प्राचीप्रेषणम्
किष्किन्धाकाण्डः / प्राचीप्रेषणम्
Script
Translation
Previous
सेनानिवेशः
Next
दक्षिणाप्रेषणम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे प्राचीप्रेषणम् नाम चत्वारिंशः सर्गः ॥४-४०॥
अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः ।
उवाच नरशार्दूलं रामं परबलार्दनम् ॥४-४०-१॥
आगता विनिविष्टाश्च बलिनः कामरूपिणः ।
वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः ॥४-४०-२॥
त इमे बहुविक्रान्तैर्बलिभिर्भीमविक्रमैः ।
आगता वानरा घोरा दैत्यदानवसंनिभाः ॥४-४०-३॥
ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः ।
पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ॥४-४०-४॥
पृथिव्यम्बुचरा राम नानानगनिवासिनः ।
कोट्योघाश्च इमे प्राप्ता वानरास्तव किंकराः ॥४-४०-५॥
निदेशवर्तिनः सर्वे सर्वे गुरुहिते स्थिताः ।
अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिंदम ॥४-४०-६॥
त इमे बहुसाहस्रैरनीकैर्भीमविक्रमैः ।
आगता वानरा घोरा दैत्यदानवसंनिभाः ॥४-४०-७॥
यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् ।
त्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ॥४-४०-८॥
काममेषामिदं कार्यं विदितं मम तत्त्वतः ।
तथापि तु यथायुक्तमाज्ञापयितुमर्हसि ॥४-४०-९॥
तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः ।
बाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत् ॥४-४०-१०॥
ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा ।
स च देशो महाप्राज्ञ यस्मिन् वसति रावणः ॥४-४०-११॥
अधिगम्य तु वैदेहीं निलयं रावणस्य च ।
प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया ॥४-४०-१२॥
नाहमस्मिन् प्रभुः कार्ये वानरेन्द्र न लक्ष्मणः ।
त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर ॥४-४०-१३॥
त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् ।
त्वं हि जानासि मे कार्यं मम वीर न संशयः ॥४-४०-१४॥
सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् ।
भवानस्मद्धिते युक्तः सुहृदाप्तोऽर्थवित्तमः ॥४-४०-१५॥
एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् ।
अब्रवीद् रामसांनिध्ये लक्ष्मणस्य च धीमतः ॥४-४०-१६॥
शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम् ।
सोमसूर्यनिभैः सार्धं वानरैर्वानरोत्तम ॥४-४०-१७॥
देशकालनयैर्युक्तो विज्ञः कार्यविनिश्चये ।
वृतः शतसहस्रेण वानराणां तरस्विनाम् ॥४-४०-१८॥
अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् ।
तत्र सीतां च वैदेहीं निलयं रावणस्य च ॥४-४०-१९॥
मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च ।
नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा ॥४-४०-२०॥
कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् ।
सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् ॥४-४०-२१॥
महीं कालमहीं चापि शैलकाननशोभिताम् ।
ब्रह्ममालान् विदेहांश्च मालवान् काशिकोसलान् ॥४-४०-२२॥
मागधांश्च महाग्रामान् पुण्ड्रांस्त्वङ्गांस्तथैव च ।
भूमिं च कोशकाराणां भूमिं च रजताकराम् ॥४-४०-२३॥
सर्वं च तद् विचेतव्यं मार्गयद्भिस्ततस्ततः ।
रामस्य दयितां भार्यां सीतां दशरथस्नुषाम् ॥४-४०-२४॥
समुद्रमवगाढांश्च पर्वतान् पत्तनानि च ।
मन्दरस्य च ये कोटिं संश्रिताः केचिदालयाः ॥४-४०-२५॥
कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः ।
घोरलोहमुखाश्चैव जवनाश्चैकपादकाः ॥४-४०-२६॥
अक्षया बलवन्तश्च तथैव पुरुषादकाः ।
किरातास्तीक्ष्णचूडाश्च हेमाभाः प्रियदर्शनाः ॥४-४०-२७॥
आममीनाशनाश्चापि किराता द्वीपवासिनः ।
अन्तर्जलचरा घोरा नरव्याघ्रा इति स्मृताः ॥४-४०-२८॥
एतेषामाश्रयाः सर्वे विचेयाः काननौकसः ।
गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च ॥४-४०-२९॥
यत्नवन्तो यवद्वीपं सप्तराजोपशोभितम् ।
सुवर्णरूप्यकद्वीपं सुवर्णाकरमण्डितम् ॥४-४०-३०॥
यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः ।
दिवं स्पृशति शृङ्गेण देवदानवसेवितः ॥४-४०-३१॥
एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च ।
मार्गध्वं सहिताः सर्वे रामपत्नीं यशस्विनीम् ॥४-४०-३२॥
ततो रक्तजलं प्राप्य शोणाख्यं शीघ्रवाहिनम् ।
गत्वा पारं समुद्रस्य सिद्धचारणसेवितम् ॥४-४०-३३॥
तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥४-४०-३४॥
पर्वतप्रभवा नद्यः सुभीमबहुनिष्कुटाः ।
मार्गितव्या दरीमन्तः पर्वताश्च वनानि च ॥४-४०-३५॥
ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ ।
ऊर्मिमन्तं महारौद्रं क्रोशन्तमनिलोद्धतम् ॥४-४०-३६॥
तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः ।
ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः ॥४-४०-३७॥
तं कालमेघप्रतिमं महोरगनिषेवितम् ।
अभिगम्य महानादं तीर्थेनैव महोदधिम् ॥४-४०-३८॥
ततो रक्तजलं भीमं लोहितं नाम सागरम् ।
गत्वा प्रेक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् ॥४-४०-३९॥
गृहं च वैनतेयस्य नानारत्नविभूषितम् ।
तत्र कैलाससंकाशं विहितं विश्वकर्मणा ॥४-४०-४०॥
तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः ।
शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः ॥४-४०-४१॥
ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति ।
अभितप्ताः स्म सूर्येण लम्बन्ते स्म पुनः पुनः ॥४-४०-४२॥
निहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः ।
ततः पाण्डुरमेघाभं क्षीरोदं नाम सागरम् ॥४-४०-४३॥
गत्वा द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः ।
तस्य मध्ये महान् श्वेतो ऋषभो नाम पर्वतः ॥४-४०-४४॥
दिव्यगन्धैः कुसुमितैराचितैश्च नगैर्वृतः ।
सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः ॥४-४०-४५॥
नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् ।
विबुधाश्चारणा यक्षाः किंनराश्चाप्सरोगणाः ॥४-४०-४६॥
हृष्टाः समधिगच्छन्ति नलिनीं तां रिरंसवः ।
क्षीरोदं समतिक्रम्य तदा द्रक्ष्यथ वानराः ॥४-४०-४७॥
जलोदं सागरं शीघ्रं सर्वभूतभयावहम् ।
तत्र तत्कोपजं तेजः कृतं हयमुखं महत् ॥४-४०-४८॥
अस्याहुस्तन्महावेगमोदनं सचराचरम् ।
तत्र विक्रोशतां नादो भूतानां सागरौकसाम् ।
श्रूयते चासमर्थानां दृष्ट्वाभूद् वडवामुखम् ॥४-४०-४९॥
स्वादूदस्योत्तरे तीरे योजनानि त्रयोदश ।
जातरूपशिलो नाम सुमहान् कनकप्रभः ॥४-४०-५०॥
तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम् ।
पद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः ॥४-४०-५१॥
आसीनं पर्वतस्याग्रे सर्वदेवनमस्कृतम् ।
सहस्रशिरसं देवमनन्तं नीलवाससम् ॥४-४०-५२॥
त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः ।
स्थापितः पर्वतस्याग्रे विराजति सवेदिकः ॥४-४०-५३॥
पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः ।
ततः परं हेममयः श्रीमानुदयपर्वतः ॥४-४०-५४॥
तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता ।
जातरूपमयी दिव्या विराजति सवेदिका ॥४-४०-५५॥
सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः ।
जातरूपमयैर्दिव्यैः शोभते सूर्यसंनिभैः ॥४-४०-५६॥
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ।
शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ॥४-४०-५७॥
तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे ।
द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः ॥४-४०-५८॥
उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः ।
दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ॥४-४०-५९॥
तत्र वैखानसा नाम वालखिल्या महर्षयः ।
प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ॥४-४०-६०॥
अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते ।
तस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि ॥४-४०-६१॥
शैलस्य तस्य पृष्ठेषु कन्दरेषु वनेषु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥४-४०-६२॥
काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः ।
आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते ॥४-४०-६३॥
पूर्वमेतत् कृतं द्वारं पृथिव्या भुवनस्य च ।
सूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते ॥४-४०-६४॥
तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥४-४०-६५॥
ततः परमगम्या स्याद् दिक्पूर्वा त्रिदशावृता ।
रहिता चन्द्रसूर्याभ्यामदृश्या तमसावृता ॥४-४०-६६॥
शैलेषु तेषु सर्वेषु कन्दरेषु नदीषु च ।
ये च नोक्ता मयोद्देशा विचेया तेषु जानकी ॥४-४०-६७॥
एतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः ।
अभास्करममर्यादं न जानीमस्ततः परम् ॥४-४०-६८॥
अभिगम्य तु वैदेहीं निलयं रावणस्य च ।
मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ॥४-४०-६९॥
ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम ।
सिद्धार्थाः संनिवर्तध्वमधिगम्य च मैथिलीम् ॥४-४०-७०॥
महेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः ।
अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखिनो भविष्यथ ॥४-४०-७१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे प्राचीप्रेषणम् नाम चत्वारिंशः सर्गः ॥४-४०॥
Previous
सेनानिवेशः
Next
दक्षिणाप्रेषणम्