कण्डूवनादिविचयः

किष्किन्धाकाण्डः / कण्डूवनादिविचयः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे कण्डूवनादिविचयः नाम अष्टचत्वारिंशः सर्गः ॥४-४८॥
सह ताराङ्गदाभ्यां तु सहसा हनुमान् कपिः । सुग्रीवेण यथोद्दिष्टं गन्तुं देशं प्रचक्रमे ॥४-४८-१॥
स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः । ततो विचित्य विन्ध्यस्य गुहाश्च गहनानि च ॥४-४८-२॥
पर्वताग्रनदीदुर्गान् सरांसि विपुलद्रुमान् । वृक्षषण्डांश्च विविधान् पर्वतान् वनपादपान् ॥४-४८-३॥
अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम् । न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम् ॥४-४८-४॥
ते भक्षयन्तो मूलानि फलानि विविधान्यपि । अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह ॥४-४८-५॥
स तु देशो दुरन्वेषो गुहागहनवान् महान् । निर्जलं निर्जनं शून्यं गहनं घोरदर्शनम् ॥४-४८-६॥
तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः । स देशश्च दुरन्वेष्यो गुहागहनवान् महान् ॥४-४८-७॥
त्यक्त्वा तु तं ततो देशं सर्वे वै हरियूथपाः । देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः ॥४-४८-८॥
यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः । निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् ॥४-४८-९॥
न सन्ति महिषा यत्र न मृगा न च हस्तिनः । शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः ॥४-४८-१०॥
न चात्र वृक्षा नौषध्यो न वल्ल्यो नापि वीरुधः । स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः ॥४-४८-११॥
प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्च विवर्जिताः । कण्डुर्नाम महाभागः सत्यवादी तपोधनः ॥४-४८-१२॥
महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः । तस्य तस्मिन् वने पुत्रो बालको दशवार्षिकः ॥४-४८-१३॥
प्रणष्टो जीवितान्ताय क्रुद्धस्तेन महामुनिः । तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम् ॥४-४८-१४॥
अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् । तस्य ते काननान्तांस्तु गिरीणां कन्दराणि च ॥४-४८-१५॥
प्रभवाणि नदीनां च विचिन्वन्ति समाहिताः । तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम् ॥४-४८-१६॥
हर्तारं रावणं वापि सुग्रीवप्रियकारिणः । ते प्रविश्य तु तं भीमं लतागुल्मसमावृतम् ॥४-४८-१७॥
ददृशुर्भीमकर्माणमसुरं सुरनिर्भयम् । तं दृष्ट्वा वानरा घोरं स्थितं शैलमिवासुरम् ॥४-४८-१८॥
गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम् । सोऽपि तान् वानरान् सर्वान् नष्टाः स्थेत्यब्रवीद् बली ॥४-४८-१९॥
अभ्यधावत संक्रुद्धो मुष्टिमुद्यम्य संगतम् । तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा ॥४-४८-२०॥
रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह । स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन् ॥४-४८-२१॥
असुरो न्यपतद् भूमौ पर्यस्त इव पर्वतः । ते तु तस्मिन् निरुच्छ्वासे वानरा जितकाशिनः ॥४-४८-२२॥
व्यचिन्वन् प्रायशस्तत्र सर्वं ते गिरिगह्वरम् । विचितं तु ततः सर्वं सर्वे ते काननौकसः ॥४-४८-२३॥
अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम् । ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः । एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः ॥४-४८-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे कण्डूवनादिविचयः नाम अष्टचत्वारिंशः सर्गः ॥४-४८॥