कपिसेनाप्रत्यागमनम्
किष्किन्धाकाण्डः / कपिसेनाप्रत्यागमनम्
Script
Translation
Previous
भूमण्डलभ्रमणकथनम्
Next
कण्डूवनादिविचयः
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे कपिसेनाप्रत्यागमनम् नाम सप्तचत्वारिंशः सर्गः ॥४-४७॥
दर्शनार्थं तु वैदेह्याः सर्वतः कपिकुञ्जराः ।
व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा ॥४-४७-१॥
ते सरांसि सरित्कक्षानाकाशं नगराणि च ।
नदीदुर्गांस्तथा देशान् विचिन्वन्ति समन्ततः ॥४-४७-२॥
सुग्रीवेण समाख्याताः सर्वे वानरयूथपाः ।
तत्र देशान् विचिन्वन्ति सशैलवनकाननान् ॥४-४७-३॥
विचित्य दिवसं सर्वे सीताधिगमने धृताः ।
समायान्ति स्म मेदिन्यां निशाकालेषु वानराः ॥४-४७-४॥
सर्वर्तुकांश्च देशेषु वानराः सफलद्रुमान् ।
आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहःसु ते ॥४-४७-५॥
तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः ।
कपिराजेन संगम्य निराशाः कपिकुञ्जराः ॥४-४७-६॥
विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह ।
अदृष्ट्वा विनतः सीतामाजगाम महाबलः ॥४-४७-७॥
दिशमप्युत्तरां सर्वां विविच्य स महाकपिः ।
आगतः सह सैन्येन भीतः शतबलिस्तदा ॥४-४७-८॥
सुषेणः पश्चिमामाशां विविच्य सह वानरैः ।
समेत्य मासे पूर्णे तु सुग्रीवमुपचक्रमे ॥४-४७-९॥
तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च ।
आसीनं सह रामेण सुग्रीवमिदमब्रुवन् ॥४-४७-१०॥
विचिताः पर्वताः सर्वे वनानि गहनानि च ।
निम्नगाः सागरान्ताश्च सर्वे जनपदाश्च ये ॥४-४७-११॥
गुहाश्च विचिताः सर्वा याश्च ते परिकीर्तिताः ।
विचिताश्च महागुल्मा लताविततसंतताः ॥४-४७-१२॥
गहनेषु च देशेषु दुर्गेषु विषमेषु च ।
सत्त्वान्यतिप्रमाणानि विचितानि हतानि च ।
ये चैव गहना देशा विचितास्ते पुनः पुनः ॥४-४७-१३॥
उदारसत्त्वाभिजनो हनूमान् स मैथिलीं ज्ञास्यति वानरेन्द्र ।
दिशं तु यामेव गता तु सीता तामास्थितो वायुसुतो हनूमान् ॥४-४७-१४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे कपिसेनाप्रत्यागमनम् नाम सप्तचत्वारिंशः सर्गः ॥४-४७॥
Previous
भूमण्डलभ्रमणकथनम्
Next
कण्डूवनादिविचयः