उदीचीप्रेषणम्
किष्किन्धाकाण्डः / उदीचीप्रेषणम्
Script
Translation
Previous
प्रतीचीप्रेषणम्
Next
हनुमत्संदेशः
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे उदीचीप्रेषणम् नाम त्रिचत्वारिशः सर्गः ॥४-४३॥
ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् ।
वीरं शतबलिं नाम वानरं वानरेश्वरः ॥४-४३-१॥
उवाच राजा सर्वज्ञः सर्ववानरसत्तमः ।
वाक्यमात्महितं चैव रामस्य च हितं तदा ॥४-४३-२॥
वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् ।
वैवस्वतसुतैः सार्धं प्रविष्टः सर्वमन्त्रिभिः ॥४-४३-३॥
दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसिकाम् ।
सर्वतः परिमार्गध्वं रामपत्नीं यशस्विनीम् ॥४-४३-४॥
अस्मिन् कार्ये विनिर्वृत्ते कृते दाशरथेः प्रिये ।
ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ॥४-४३-५॥
कृतं हि प्रियमस्माकं राघवेण महात्मना ।
तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत् ॥४-४३-६॥
अर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत् ।
तस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः ॥४-४३-७॥
एतां बुद्धिं समास्थाय दृश्यते जानकी यथा ।
तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥४-४३-८॥
अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः ।
अस्मासु च गतः प्रीतिं रामः परपुरंजयः ॥४-४३-९॥
इमानि बहुदुर्गाणि नद्यः शैलान्तराणि च ।
भवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा ॥४-४३-१०॥
तत्र म्लेच्छान् पुलिन्दांश्च शूरसेनांस्तथैव च ।
प्रस्थलान् भरतांश्चैव कुरूंश्च सह मद्रकैः ॥४-४३-११॥
काम्बोजयवनांश्चैव शकानां पत्तनानि च ।
अन्वीक्ष्य दरदांश्चैव हिमवन्तं विचिन्वथ ॥४-४३-१२॥
लोध्रपद्मकषण्डेषु देवदारुवनेषु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥४-४३-१३॥
ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् ।
कालं नाम महासानुं पर्वतं तं गमिष्यथ ॥४-४३-१४॥
महत्सु तस्य शैलेषु पर्वतेषु गुहासु च ।
विचिन्वत महाभागां रामपत्नीमनिन्दिताम् ॥४-४३-१५॥
तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम् ।
ततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ ॥४-४३-१६॥
ततो देवसखो नाम पर्वतः पतगालयः ।
नानापक्षिसमाकीर्णो विविधद्रुमभूषितः ॥४-४३-१७॥
तस्य काननषण्डेषु निर्झरेषु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥४-४३-१८॥
तमतिक्रम्य चाकाशं सर्वतः शतयोजनम् ।
अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम् ॥४-४३-१९॥
तत्तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् ।
कैलासं पाण्डुरं प्राप्य हृष्टा यूयं भविष्यथ ॥४-४३-२०॥
तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् ।
कुबेरभवनं रम्यं निर्मितं विश्वकर्मणा ॥४-४३-२१॥
विशाला नलिनी यत्र प्रभूतकमलोत्पला ।
हंसकारण्डवाकीर्णा अप्सरोगणसेविता ॥४-४३-२२॥
तत्र वैश्रवणो राजा सर्वलोकनमस्कृतः ।
धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट् ॥४-४३-२३॥
तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥४-४३-२४॥
क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् ।
अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत् स्मृतम् ॥४-४३-२५॥
वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः ।
देवैरभ्यर्थिताः सम्यग् देवरूपा महर्षयः ॥४-४३-२६॥
क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च ।
निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥४-४३-२७॥
अवृक्षं कामशैलं च मानसं विहगालयम् ।
न गतिस्तत्र भूतानां देवानां न च रक्षसाम् ॥४-४३-२८॥
स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः ।
क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः ॥४-४३-२९॥
मयस्य भवनं तत्र दानवस्य स्वयंकृतम् ।
मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः ॥४-४३-३०॥
स्त्रीणामश्वमुखीनां तु निकेतस्तत्र तत्र तु ।
तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् ॥४-४३-३१॥
सिद्धा वैखानसा यत्र वालखिल्याश्च तापसाः ।
वन्दितव्यास्ततः सिद्धास्तपसा वीतकल्मषाः ॥४-४३-३२॥
