स्वयम्प्रभातिथ्यम्
किष्किन्धाकाण्डः / स्वयम्प्रभातिथ्यम्
Script
Translation
Previous
ऋक्षबिलप्रवेशः
Next
बिलप्रवेशकारणकथनम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे स्वयम्प्रभातिथ्यम् नाम एकपञ्चाशः सर्गः ॥४-५१॥
इत्युक्त्वा हनुमांस्तत्र चीरकृष्णाजिनाम्बराम् ।
अब्रवीत् तां महाभागां तापसीं धर्मचारिणीम् ॥४-५१-१॥
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ।
क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः ॥४-५१-२॥
महद् धरण्या विवरं प्रविष्टाः स्म पिपासिताः ।
इमांस्त्वेवंविधान् भावान् विविधानद्भुतोपमान् ॥४-५१-३॥
दृष्ट्वा वयं प्रव्यथिताः सम्भ्रान्ता नष्टचेतसः ।
कस्यैते काञ्चना वृक्षास्तरुणादित्यसंनिभाः ॥४-५१-४॥
शुचीन्यभ्यवहाराणि मूलानि च फलानि च ।
काञ्चनानि विमानानि राजतानि गृहाणि च ॥४-५१-५॥
तपनीयगवाक्षाणि मणिजालावृतानि च ।
पुष्पिताः फलवन्तश्च पुण्याः सुरभिगन्धयः ॥४-५१-६॥
इमे जाम्बूनदमयाः पादपाः कस्य तेजसा ।
काञ्चनानि च पद्मानि जातानि विमले जले ॥४-५१-७॥
कथं मत्स्याश्च सौवर्णा दृश्यन्ते सह कच्छपैः ।
आत्मनस्त्वनुभावाद् वा कस्य चैतत्तपोबलम् ॥४-५१-८॥
अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि ।
एवमुक्ता हनुमता तापसी धर्मचारिणी ॥४-५१-९॥
प्रत्युवाच हनूमन्तं सर्वभूतहिते रता ।
मयो नाम महातेजा मायावी वानरर्षभ ॥४-५१-१०॥
तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् ।
पुरा दानवमुख्यानां विश्वकर्मा बभूव ह ॥४-५१-११॥
येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् ।
स तु वर्षसहस्राणि तपस्तप्त्वा महद्वने ॥४-५१-१२॥
पितामहाद् वरं लेभे सर्वमौशनसं धनम् ।
विधाय सर्वं बलवान् सर्वकामेश्वरस्तदा ॥४-५१-१३॥
उवास सुखितः कालं कंचिदस्मिन् महावने ।
तमप्सरसि हेमायां सक्तं दानवपुङ्गवम् ॥४-५१-१४॥
विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः ।
इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम् ॥४-५१-१५॥
शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम् ।
दुहिता मेरुसावर्णेरहं तस्याः स्वयंप्रभा ॥४-५१-१६॥
इदं रक्षामि भवनं हेमाया वानरोत्तम ।
मम प्रियसखी हेमा नृत्तगीतविशारदा ॥४-५१-१७॥
तयादत्तवरा चास्मि रक्षामि भवनं महत् ।
किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ ॥४-५१-१८॥
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् ।
शुचीन्यभ्यवहाराणि मूलानि च फलानि च ।
भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हसि ॥४-५१-१९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे स्वयम्प्रभातिथ्यम् नाम एकपञ्चाशः सर्गः ॥४-५१॥
Previous
ऋक्षबिलप्रवेशः
Next
बिलप्रवेशकारणकथनम्