सुग्रीवलक्ष्मणानुरोधः
किष्किन्धाकाण्डः / सुग्रीवलक्ष्मणानुरोधः
Script
Translation
Previous
तारासमाधानम्
Next
कपिसेनासमानयनम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे सुग्रीवलक्ष्मणानुरोधः नाम षड्त्रिंशः सर्गः ॥४-३६॥
इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् ।
मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः ॥४-३६-१॥
तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः ।
लक्ष्मणात् सुमहत् त्रासं वस्त्रं क्लिन्नमिवात्यजत् ॥४-३६-२॥
ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् ।
चिच्छेद विमदश्चासीत् सुग्रीवो वानरेश्वरः ॥४-३६-३॥
स लक्ष्मणं भीमबलं सर्ववानरसत्तमः ।
अब्रवीत् प्रश्रितं वाक्यं सुग्रीवः सम्प्रहर्षयन् ॥४-३६-४॥
प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ।
रामप्रसादात् सौमित्रे पुनश्चाप्तमिदं मया ॥४-३६-५॥
कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा ।
तादृशं प्रतिकुर्वीत अंशेनापि नृपात्मज ॥४-३६-६॥
सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् ।
सहायमात्रेण मया राघवः स्वेन तेजसा ॥४-३६-७॥
सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः ।
गिरिश्च वसुधा चैव बाणेनैकेन दारिताः ॥४-३६-८॥
धनुर्विस्फारमाणस्य यस्य शब्देन लक्ष्मण ।
सशैला कम्पिता भूमिः सहायैः किं नु तस्य वै ॥४-३६-९॥
अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ ।
गच्छतो रावणं हन्तुं वैरिणं सपुरस्सरम् ॥४-३६-१०॥
यदि किंचिदतिक्रान्तं विश्वासात् प्रणयेन वा ।
प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति ॥४-३६-११॥
इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः ।
अभवल्लक्ष्मणः प्रीतः प्रेम्णा चेदमुवाच ह ॥४-३६-१२॥
सर्वथा हि मम भ्राता सनाथो वानरेश्वर ।
त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ॥४-३६-१३॥
यस्ते प्रभावः सुग्रीव यच्च ते शौचमीदृशम् ।
अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम् ॥४-३६-१४॥
सहायेन च सुग्रीव त्वया रामः प्रतापवान् ।
वधिष्यति रणे शत्रूनचरान्नात्र संशयः ॥४-३६-१५॥
धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः ।
उपपन्नं च युक्तं च सुग्रीव तव भाषितम् ॥४-३६-१६॥
दोषज्ञः सति सामर्थ्ये कोऽन्यो भाषितुमर्हति ।
वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम ॥४-३६-१७॥
सदृशश्चासि रामेण विक्रमेण बलेन च ।
सहायो दैवतैर्दत्तश्चिराय हरिपुंगव ॥४-३६-१८॥
किं तु शीघ्रमितो वीर निष्क्रम त्वं मया सह ।
सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम् ॥४-३६-१९॥
यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् ।
मया त्वं परुषाण्युक्तस्तत् क्षमस्व सखे मम ॥४-३६-२०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सुग्रीवलक्ष्मणानुरोधः नाम षड्त्रिंशः सर्गः ॥४-३६॥
Previous
तारासमाधानम्
Next
कपिसेनासमानयनम्