प्रतीचीप्रेषणम्
किष्किन्धाकाण्डः / प्रतीचीप्रेषणम्
Script
Translation
Previous
दक्षिणाप्रेषणम्
Next
उदीचीप्रेषणम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे प्रतीचीप्रेषणम् नाम द्विचत्वारिंशः सर्गः ॥४-४२॥
अथ प्रस्थाप्य स हरीन् सुग्रीवो दक्षिणां दिशम् ।
अब्रवीन्मेघसंकाशं सुषेणं नाम वानरम् ॥४-४२-१॥
तारायाः पितरं राजा श्वशुरं भीमविक्रमम् ।
अब्रवीत् प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च ॥४-४२-२॥
महर्षिपुत्रं मारीचमर्चिष्मन्तं महाकपिम् ।
वृतं कपिवरैः शूरैर्महेन्द्रसदृशद्युतिम् ॥४-४२-३॥
बुद्धिविक्रमसम्पन्नं वैनतेयसमद्युतिम् ।
मरीचिपुत्रान् मारीचानर्चिर्माल्यान् महाबलान् ॥४-४२-४॥
ऋषिपुत्रांश्च तान् सर्वान् प्रतीचीमादिशद् दिशम् ।
द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः ॥४-४२-५॥
सुषेणप्रमुखा यूयं वैदेहीं परिमार्गथ ।
सौराष्ट्रान् सहबाह्लीकांश्चन्द्रचित्रांस्तथैव च ॥४-४२-६॥
स्फीताञ्जनपदान् रम्यान् विपुलानि पुराणि च ।
पुंनागगहनं कुक्षिं बकुलोद्दालकाकुलम् ॥४-४२-७॥
तथा केतकषण्डांश्च मार्गध्वं हरिपुङ्गवाः ।
प्रत्यक्स्रोतोवहाश्चैव नद्यः शीतजलाः शिवाः ॥४-४२-८॥
तापसानामरण्यानि कान्तारगिरयश्च ये ।
तत्र स्थलीर्मरुप्राया अत्युच्चशिशिराः शिलाः ॥४-४२-९॥
गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् ।
ततः पश्चिममागम्य समुद्रं द्रष्टुमर्हथ ॥४-४२-१०॥
तिमिनक्राकुलजलं गत्वा द्रक्ष्यथ वानराः ।
ततः केतकषण्डेषु तमालगहनेषु च ॥४-४२-११॥
कपयो विहरिष्यन्ति नारिकेलवनेषु च ।
तत्र सीतां च मार्गध्वं निलयं रावणस्य च ॥४-४२-१२॥
वेलातलनिविष्टेषु पर्वतेषु वनेषु च ।
मुरवीपत्तनं चैव रम्यं चैव जटापुरम् ॥४-४२-१३॥
अवन्तीमङ्गलेपां च तथा चालक्षितं वनम् ।
राष्ट्राणि च विशालानि पत्तनानि ततस्ततः ॥४-४२-१४॥
सिन्धुसागरयोश्चैव संगमे तत्र पर्वतः ।
महान् सोमगिरिर्नाम शतशृङ्गो महाद्रुमः ॥४-४२-१५॥
तत्र प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः ।
तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते ॥४-४२-१६॥
तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये ।
दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः ॥४-४२-१७॥
विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः ।
तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम् ॥४-४२-१८॥
सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः ।
कोटिं तत्र समुद्रस्य काञ्चनीं शतयोजनाम् ॥४-४२-१९॥
दुर्दर्शां पारियात्रस्य गत्वा द्रक्ष्यथ वानराः ।
कोट्यस्तत्र चतुर्विंशद् गन्धर्वाणां तरस्विनाम् ॥४-४२-२०॥
वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम् ।
पावकार्चिःप्रतीकाशाः समवेताः समन्ततः ॥४-४२-२१॥
नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः ।
नादेयं च फलं तस्माद् देशात् किंचित् प्लवङ्गमैः ॥४-४२-२२॥
दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः ।
फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः ॥४-४२-२३॥
तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी ।
नहि तेभ्यो भयं किंचित् कपित्वमनुवर्तताम् ॥४-४२-२४॥
तत्र वैदूर्यवर्णाभो वज्रसंस्थानसंस्थितः ।
नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः ॥४-४२-२५॥
श्रीमान् समुदितस्तत्र योजनानां शतं समम् ।
गुहास्तत्र विचेतव्याः प्रयत्नेन प्लवङ्गमाः ॥४-४२-२६॥
चतुर्भागे समुद्रस्य चक्रवान् नाम पर्वतः ।
तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा ॥४-४२-२७॥
तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् ।
आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः ॥४-४२-२८॥
तस्य सानुषु रम्येषु विशालासु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥४-४२-२९॥
