे ॥४-५२-३॥
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः । रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ॥४-५२-४॥
लक्ष्मणेन सह भ्रात्रा वैदेह्या सह भार्यया । तस्य भार्या जनस्थानाद् रावणेन हृता बलात् ॥४-५२-५॥
वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः । राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥४-५२-६॥
अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् । सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम् ॥४-५२-७॥
रावणं सहिताः सर्वे राक्षसं कामरूपिणम् । सीतया सह वैदेह्या मार्गध्वमिति चोदिताः ॥४-५२-८॥
विचित्य तु वनं सर्वं समुद्रं दक्षिणां दिशम् । वयं बुभुक्षिताः सर्वे वृक्षमूलमुपाश्रिताः ॥४-५२-९॥
विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः । नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे ॥४-५२-१०॥
चारयन्तस्ततश्चक्षुर्दृष्टवन्तो महद् बिलम् । लतापादपसंछन्नं तिमिरेण समावृतम् ॥४-५२-११॥
अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः । कुरराः सारसाश्चैव निष्पतन्ति पतत्त्रिणः ॥४-५२-१२॥
साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः । तेषामपि हि सर्वेषामनुमानमुपागतम् ॥४-५२-१३॥
अस्मिन् निपतिताः सर्वेऽप्यथ कार्यत्वरान्विताः । ततो गाढं निपतिता गृह्य हस्तैः परस्परम् ॥४-५२-१४॥
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् । एतन्नः कार्यमेतेन कृत्येन वयमागताः ॥४-५२-१५॥
त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः । आतिथ्यधर्मदत्तानि मूलानि च फलानि च ॥४-५२-१६॥
अस्माभिरुपयुक्तानि बुभुक्षापरिपीडितैः । यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया ॥४-५२-१७॥
ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः । एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयंप्रभा ॥४-५२-१८॥
प्रत्युवाच ततः सर्वानिदं वानरयूथपान् । सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम् ॥४-५२-१९॥
चरन्त्या मम धर्मेण न कार्यमिह केनचित् । एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् ॥४-५२-२०॥
उवाच हनुमान् वाक्यं तामनिन्दितलोचनाम् । शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणीम् ॥४-५२-२१॥
यः कृतः समयोऽस्मासु सुग्रीवेण महात्मना । स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् ॥४-५२-२२॥
सा त्वमस्माद् बिलादस्मानुत्तारयितुमर्हसि । तस्मात् सुग्रीववचनादतिक्रान्तान् गतायुषः ॥४-५२-२३॥
त्रातुमर्हसि नः सर्वान् सुग्रीवभयशङ्कितान् । महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि ॥४-५२-२४॥
तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः । एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् ॥४-५२-२५॥
जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् । तपसः सुप्रभावेण नियमोपार्जितेन च ॥४-५२-२६॥
सर्वानेव बिलादस्मात् तारयिष्यामि वानरान् । निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः ॥४-५२-२७॥
नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः । ततो निमीलिताः सर्वे सुकुमाराङ्गुलैः करैः ॥४-५२-२८॥
सहसा पिदधुर्दृष्टिं हृष्टा गमनकांक्षया । वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा ॥४-५२-२९॥
निमेषान्तरमात्रेण बिलादुत्तारितास्तया । उवाच सर्वांस्तांस्तत्र तापसी धर्मचारिणी ॥४-५२-३०॥
निःसृतान् विषमात् तस्मात् समाश्वास्येदमब्रवीत् । एष विन्ध्यो गिरिः श्रीमान् नानाद्रुमलतायुतः ॥४-५२-३१॥
एष प्रस्रवणः शैलः सागरोऽयं महोदधिः । स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः । इत्युक्त्वा तद् बिलं श्रीमत् प्रविवेश स्वयंप्रभा ॥४-५२-३२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे बिलप्रवेशकारणकथनम् नाम द्विपञ्चाशः सर्गः ॥४-५२॥