रामसमीपगमनम्

किष्किन्धाकाण्डः / रामसमीपगमनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे रामसमीपगमनम् नाम अष्टात्रिंशः सर्गः ॥४-३८॥
प्रतिगृह्य च तत् सर्वमुपायनमुपाहृतम् । वानरान् सान्त्वयित्वा च सर्वानेव व्यसर्जयत् ॥४-३८-१॥
विसर्जयित्वा स हरीन् सहस्रान् कृतकर्मणः । मेने कृतार्थमात्मानं राघवं च महाबलम् ॥४-३८-२॥
स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् । अब्रवीत् प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन् ॥४-३८-३॥
किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते । तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् ॥४-३८-४॥
सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह । एवं भवतु गच्छाम स्थेयं त्वच्छासने मया ॥४-३८-५॥
तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम् । विसर्जयामास तदा ताराद्याश्चैव योषितः ॥४-३८-६॥
एहीत्युच्चैर्हरिवरान् सुग्रीवः समुदाहरत् । तस्य तद् वचनं श्रुत्वा हरयः शीघ्रमाययुः ॥४-३८-७॥
बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः । तानुवाच ततः प्राप्तान् राजार्कसदृशप्रभः ॥४-३८-८॥
उपस्थापयत क्षिप्रं शिबिकां मम वानराः । श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः ॥४-३८-९॥
समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् । तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः ॥४-३८-१०॥
लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत् । इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम् ॥४-३८-११॥
बहुभिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः । पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ॥४-३८-१२॥
शुक्लैश्च वालव्यजनैर्धूयमानैः समन्ततः । शंखभेरीनिनादैश्च बन्दिभिश्चाभिनन्दितः ॥४-३८-१३॥
निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् । स वानरशतैस्तीक्ष्णैर्बहुभिः शस्त्रपाणिभिः ॥४-३८-१४॥
परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः । स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् ॥४-३८-१५॥
अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः । आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत् ॥४-३८-१६॥
कृताञ्जलौ स्थिते तस्मिन् वानराश्चाभवंस्तथा । तटाकमिव तं दृष्ट्वा रामः कुड्मलपङ्कजम् ॥४-३८-१७॥
वानराणां महत् सैन्यं सुग्रीवे प्रीतिमानभूत् । पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् ॥४-३८-१८॥
प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे । परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् ॥४-३८-१९॥
निषण्णं तं ततो दृष्ट्वा क्षितौ रामोऽब्रवीत् ततः । धर्ममर्थं च कामं च काले यस्तु निषेवते ॥४-३८-२०॥
विभज्य सततं वीर स राजा हरिसत्तम । हित्वा धर्मं तथार्थं च कामं यस्तु निषेवते ॥४-३८-२१॥
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते । अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः ॥४-३८-२२॥
त्रिवर्गफलभोक्ता च राजा धर्मेण युज्यते । उद्योगसमयस्त्वेष प्राप्तः शत्रुनिषूदन ॥४-३८-२३॥
संचिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः । एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् ॥४-३८-२४॥
प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् । त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया ॥४-३८-२५॥
तव देव प्रसादाच्च भ्रातुश्च जयतां वर । कृतं न प्रतिकुर्याद् यः पुरुषाणां हि दूषकः ॥४-३८-२६॥
एते वानरमुख्याश्च शतशः शत्रुसूदन । प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान् ॥४-३८-२७॥
ऋक्षाश्च वानराः शूरा गोलाङ्गूलाश्च राघव । कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः ॥४-३८-२८॥
देवगन्धर्वपुत्राश्च वानराः कामरूपिणः । स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव ॥४-३८-२९॥
शतैः शतसहस्रैश्च वर्तन्ते कोटिभिस्तथा । अयुतैश्चावृता वीर शङ्कुभिश्च परंतप ॥४-३८-३०॥
अर्बुदैरर्बुदशतैर्मध्यैश्चान्त्यैश्च वानराः । समुद्राश्च परार्धाश्च हरयो हरियूथपाः ॥४-३८-३१॥
आगमिष्यन्ति ते राजन् महेन्द्रसमविक्रमाः । मेघपर्वतसंकाशा मेरुविन्ध्यकृतालयाः ॥४-३८-३२॥
ते त्वामभिगमिष्यन्ति राक्षसं योद्धुमाहवे । निहत्य रावणं युद्धे ह्यानयिष्यन्ति मैथिलीम् ॥४-३८-३३॥
ततः समुद्योगमवेक्ष्य वीर्यवान् हरिप्रवीरस्य निदेशवर्तिनः । बभूव हर्षाद् वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः ॥४-३८-३४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे रामसमीपगमनम् नाम अष्टात्रिंशः सर्गः ॥४-३८॥