योजनानि चतुःषष्टिर्वराहो नाम पर्वतः ।
सुवर्णशृङ्गः सुमहानगाधे वरुणालये ॥४-४२-३०॥
तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् ।
यस्मिन् वसति दुष्टात्मा नरको नाम दानवः ॥४-४२-३१॥
तत्र सानुषु रम्येषु विशालासु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥४-४२-३२॥
तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरदर्शनम् ।
पर्वतः सर्वसौवर्णो धाराप्रस्रवणायुतः ॥४-४२-३३॥
तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः ।
अभिगर्जन्ति सततं तेन शब्देन दर्पिताः ॥४-४२-३४॥
यस्मिन् हरिहयः श्रीमान् महेन्द्रः पाकशासनः ।
अभिषिक्तः सुरै राजा मेघो नाम स पर्वतः ॥४-४२-३५॥
तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् ।
षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ ॥४-४२-३६॥
तरुणादित्यवर्णानि भ्राजमानानि सर्वतः ।
जातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः ॥४-४२-३७॥
तेषां मध्ये स्थितो राजा मेरुरुत्तमपर्वतः ।
आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा ॥४-४२-३८॥
तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः ।
मत्प्रसादाद् भविष्यन्ति दिवा रात्रौ च काञ्चनाः ॥४-४२-३९॥
त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः ।
ते भविष्यन्ति भक्ताश्च प्रभया काञ्चनप्रभाः ॥४-४२-४०॥
विश्वेदेवाश्च वसवो मरुतश्च दिवौकसः ।
आगत्य पश्चिमां संध्यां मेरुमुत्तमपर्वतम् ॥४-४२-४१॥
आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः ।
अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम् ॥४-४२-४२॥
योजनानां सहस्राणि दश तानि दिवाकरः ।
मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम् ॥४-४२-४३॥
शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसंनिभम् ।
प्रासादगणसम्बाधं विहितं विश्वकर्मणा ॥४-४२-४४॥
शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः ।
निकेतं पाशहस्तस्य वरुणस्य महात्मनः ॥४-४२-४५॥
अन्तरा मेरुमस्तं च तालो दशशिरा महान् ।
जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः ॥४-४२-४६॥
तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥४-४२-४७॥
यत्र तिष्ठति धर्मज्ञस्तपसा स्वेन भावितः ।
मेरुसावर्णिरित्येष ख्यातो वै ब्रह्मणा समः ॥४-४२-४८॥
प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसंनिभः ।
प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति ॥४-४२-४९॥
एतावज्जीवलोकस्य भास्करो रजनीक्षये ।
कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम् ॥४-४२-५०॥
एतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः ।
अभास्करममर्यादं न जानीमस्ततः परम् ॥४-४२-५१॥
अवगम्य तु वैदेहीं निलयं रावणस्य च ।
अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत ॥४-४२-५२॥
ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम ।
सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति ॥४-४२-५३॥
श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः ।
गुरुरेष महाबाहुः श्वशुरो मे महाबलः ॥४-४२-५४॥
भवन्तश्चापि विक्रान्ताः प्रमाणं सर्व एव हि ।
प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम् ॥४-४२-५५॥
दृष्टायां तु नरेन्द्रस्य पत्न्याममिततेजसः ।
कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा ॥४-४२-५६॥
अतोऽन्यदपि यत्कार्यं कार्यस्यास्य प्रियं भवेत् ।
सम्प्रधार्य भवद्भिश्च देशकालार्थसंहितम् ॥४-४२-५७॥
ततः सुषेणप्रमुखाः प्लवङ्गाः सुग्रीववाक्यं निपुणं निशम्य ।
आमन्त्र्य सर्वे प्लवगाधिपं ते जग्मुर्दिशं तां वरुणाभिगुप्ताम् ॥४-४२-५८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे प्रतीचीप्रेषणम् नाम द्विचत्वारिंशः सर्गः ॥४-४२॥
Previous
दक्षिणाप्रेषणम्
Next
उदीचीप्रेषणम्