सुग्रीवसमीपगमनम्
किष्किन्धाकाण्डः / सुग्रीवसमीपगमनम्
Script
Translation
Previous
हनुमत्प्रेषणम्
Next
सुग्रीवसख्यम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे सुग्रीवसमीपगमनम् नाम चतुर्थः सर्गः ॥४-४॥
ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः ।
श्रुत्वा मधुरभावं च सुग्रीवं मनसा गतः ॥४-४-१॥
भाव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः ।
यदयं कृत्यवान् प्राप्तः कृत्यं चैतदुपागतम् ॥४-४-२॥
ततः परमसंहृष्टो हनूमान् प्लवगोत्तमः ।
प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ॥४-४-३॥
किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् ।
आगतः सानुजो दुर्गं नानाव्यालमृगायुतम् ॥४-४-४॥
तस्य तद् वचनं श्रुत्वा लक्ष्मणो रामचोदितः ।
आचचक्षे महात्मानं रामं दशरथात्मजम् ॥४-४-५॥
राजा दशरथो नाम द्युतिमान् धर्मवत्सलः ।
चातुर्वर्ण्यं स्वधर्मेण नित्यमेवाभिपालयन् ॥४-४-६॥
न द्वेष्टा विद्यते तस्य स तु द्वेष्टि न कंचन ।
स तु सर्वेषु भूतेषु पितामह इवापरः ॥४-४-७॥
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः ।
तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ॥४-४-८॥
शरण्यः सर्वभूतानां पितुर्निर्देशपारगः ।
ज्येष्ठो दशरथस्यायं पुत्राणां गुणवत्तरः ॥४-४-९॥
राजलक्षणसंयुक्तः संयुक्तो राज्यसम्पदा ।
राज्याद् भ्रष्टो मया वस्तुं वने सार्धमिहागतः ॥४-४-१०॥
भार्यया च महाभाग सीतयानुगतो वशी ।
दिनक्षये महातेजाः प्रभयेव दिवाकरः ॥४-४-११॥
अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः ।
कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥४-४-१२॥
सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः ।
ऐश्वर्येण विहीनस्य वनवासे रतस्य च ॥४-४-१३॥
रक्षसापहृता भार्या रहिते कामरूपिणा ।
तच्च न ज्ञायते रक्षः पत्नी येनास्य वा हृता ॥४-४-१४॥
दनुर्नाम दितेः पुत्रः शापाद् राक्षसतां गतः ।
आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः ॥४-४-१५॥
स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् ।
एवमुक्त्वा दनुः स्वर्गं भ्राजमानो दिवं गतः ॥४-४-१६॥
एतत् ते सर्वमाख्यातं याथातथ्येन पृच्छतः ।
अहं चैव च रामश्च सुग्रीवं शरणं गतौ ॥४-४-१७॥
एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः ।
लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥४-४-१८॥
सीता यस्य स्नुषा चासीच्छरण्यो धर्मवत्सलः ।
तस्य पुत्रः शरण्यश्च सुग्रीवं शरणं गतः ॥४-४-१९॥
सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा ।
गुरुर्मे राघवः सोऽयं सुग्रीवं शरणं गतः ॥४-४-२०॥
यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः ।
स रामो वानरेन्द्रस्य प्रसादमभिकांक्षते ॥४-४-२१॥
येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः ।
मानिताः सततं राज्ञा सदा दशरथेन वै ॥४-४-२२॥
तस्यायं पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः ।
सुग्रीवं वानरेन्द्रं तु रामः शरणमागतः ॥४-४-२३॥
शोकाभिभूते रामे तु शोकार्ते शरणं गते ।
कर्तुमर्हति सुग्रीवः प्रसादं सह यूथपैः ॥४-४-२४॥
एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम् ।
हनूमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥४-४-२५॥
ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः ।
द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः ॥४-४-२६॥
स हि राज्याश्च विभ्रष्टः कृतवैरश्च वालिना ।
हृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम् ॥४-४-२७॥
करिष्यति स साहाय्यं युवयोर्भास्करात्मजः ।
सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे ॥४-४-२८॥
इत्येवमुक्त्वा हनुमान् श्लक्ष्णं मधुरया गिरा ।
बभाषे साधु गच्छामः सुग्रीवमिति राघवम् ॥४-४-२९॥
एवं ब्रुवन्तं धर्मात्मा हनूमन्तं स लक्ष्मणः ।
प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ॥४-४-३०॥
कपिः कथयते हृष्टो यथायं मारुतात्मजः ।
कृत्यवान् सोऽपि सम्प्राप्तः कृतकृत्योऽसि राघव ॥४-४-३१॥
प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते ।
नानृतं वक्ष्यते वीरो हनूमान् मारुतात्मजः ॥४-४-३२॥
ततः स सुमहाप्राज्ञो हनूमान् मारुतात्मजः ।
जगामादाय तौ वीरौ हरिराजाय राघवौ ॥४-४-३३॥
भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः ।
पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः ॥४-४-३४॥
स तु विपुलयशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत् प्रहृष्टः ।
गिरिवरमुरुविक्रमः प्रयातः स शुभमतिः सह रामलक्ष्मणाभ्याम् ॥४-४-३५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सुग्रीवसमीपगमनम् नाम चतुर्थः सर्गः ॥४-४॥
Previous
हनुमत्प्रेषणम्
Next
सुग्रीवसख्यम्