भूमण्डलभ्रमणकथनम्

किष्किन्धाकाण्डः / भूमण्डलभ्रमणकथनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे भूमण्डलभ्रमणकथनम् नाम षड्चत्वारिंशः सर्गः ॥४-४६॥
गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत् । कथं भवान् विजानीते सर्वं वै मण्डलं भुवः ॥४-४६-१॥
सुग्रीवश्च ततो राममुवाच प्रणतात्मवान् । श्रूयतां सर्वमाख्यास्ये विस्तरेण वचो मम ॥४-४६-२॥
यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् । प्रतिकालयते वाली मलयं प्रति पर्वतम् ॥४-४६-३॥
तदा विवेश महिषो मलयस्य गुहां प्रति । विवेश वाली तत्रापि मलयं तज्जिघांसया ॥४-४६-४॥
ततोऽहं तत्र निक्षिप्तो गुहाद्वारि विनीतवत् । न च निष्क्रामते वाली तदा संवत्सरे गते ॥४-४६-५॥
ततः क्षतजवेगेन आपुपूरे तदा बिलम् । तदहं विस्मितो दृष्ट्वा भ्रातुः शोकविषार्दितः ॥४-४६-६॥
अथाहं गतबुद्धिस्तु सुव्यक्तं निहतो गुरुः । शिला पर्वतसंकाशा बिलद्वारि मया कृता ॥४-४६-७॥
अशक्नुवन्निष्क्रमितुं महिषो विनशिष्यति । ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते ॥४-४६-८॥
राज्यं च सुमहत् प्राप्य तारां च रुमया सह । मित्रैश्च सहितस्तत्र वसामि विगतज्वरः ॥४-४६-९॥
आजगाम ततो वाली हत्वा तं वानरर्षभः । ततोऽहमददां राज्यं गौरवाद् भययन्त्रितः ॥४-४६-१०॥
स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः । परिकालयते वाली धावन्तं सचिवैः सह ॥४-४६-११॥
ततोऽहं वालिना तेन सोऽनुबद्धः प्रधावितः । नदीश्च विविधाः पश्यन् वनानि नगराणि च ॥४-४६-१२॥
आदर्शतलसंकाशा ततो वै पृथिवी मया । अलातचक्रप्रतिमा दृष्टा गोष्पदवत् कृता ॥४-४६-१३॥
पूर्वां दिशं ततो गत्वा पश्यामि विविधान् द्रुमान् । पर्वतान् सदरीन् रम्यान् सरांसि विविधानि च ॥४-४६-१४॥
उदयं तत्र पश्यामि पर्वतं धातुमण्डितम् । क्षीरोदं सागरं चैव नित्यमप्सरसालयम् ॥४-४६-१५॥
परिकाल्यमानस्तु तदा वालिनाभिद्रुतो ह्यहम् । पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो ॥४-४६-१६॥
दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम् । विन्ध्यपादपसंकीर्णां चन्दनद्रुमशोभिताम् ॥४-४६-१७॥
द्रुमशैलान्तरे पश्यन् भूयो दक्षिणतोऽपराम् । अपरां च दिशं प्राप्तो वालिना समभिद्रुतः ॥४-४६-१८॥
स पश्यन् विविधान् देशानस्तं च गिरिसत्तमम् । प्राप्य चास्तं गिरिश्रेष्ठमुत्तरं सम्प्रधावितः ॥४-४६-१९॥
हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम् । यदा न विन्दे शरणं वालिना समभिद्रुतः ॥४-४६-२०॥
ततो मां बुद्धिसम्पन्नो हनुमान् वाक्यमब्रवीत् । इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः ॥४-४६-२१॥
मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले । प्रविशेद् यदि वै वाली मूर्धास्य शतधा भवेत् ॥४-४६-२२॥
तत्र वासः सुखोऽस्माकं निरुद्विग्नो भविष्यति । ततः पर्वतमासाद्य ऋष्यमूकं नृपात्मज ॥४-४६-२३॥
न विवेश तदा वाली मतङ्गस्य भयात् तदा । एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम् । पृथिवीमण्डलं सर्वं गुहामस्म्यागतस्ततः ॥४-४६-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे भूमण्डलभ्रमणकथनम् नाम षड्चत्वारिंशः सर्गः ॥४-४६॥