वानरबलप्रतिष्ठा
किष्किन्धाकाण्डः / वानरबलप्रतिष्ठा
Script
Translation
Previous
हनुमत्संदेशः
Next
भूमण्डलभ्रमणकथनम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे वानरबलप्रतिष्ठा नाम पञ्चचत्वारिंशः सर्गः ॥४-४५॥
सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः ।
समस्तांश्चाब्रवीद् राजा रामकार्यार्थसिद्धये ॥४-४५-१॥
एवमेतद् विचेतव्यं भवद्भिर्वानरोत्तमैः ।
तदुग्रशासनं भर्तुर्विज्ञाय हरिपुंगवाः ॥४-४५-२॥
शलभा इव संछाद्य मेदिनीं सम्प्रतस्थिरे ।
रामः प्रस्रवणे तस्मिन् न्यवसत् सहलक्ष्मणः ॥४-४५-३॥
प्रतीक्षमाणस्तं मासं सीताधिगमने कृतः ।
उत्तरां तु दिशं रम्यां गिरिराजसमावृताम् ॥४-४५-४॥
प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा ।
पूर्वां दिशं प्रतिययौ विनतो हरियूथपः ॥४-४५-५॥
ताराङ्गदादिसहितः प्लवगः पवनात्मजः ।
अगस्त्याचरितामाशां दक्षिणां हरियूथपः ॥४-४५-६॥
पश्चिमां च दिशं घोरां सुषेणः प्लवगेश्वरः ।
प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम् ॥४-४५-७॥
ततः सर्वा दिशो राजा चोदयित्वा यथातथम् ।
कपिसेनापतिर्वीरो मुमोद सुखितः सुखम् ॥४-४५-८॥
एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः ।
स्वां स्वां दिशमभिप्रेत्य त्वरिताः सम्प्रतस्थिरे ॥४-४५-९॥
नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवंगमाः ।
क्ष्वेडन्तो धावमानाश्च विनदन्तो महाबलाः ॥४-४५-१०॥
एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः ।
आनयिष्यामहे सीतां हनिष्यामश्च रावणम् ॥४-४५-११॥
अहमेको वधिष्यामि प्राप्तं रावणमाहवे ।
ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् ॥४-४५-१२॥
वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिति ।
एक एवाहरिष्यामि पातालादपि जानकीम् ॥४-४५-१३॥
विधमिष्याम्यहं वृक्षान् दारयिष्याम्यहं गिरीन् ।
धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् ॥४-४५-१४॥
अहं योजनसंख्यायाः प्लवेयं नात्र संशयः ।
शतयोजनसंख्यायाः शतं समधिकं ह्यहम् ॥४-४५-१५॥
भूतले सागरे वापि शैलेषु च वनेषु च ।
पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः ॥४-४५-१६॥
इत्येकैकस्तदा तत्र वानरा बलदर्पिताः ।
ऊचुश्च वचनं तस्य हरिराजस्य संनिधौ ॥४-४५-१७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे वानरबलप्रतिष्ठा नाम पञ्चचत्वारिंशः सर्गः ॥४-४५॥
Previous
हनुमत्संदेशः
Next
भूमण्डलभ्रमणकथनम्