कपिसेनासमानयनम्

किष्किन्धाकाण्डः / कपिसेनासमानयनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे कपिसेनासमानयनम् नाम सप्तत्रिंशः सर्गः ॥४-३७॥
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना । हनूमन्तं स्थितं पार्श्वे वचनं चेदमब्रवीत् ॥४-३७-१॥
महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च । मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः ॥४-३७-२॥
तरुणादित्यवर्णेषु भ्राजमानेषु नित्यशः । पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि ॥४-३७-३॥
आदित्यभवने चैव गिरौ संध्याभ्रसंनिभे । पद्माचलवनं भीमाः संश्रिता हरिपुंगवाः ॥४-३७-४॥
अञ्जनाम्बुदसंकाशाः कुञ्जरेन्द्रमहौजसः । अञ्जने पर्वते चैव ये वसन्ति प्लवंगमाः ॥४-३७-५॥
महाशैलगुहावासा वानराः कनकप्रभाः । मेरुपार्श्वगताश्चैव ये च धूम्रगिरिं श्रिताः ॥४-३७-६॥
तरुणादित्यवर्णाश्च पर्वते ये महारुणे । पिबन्तो मधु मैरेयं भीमवेगाः प्लवंगमाः ॥४-३७-७॥
वनेषु च सुरम्येषु सुगन्धिषु महत्सु च । तापसाश्रमरम्येषु वनान्तेषु समन्ततः ॥४-३७-८॥
तांस्तांस्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान् । सामदानादिभिः कल्पैर्वानरैर्वेगवत्तरैः ॥४-३७-९॥
प्रेषिताः प्रथमं ये च मयाऽऽज्ञाता महाजवाः । त्वरणार्थं तु भूयस्त्वं सम्प्रेषय हरीश्वरान् ॥४-३७-१०॥
ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः । इहानयस्व तान् शीघ्रं सर्वानेव कपीश्वरान् ॥४-३७-११॥
अहोभिर्दशभिर्ये च नागच्छन्ति ममाज्ञया । हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः ॥४-३७-१२॥
शतान्यथ सहस्राणि कोट्यश्च मम शासनात् । प्रयान्तु कपिसिंहानां निदेशे मम ये स्थिताः ॥४-३७-१३॥
मेघपर्वतसंकाशाश्छादयन्त इवाम्बरम् । घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः ॥४-३७-१४॥
ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः । आनयन्तु हरीन् सर्वांस्त्वरिताः शासनान्मम ॥४-३७-१५॥
तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः । दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान् ॥४-३७-१६॥
ते पदं विष्णुविक्रान्तं पतत्त्रिज्योतिरध्वगाः । प्रयाताः प्रहिता राज्ञा हरयस्तु क्षणेन वै ॥४-३७-१७॥
ते समुद्रेषु गिरिषु वनेषु च सरस्सु च । वानरा वानरान् सर्वान् रामहेतोरचोदयन् ॥४-३७-१८॥
मृत्युकालोपमस्याज्ञां राजराजस्य वानराः । सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयशङ्किताः ॥४-३७-१९॥
ततस्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाबलाः । तिस्रः कोट्यः प्लवंगानां निर्ययुर्यत्र राघवः ॥४-३७-२०॥
अस्तं गच्छति यत्रार्कस्तस्मिन् गिरिवरे रताः । संतप्तहेमवर्णाभास्तस्मात् कोट्यो दश च्युताः ॥४-३७-२१॥
कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम् । ततः कोटिसहस्राणि वानराणां समागमन् ॥४-३७-२२॥
फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः । तेषां कोटिसहस्राणां सहस्रं समवर्तत ॥४-३७-२३॥
अङ्गारकसमानानां भीमानां भीमकर्मणाम् । विन्ध्याद् वानरकोटीनां सहस्राण्यपतन् द्रुतम् ॥४-३७-२४॥
क्षीरोदवेलानिलयास्तमालवनवासिनः । नारिकेलाशनाश्चैव तेषां संख्या न विद्यते ॥४-३७-२५॥
वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाबलाः । आगच्छद् वानरी सेना पिबन्तीव दिवाकरम् ॥४-३७-२६॥
ये तु त्वरयितुं याता वानराः सर्ववानरान् । ते वीरा हिमवच्छैले ददृशुस्तं महाद्रुमम् ॥४-३७-२७॥
तस्मिन् गिरिवरे पुण्ये यज्ञो माहेश्वरः पुरा । सर्वदेवमनस्तोषो बभूव सुमनोरमः ॥४-३७-२८॥
अन्ननिस्यन्दजातानि मूलानि च फलानि च । अमृतस्वादुकल्पानि ददृशुस्तत्र वानराः ॥४-३७-२९॥
तदन्नसम्भवं दिव्यं फलमूलं मनोहरम् । यः कश्चित् सकृदश्नाति मासं भवति तर्पितः ॥४-३७-३०॥
तानि मूलानि दिव्यानि फलानि च फलाशनाः । औषधानि च दिव्यानि जगृहुर्हरिपुंगवाः ॥४-३७-३१॥
तस्माच्च यज्ञायतनात् पुष्पाणि सुरभीणि च । आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात् ॥४-३७-३२॥
ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् । संचोदयित्वा त्वरितं यूथानां जग्मुरग्रतः ॥४-३७-३३॥
ते तु तेन मुहूर्तेन कपयः शीघ्रचारिणः । किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ॥४-३७-३४॥
ते गृहीत्वौषधीः सर्वाः फलमूलं च वानराः । तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् ॥४-३७-३५॥
सर्वे परिसृताः शैलाः सरितश्च वनानि च । पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते ॥४-३७-३६॥
एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः । प्रतिजग्राह च प्रीतस्तेषां सर्वमुपायनम् ॥४-३७-३७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे कपिसेनासमानयनम् नाम सप्तत्रिंशः सर्गः ॥४-३७॥