तारासमाधानम्
किष्किन्धाकाण्डः / तारासमाधानम्
Script
Translation
Previous
सुग्रीवतर्जनम्
Next
सुग्रीवलक्ष्मणानुरोधः
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे तारासमाधानम् नाम पञ्चत्रिंशः सर्गः ॥४-३५॥
तथा ब्रूवाणं सौमित्रिं प्रदीप्तमिव तेजसा ।
अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना ॥४-३५-१॥
नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति ।
हरीणामीश्वरः श्रोतुं तव वक्त्राद् विशेषतः ॥४-३५-२॥
नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः ।
नैवानृतकथो वीर न जिह्मश्च कपीश्वरः ॥४-३५-३॥
उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः ।
रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे ॥४-३५-४॥
रामप्रसादात् कीर्तिं च कपिराज्यं च शाश्वतम् ।
प्राप्तवानिह सुग्रीवो रुमां मां च परंतप ॥४-३५-५॥
सुदुःखशयितः पूर्वं प्राप्येदं सुखमुत्तमम् ।
प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः ॥४-३५-६॥
घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण ।
अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥४-३५-७॥
स हि प्राप्तं न जानीते कालं कालविदां वरः ।
विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः ॥४-३५-८॥
देहधर्मगतस्यास्य परिश्रान्तस्य लक्ष्मण ।
अवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति ॥४-३५-९॥
न च रोषवशं तात गन्तुमर्हसि लक्ष्मण ।
निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा ॥४-३५-१०॥
सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ ।
अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥४-३५-११॥
प्रसादये त्वां धर्मज्ञ सुग्रीवार्थं समाहिता ।
महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम् ॥४-३५-१२॥
रुमां मां चाङ्गदं राज्यं धनधान्यपशूनि च ।
रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम ॥४-३५-१३॥
समानेष्यति सुग्रीवः सीतया सह राघवम् ।
शशाङ्कमिव रोहिण्या हत्वा तं राक्षसाधमम् ॥४-३५-१४॥
शतकोटिसहस्राणि लङ्कायां किल रक्षसाम् ।
अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च ॥४-३५-१५॥
अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः ।
न शक्यो रावणो हन्तुं येन सा मैथिली हृता ॥४-३५-१६॥
ते न शक्या रणे हन्तुमसहायेन लक्ष्मण ।
रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः ॥४-३५-१७॥
एवमाख्यातवान् वाली स ह्यभिज्ञो हरीश्वरः ।
आगमस्तु न मे व्यक्तः श्रवात् तस्य ब्रवीम्यहम् ॥४-३५-१८॥
त्वत्सहायनिमित्तं हि प्रेषिता हरिपुङ्गवाः ।
आनेतुं वानरान् युद्धे सुबहून् हरिपुङ्गवान् ॥४-३५-१९॥
तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान् ।
राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः ॥४-३५-२०॥
कृता सुसंस्था सौमित्रे सुग्रीवेण पुरा यथा ।
अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः ॥४-३५-२१॥
ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च ।
अद्य त्वामुपयास्यन्ति जहि कोपमरिंदम ।
कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम् ॥४-३५-२२॥
तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजसमे नयने निरीक्षमाणाः ।
हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्किताः स्म सर्वाः ॥४-३५-२३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे तारासमाधानम् नाम पञ्चत्रिंशः सर्गः ॥४-३५॥
Previous
सुग्रीवतर्जनम्
Next
सुग्रीवलक्ष्मणानुरोधः