रजतपर्वतविचयः
किष्किन्धाकाण्डः / रजतपर्वतविचयः
Script
Translation
Previous
कण्डूवनादिविचयः
Next
ऋक्षबिलप्रवेशः
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे रजतपर्वतविचयः नाम एकोनपञ्चाशः सर्गः ॥४-४९॥
अथाङ्गदस्तदा सर्वान् वानरानिदमब्रवीत् ।
परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर्वचः ॥४-४९-१॥
वनानि गिरयो नद्यो दुर्गाणि गहनानि च ।
दरी गिरिगुहाश्चैव विचिताः सर्वमन्ततः ॥४-४९-२॥
तत्र तत्र सहास्माभिर्जानकी न च दृश्यते ।
तथा रक्षोऽपहर्ता च सीतायाश्चैव दुष्कृती ॥४-४९-३॥
कालश्च नो महान् यातः सुग्रीवश्चोग्रशासनः ।
तस्माद् भवन्तः सहिता विचिन्वन्तु समन्ततः ॥४-४९-४॥
विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् ।
विचिनुध्वं तथा सीतां पश्यामो जनकात्मजाम् ॥४-४९-५॥
अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम् ।
कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम् ॥४-४९-६॥
अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः ।
खेदं त्यक्त्वा पुनः सर्वं वनमेव विचिन्वताम् ॥४-४९-७॥
अवश्यं कुर्वतां तस्य दृश्यते कर्मणः फलम् ।
परं निर्वेदमागम्य नहि नोन्मीलनं क्षमम् ॥४-४९-८॥
सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराः ।
भेतव्यं तस्य सततं रामस्य च महात्मनः ॥४-४९-९॥
हितार्थमेतदुक्तं वः क्रियतां यदि रोचते ।
उच्यतां हि क्षमं यत् तत् सर्वेषामेव वानराः ॥४-४९-१०॥
अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः ।
उवाच व्यक्तया वाचा पिपासाश्रमखिन्नया ॥४-४९-११॥
सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह ।
हितं चैवानुकूलं च क्रियतामस्य भाषितम् ॥४-४९-१२॥
पुनर्मार्गामहे शैलान् कन्दरांश्च शिलांस्तथा ।
काननानि च शून्यानि गिरिप्रस्रवणानि च ॥४-४९-१३॥
यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना ।
विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि संगताः ॥४-४९-१४॥
ततः समुत्थाय पुनर्वानरास्ते महाबलाः ।
विन्ध्यकाननसंकीर्णां विचेरुर्दक्षिणां दिशम् ॥४-४९-१५॥
ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् ।
शृङ्गवन्तं दरीवन्तमधिरुह्य च वानराः ॥४-४९-१६॥
तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च ।
विचिन्वन्तो हरिवराः सीतादर्शनकांक्षिणः ॥४-४९-१७॥
तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः ।
न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् ॥४-४९-१८॥
ते तु दृष्टिगतं दृष्ट्वा तं शैलं बहुकन्दरम् ।
अध्यारोहन्त हरयो वीक्षमाणाः समन्ततः ॥४-४९-१९॥
अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः ।
स्थिता मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः ॥४-४९-२०॥
ते मुहूर्तं समाश्वस्ताः किंचिद्भग्नपरिश्रमाः ।
पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम् ॥४-४९-२१॥
हनुमत्प्रमुखास्तावत् प्रस्थिताः प्लवगर्षभाः ।
विन्ध्यमेवादितः कृत्वा विचेरुश्च समन्ततः ॥४-४९-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे रजतपर्वतविचयः नाम एकोनपञ्चाशः सर्गः ॥४-४९॥
Previous
कण्डूवनादिविचयः
Next
ऋक्षबिलप्रवेशः