ऋक्षबिलप्रवेशः
किष्किन्धाकाण्डः / ऋक्षबिलप्रवेशः
Script
Translation
Previous
रजतपर्वतविचयः
Next
स्वयम्प्रभातिथ्यम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे ऋक्षबिलप्रवेशः नाम पञ्चाशः सर्गः ॥४-५०॥
सह ताराङ्गदाभ्यां तु संगम्य हनुमान् कपिः ।
विचिनोति च विन्ध्यस्य गुहाश्च गहनानि च ॥४-५०-१॥
सिंहशार्दूलजुष्टाश्च गुहाश्च परितस्तदा ।
विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च ॥४-५०-२॥
आसेदुस्तस्य शैलस्य कोटिं दक्षिणपश्चिमाम् ।
तेषां तत्रैव वसतां स कालो व्यत्यवर्तत ॥४-५०-३॥
स हि देशो दुरन्वेष्यो गुहागहनवान् महान् ।
तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम् ॥४-५०-४॥
परस्परेण रहिता अन्योन्यस्याविदूरतः ।
गजो गवाक्षो गवयः शरभो गन्धमादनः ॥४-५०-५॥
मैन्दश्च द्विविदश्चैव हनूमान् जाम्बवानपि ।
अङ्गदो युवराजश्च तारश्च वनगोचरः ॥४-५०-६॥
गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम् ।
विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम् ॥४-५०-७॥
दुर्गमृक्षबिलं नाम दानवेनाभिरक्षितम् ।
क्षुत्पिपासापरीतास्तु श्रान्तास्तु सलिलार्थिनः ॥४-५०-८॥
अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम् ।
तत्र क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन् ॥४-५०-९॥
जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः ।
ततस्तद् बिलमासाद्य सुगन्धि दुरतिक्रमम् ॥४-५०-१०॥
विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः ।
संजातपरिशङ्कास्ते तद् बिलं प्लवगोत्तमाः ॥४-५०-११॥
अभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः ।
नानासत्त्वसमाकीर्णं दैत्येन्द्रनिलयोपमम् ॥४-५०-१२॥
दुर्दर्शमिव घोरं च दुर्विगाह्यं च सर्वशः ।
ततः पर्वतकूटाभो हनूमान् मारुतात्मजः ॥४-५०-१३॥
अब्रवीद् वानरान् घोरान् कान्तारवनकोविदः ।
गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम् ॥४-५०-१४॥
वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम् ।
अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः ॥४-५०-१५॥
जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः ।
नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः ॥४-५०-१६॥
तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः ।
इत्युक्तास्तद् बिलं सर्वे विविशुस्तिमिरावृतम् ॥४-५०-१७॥
अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् ।
निशाम्य तस्मात् सिंहांश्च तांस्तांश्च मृगपक्षिणः ॥४-५०-१८॥
प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम् ।
न तेषां सज्जते दृष्टिर्न तेजो न पराक्रमः ॥४-५०-१९॥
वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते ।
ते प्रविष्टास्तु वेगेन तद् बिलं कपिकुञ्जराः ॥४-५०-२०॥
प्रकाशं चाभिरामं च ददृशुर्देशमुत्तमम् ।
ततस्तस्मिन् बिले भीमे नानापादपसंकुले ॥४-५०-२१॥
अन्योन्यं सम्परिष्वज्य जग्मुर्योजनमन्तरम् ।
ते नष्टसंज्ञास्तृषिताः सम्भ्रान्ताः सलिलार्थिनः ॥४-५०-२२॥
परिपेतुर्बिले तस्मिन् कंचित् कालमतन्द्रिताः ।
ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः ॥४-५०-२३॥
आलोकं ददृशुर्वीरा निराशा जीविते यदा ।
ततस्तं देशमागम्य सौम्या वितिमिरं वनम् ॥४-५०-२४॥
ददृशुः काञ्चनान् वृक्षान् दीप्तवैश्वानरप्रभान् ।
सालांस्तालांस्तमालांश्च पुंनागान् वञ्जुलान् धवान् ॥४-५०-२५॥
चम्पकान् नागवृक्षांश्च कर्णिकारांश्च पुष्पितान् ।
स्तबकैः काञ्चनैश्चित्रै रक्तैः किसलयैस्तथा ॥४-५०-२६॥
आपीडैश्च लताभिश्च हेमाभरणभूषितान् ।
तरुणादित्यसंकाशान् वैदूर्यमयवेदिकान् ॥४-५०-२७॥
बिभ्राजमानान् वपुषा पादपांश्च हिरण्मयान् ।
नीलवैदूर्यवर्णाश्च पद्मिनीः पतगैर्वृताः ॥४-५०-२८॥
महद्भिः काञ्चनैर्वृक्षैर्वृता बालार्कसंनिभैः ।
जातरूपमयैर्मत्स्यैर्महद्भिश्चाथ पङ्कजैः ॥४-५०-२९॥
नलिनीस्तत्र ददृशुः प्रसन्नसलिलायुताः ।
काञ्चनानि विमानानि राजतानि तथैव च ॥४-५०-३०॥
तपनीयगवाक्षाणि मुक्ताजालावृतानि च ।
हैमराजतभौमानि वैदूर्यमणिमन्ति च ॥४-५०-३१॥
ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः ।
पुष्पितान् फलिनो वृक्षान् प्रवालमणिसंनिभान् ॥४-५०-३२॥
काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः ।
मणिकाञ्चनचित्राणि शयनान्यासनानि च ॥४-५०-३३॥
विविधानि विशालानि ददृशुस्ते समन्ततः ।
हैमराजतकांस्यानां भाजनानां च राशयः ॥४-५०-३४॥
अगुरूणां च दिव्यानां चन्दनानां च संचयान् ।
शुचीन्यभ्यवहाराणि मूलानि च फलानि च ॥४-५०-३५॥
महार्हाणि च यानानि मधूनि रसवन्ति च ।
दिव्यानामम्बराणां च महार्हाणां च संचयान् ॥४-५०-३६॥
कम्बलानां च चित्राणामजिनानां च संचयान् ।
तत्र तत्र च विन्यस्तान् दीप्तान् वैश्वानरप्रभान् ॥४-५०-३७॥
ददृशुर्वानराः शुभ्राञ्जातरूपस्य संचयान् ।
तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाः ॥४-५०-३८॥
ददृशुर्वानराः शूराः स्त्रियं कांचिददूरतः ।
तां च ते ददृशुस्तत्र चीरकृष्णाजिनाम्बराम् ॥४-५०-३९॥
तापसीं नियताहारां ज्वलन्तीमिव तेजसा ।
विस्मिता हरयस्तत्र व्यवतिष्ठन्त सर्वशः ।
पप्रच्छ हनुमांस्तत्र कासि त्वं कस्य वा बिलम् ॥४-५०-४०॥
ततो हनूमान् गिरिसंनिकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम् ।
पप्रच्छ का त्वं भवनं बिलं च रत्नानि चेमानि वदस्व कस्य ॥४-५०-४१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे ऋक्षबिलप्रवेशः नाम पञ्चाशः सर्गः ॥४-५०॥
Previous
रजतपर्वतविचयः
Next
स्वयम्प्रभातिथ्यम्