सेनानिवेशः

किष्किन्धाकाण्डः / सेनानिवेशः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे सेनानिवेशः नाम एकोनचत्वारिंशः सर्गः ॥४-३९॥
इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः । बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम् ॥४-३९-१॥
यदिन्द्रो वर्षते वर्षं न तच्चित्रं भविष्यति । आदित्योऽसौ सहस्रांशुः कुर्याद् वितिमिरं नभः ॥४-३९-२॥
चन्द्रमा रजनीं कुर्यात् प्रभया सौम्य निर्मलाम् । त्वद्विधो वापि मित्राणां प्रीतिं कुर्यात् परंतप ॥४-३९-३॥
एवं त्वयि न तच्चित्रं भवेद् यत् सौम्य शोभनम् । जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् ॥४-३९-४॥
त्वत्सनाथः सखे संख्ये जेतास्मि सकलानरीन् । त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि ॥४-३९-५॥
जहारात्मविनाशाय मैथिलीं राक्षसाधमः । वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम् ॥४-३९-६॥
नचिरात् तं वधिष्यामि रावणं निशितैः शरैः । पौलोम्याः पितरं दृप्तं शतक्रतुरिवारिहा ॥४-३९-७॥
एतस्मिन्नन्तरे चैव रजः समभिवर्तत । उष्णतीव्रां सहस्रांशोश्छादयद् गगने प्रभाम् ॥४-३९-८॥
दिशः पर्याकुलाश्चासंस्तमसा तेन दूषिताः । चचाल च मही सर्वा सशैलवनकानना ॥४-३९-९॥
ततो नगेन्द्रसंकाशैस्तीक्ष्णदंष्ट्रैर्महाबलैः । कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवंगमैः ॥४-३९-१०॥
निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः । कोटीशतपरीवारैर्वानरैर्हरियूथपैः ॥४-३९-११॥
नादेयैः पार्वतेयैश्च सामुद्रैश्च महाबलैः । हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनवासिभिः ॥४-३९-१२॥
तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः । पद्मकेसरवर्णैश्च श्वेतैर्हेमकृतालयैः ॥४-३९-१३॥
कोटीसहस्रैर्दशभिः श्रीमान् परिवृतस्तदा । वीरः शतबलिर्नाम वानरः प्रत्यदृश्यत ॥४-३९-१४॥
ततः काञ्चनशैलाभस्ताराया वीर्यवान् पिता । अनेकैर्बहुसाहस्रैः कोटिभिः प्रत्यदृश्यत ॥४-३९-१५॥
तथापरेण कोटीनां सहस्रेण समन्वितः । पिता रुमायाः सम्प्राप्तः सुग्रीवश्वशुरो विभुः ॥४-३९-१६॥
पद्मकेसरसंकाशस्तरुणार्कनिभाननः । बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः ॥४-३९-१७॥
अनेकैर्बहुसाहस्त्रैर्वानराणां समन्वितः । पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत ॥४-३९-१८॥
गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः । वृतः कोटिसहस्रेण वानराणामदृश्यत ॥४-३९-१९॥
ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः । वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत ॥४-३९-२०॥
महाचलनिभैर्घोरैः पनसो नाम यूथपः । आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः ॥४-३९-२१॥
नीलाञ्जनचयाकारो नीलो नामैष यूथपः । अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः ॥४-३९-२२॥
ततः काञ्चनशैलाभो गवयो नाम यूथपः । आजगाम महावीर्यः कोटिभिः पञ्चभिर्वृतः ॥४-३९-२३॥
दरीमुखश्च बलवान् यूथपोऽभ्याययौ तदा । वृतः कोटिसहस्रेण सुग्रीवं समवस्थितः ॥४-३९-२४॥
मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ । कोटिकोटिसहस्रेण वानराणामदृश्यताम् ॥४-३९-२५॥
गजश्च बलवान् वीरस्तिसृभिः कोटिभिर्वृतः । आजगाम महातेजाः सुग्रीवस्य समीपतः ॥४-३९-२६॥
ऋक्षराजो महातेजा जाम्बवान्नाम नामतः । कोटिभिर्दशभिर्व्याप्तः सुग्रीवस्य वशे स्थितः ॥४-३९-२७॥
रुमणो नाम तेजस्वी विक्रान्तैर्वानरैर्वृतः । आगतो बलवांस्तूर्णं कोटीशतसमावृतः ॥४-३९-२८॥
ततः कोटिसहस्राणां सहस्रेण शतेन च । पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः ॥४-३९-२९॥
ततः पद्मसहस्रेण वृतः शङ्कुशतेन च । युवराजोऽङ्गदः प्राप्तः पितुस्तुल्यपराक्रमः ॥४-३९-३०॥
ततस्ताराद्युतिस्तारो हरिभिर्भीमविक्रमैः । पञ्चभिर्हरिकोटीभिर्दूरतः पर्यदृश्यत ॥४-३९-३१॥
इन्द्रजानुः कविर्वीरो यूथपः प्रत्यदृश्यत । एकादशानां कोटीनामीश्वरस्तैश्च संवृतः ॥४-३९-३२॥
ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभः । अयुतेन वृतश्चैव सहस्रेण शतेन च ॥४-३९-३३॥
ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः । प्रत्यदृश्यत कोटीभ्यां द्वाभ्यां परिवृतो बली ॥४-३९-३४॥
कैलासशिखराकारैर्वानरैर्भीमविक्रमैः । वृतः कोटिसहस्रेण हनुमान् प्रत्यदृश्यत ॥४-३९-३५॥
नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः । कोटीशतेन सम्प्राप्तः सहस्रेण शतेन च ॥४-३९-३६॥
ततो दधिमुखः श्रीमान् कोटिभिर्दशभिर्वृतः । सम्प्राप्तोऽभिनदंस्तस्य सुग्रीवस्य महात्मनः ॥४-३९-३७॥
शरभः कुमुदो वह्निर्वानरो रंह एव च । एते चान्ये च बहवो वानराः कामरूपिणः ॥४-३९-३८॥
आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च । यूथपाः समनुप्राप्ता येषां संख्या न विद्यते ॥४-३९-३९॥
आगताश्च निविष्टाश्च पृथिव्यां सर्ववानराः । आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः । अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव ॥४-३९-४०॥
कुर्वाणा बहुशब्दांश्च प्रकृष्टा बाहुशालिनः । शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन् ॥४-३९-४१॥
अपरे वानरश्रेष्ठाः संगम्य च यथोचितम् । सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा ॥४-३९-४२॥
सुग्रीवस्त्वरितो रामे सर्वांस्तान् वानरर्षभान् । निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् ॥४-३९-४३॥
यथासुखं पर्वतनिर्झरेषु वनेषु सर्वेषु च वानरेन्द्राः । निवेशयित्वा विधिवद् बलानि बलं बलज्ञः प्रतिपत्तुमीष्टे ॥४-३९-४४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सेनानिवेशः नाम एकोनचत्वारिंशः सर्गः ॥४-३९॥