प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः ।
हेमपुष्करसंछन्नं तत्र वैखानसं सरः ॥४-४३-३३॥
तरुणादित्यसंकाशैर्हंसैर्विचरितं शुभैः ।
औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः ॥४-४३-३४॥
गजः पर्येति तं देशं सदा सह करेणुभिः ।
तत् सरः समतिक्रम्य नष्टचन्द्रदिवाकरम् ।
अनक्षत्रगणं व्योम निष्पयोदमनादितम् ॥४-४३-३५॥
गभस्तिभिरिवार्कस्य स तु देशः प्रकाश्यते ।
विश्राम्यद्भिस्तपःसिद्धैर्देवकल्पैः स्वयंप्रभैः ॥४-४३-३६॥
तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ।
उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः ॥४-४३-३७॥
ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च ।
उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ॥४-४३-३८॥
ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः ।
नीलवैदूर्यपत्राढ्या नद्यस्तत्र सहस्रशः ॥४-४३-३९॥
रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः ।
तरुणादित्यसंकाशा भान्ति तत्र जलाशयाः ॥४-४३-४०॥
महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः ।
नीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः ॥४-४३-४१॥
निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः ।
उद्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥४-४३-४२॥
सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः ।
जातरूपमयैश्चापि हुताशनसमप्रभैः ॥४-४३-४३॥
नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः ।
दिव्यगन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च ॥४-४३-४४॥
नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः ।
मुक्तावैदूर्यचित्राणि भूषणानि तथैव च ।
स्त्रीणां यान्यनुरूपाणि पुरुषाणां तथैव च ॥४-४३-४५॥
सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः ।
महार्हमणिचित्राणि फलन्त्यन्ये नगोत्तमाः ॥४-४३-४६॥
शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च ।
मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः ॥४-४३-४७॥
पानानि च महार्हाणि भक्ष्याणि विविधानि च ।
स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः ॥४-४३-४८॥
गन्धर्वाः किन्नराः सिद्धा नागा विद्याधरास्तथा ।
रमन्ते सततं तत्र नारीभिर्भास्वरप्रभाः ॥४-४३-४९॥
सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः ।
सर्वे कामार्थसहिता वसन्ति सह योषितः ॥४-४३-५०॥
गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः ।
श्रूयते सततं तत्र सर्वभूतमनोरमः ॥४-४३-५१॥
तत्र नामुदितः कश्चिन्नात्र कश्चिदसत्प्रियः ।
अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ॥४-४३-५२॥
समतिक्रम्य तं देशमुत्तरः पयसां निधिः ।
तत्र सोमगिरिर्नाम मध्ये हेममयो महान् ॥४-४३-५३॥
इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये ।
देवास्तं समवेक्षन्ते गिरिराजं दिवं गताः ॥४-४३-५४॥
स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते ।
सूर्यलक्ष्म्याभिविज्ञेयस्तपतेव विवस्वता ॥४-४३-५५॥
भगवांस्तत्र विश्वात्मा शम्भुरेकादशात्मकः ।
ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः ॥४-४३-५६॥
न कथंचन गन्तव्यं कुरूणामुत्तरेण वः ।
अन्येषामपि भूतानां नानुक्रामति वै गतिः ॥४-४३-५७॥
स हि सोमगिरिर्नाम देवानामपि दुर्गमः ।
तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ ॥४-४३-५८॥
एतावद् वानरैः शक्यं गन्तुं वानरपुंगवाः ।
अभास्करममर्यादं न जानीमस्ततः परम् ॥४-४३-५९॥
सर्वमेतद् विचेतव्यं यन्मया परिकीर्तितम् ।
यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ॥४-४३-६०॥
ततः कृतं दाशरथेर्महत्प्रियं महत्प्रियं चापि ततो मम प्रियम् ।
कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा ॥४-४३-६१॥
ततः कृतार्थाः सहिताः सबान्धवा मयार्चिताः सर्वगुणैर्मनोरमैः ।
चरिष्यथोर्वीं प्रति शान्तशत्रवः सहप्रिया भूतधराः प्लवंगमाः ॥४-४३-६२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे उदीचीप्रेषणम् नाम त्रिचत्वारिशः सर्गः ॥४-४३॥
Previous
प्रतीचीप्रेषणम्
Next
हनुमत्संदेशः