दक्षिणाप्रेषणम्
किष्किन्धाकाण्डः / दक्षिणाप्रेषणम्
Script
Translation
Previous
प्राचीप्रेषणम्
Next
प्रतीचीप्रेषणम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे दक्षिणाप्रेषणम् नाम एकचत्वारिंशः सर्गः ॥४-४१॥
ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् ।
दक्षिणां प्रेषयामास वानरानभिलक्षितान् ॥४-४१-१॥
नीलमग्निसुतं चैव हनूमन्तं च वानरम् ।
पितामहसुतं चैव जाम्बवन्तं महौजसम् ॥४-४१-२॥
सुहोत्रं च शरारिं च शरगुल्मं तथैव च ।
गजं गवाक्षं गवयं सुषेणं वृषभं तथा ॥४-४१-३॥
मैन्दं च द्विविदं चैव सुषेणं गन्धमादनम् ।
उल्कामुखमनङ्गं च हुताशनसुतावुभौ ॥४-४१-४॥
अङ्गदप्रमुखान् वीरान् वीरः कपिगणेश्वरः ।
वेगविक्रमसम्पन्नान् संदिदेश विशेषवित् ॥४-४१-५॥
तेषामग्रेसरं चैव बृहद्बलमथाङ्गदम् ।
विधाय हरिवीराणामादिशद् दक्षिणां दिशम् ॥४-४१-६॥
ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः ।
कपीशः कपिमुख्यानां स तेषां समुदाहरत् ॥४-४१-७॥
सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम् ।
नर्मदां च नदीं रम्यां महोरगनिषेविताम् ॥४-४१-८॥
ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम् ।
वरदां च महाभागां महोरगनिषेविताम् ।
मेखलानुत्कलांश्चैव दशार्णनगराण्यपि ॥४-४१-९॥
आब्रवन्तीमवन्तीं च सर्वमेवानुपश्यत ।
विदर्भानृष्टिकांश्चैव रम्यान् माहिषकानपि ॥४-४१-१०॥
तथा वङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः ।
अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् ॥४-४१-११॥
नदीं गोदावरीं चैव सर्वमेवानुपश्यत ।
तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् पाण्ड्यांश्च केरलान् ॥४-४१-१२॥
अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः ।
विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः ॥४-४१-१३॥
सुचन्दनवनोद्देशो मार्गितव्यो महागिरिः ।
ततस्तामापगां दिव्यां प्रसन्नसलिलाशयाम् ॥४-४१-१४॥
तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः ।
तस्यासीनं नगस्याग्रे मलयस्य महौजसम् ॥४-४१-१५॥
द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् ।
ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना ॥४-४१-१६॥
ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् ।
सा चन्दनवनैश्चित्रैः प्रच्छन्नद्वीपवारिणी ॥४-४१-१७॥
कान्तेव युवती कान्तं समुद्रमवगाहते ।
ततो हेममयं दिव्यं मुक्तामणिविभूषितम् ॥४-४१-१८॥
युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः ।
ततः समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम् ॥४-४१-१९॥
अगस्त्येनान्तरे तत्र सागरे विनिवेशितः ।
चित्रसानुनगः श्रीमान् महेन्द्रः पर्वतोत्तमः ॥४-४१-२०॥
जातरूपमयः श्रीमानवगाढो महार्णवम् ।
नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम् ॥४-४१-२१॥
देवर्षियक्षप्रवरैरप्सरोभिश्च शोभितम् ।
सिद्धचारणसङ्घैश्च प्रकीर्णं सुमनोरमम् ॥४-४१-२२॥
तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु ।
द्वीपस्तस्यापरे पारे शतयोजनविस्तृतः ॥४-४१-२३॥
अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः ।
तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ॥४-४१-२४॥
स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः ।
राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ॥४-४१-२५॥
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ।
अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी ॥४-४१-२६॥
एवं निःसंशयान् कृत्वा संशयान्नष्टसंशयाः ।
मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः ॥४-४१-२७॥
तमतिक्रम्य लक्ष्मीवान् समुद्रे शतयोजने ।
गिरिः पुष्पितको नाम सिद्धचारणसेवितः ॥४-४१-२८॥
चन्द्रसूर्यांशुसंकाशः सागराम्बुसमाश्रयः ।
भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव ॥४-४१-२९॥
तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः ।
श्वेतं राजतमेकं च सेवते यन्निशाकरः ।
न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ॥४-४१-३०॥
प्रणम्य शिरसा शैलं तं विमार्गथ वानराः ।
तमतिक्रम्य दुर्धर्षं सूर्यवान्नाम पर्वतः ॥४-४१-३१॥
अध्वना दुर्विगाहेन योजनानि चतुर्दश ।
ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः ॥४-४१-३२॥
सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः ।
तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च ॥४-४१-३३॥
मधूनि पीत्वा जुष्टानि परं गच्छत वानराः ।
तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः ॥४-४१-३४॥
अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा ।
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ॥४-४१-३५॥
शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् ।
तत्र भोगवती नाम सर्पाणामालयः पुरी ॥४-४१-३६॥
विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता ।
रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः ॥४-४१-३७॥
सर्पराजो महाघोरो यस्यां वसति वासुकिः ।
निर्याय मार्गितव्या च सा च भोगवती पुरी ॥४-४१-३८॥
तत्र चानन्तरोद्देशा ये केचन समावृताः ।
तं च देशमतिक्रम्य महानृषभसंस्थितिः ॥४-४१-३९॥
सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः ।
गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् ॥४-४१-४०॥
दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् ।
न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं तु कदाचन ॥४-४१-४१॥
रोहिता नाम गन्धर्वा घोरं रक्षन्ति तद्वनम् ।
तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः ॥४-४१-४२॥
शैलूषो ग्रामणीः शिक्षः शुको बभ्रुस्तथैव च ।
रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम् ॥४-४१-४३॥
अन्ते पृथिव्या दुर्धर्षास्ततः स्वर्गजितः स्थिताः ।
ततः परं न वः सेव्यः पितृलोकः सुदारुणः ॥४-४१-४४॥
राजधानी यमस्यैषा कष्टेन तमसाऽऽवृता ।
एतावदेव युष्माभिर्वीरा वानरपुंगवाः ।
शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः ॥४-४१-४५॥
सर्वमेतत् समालोक्य यच्चान्यदपि दृश्यते ।
गतिं विदित्वा वैदेह्याः संनिवर्तितुमर्हथ ॥४-४१-४६॥
यश्च मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति ।
मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ॥४-४१-४७॥
ततः प्रियतरो नास्ति मम प्राणाद् विशेषतः ।
कृतापराधो बहुशो मम बन्धुर्भविष्यति ॥४-४१-४८॥
अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः ।
मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरुषार्थमारभध्वम् ॥४-४१-४९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे दक्षिणाप्रेषणम् नाम एकचत्वारिंशः सर्गः ॥४-४१॥
Previous
प्राचीप्रेषणम्
Next
प्रतीचीप्रेषणम्