सुग्रीवतर्जनम्
किष्किन्धाकाण्डः / सुग्रीवतर्जनम्
Script
Translation
Previous
तारासान्त्ववचनम्
Next
तारासमाधानम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे सुग्रीवतर्जनम् नाम चतुस्त्रिंशः सर्गः ॥४-३४॥
तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् ।
सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः ॥४-३४-१॥
क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा ।
भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम् ॥४-३४-२॥
उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् ।
महान् महेन्द्रस्य यथा स्वलंकृत इव ध्वजः ॥४-३४-३॥
उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः ।
सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव ॥४-३४-४॥
संरक्तनयनः श्रीमान् संचचार कृताञ्जलिः ।
बभूवावस्थितस्तत्र कल्पवृक्षो महानिव ॥४-३४-५॥
रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् ।
अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा ॥४-३४-६॥
सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः ।
कृतज्ञः सत्यवादी च राजा लोके महीयते ॥४-३४-७॥
यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम् ।
मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः ॥४-३४-८॥
शतमश्वानृते हन्ति सहस्रं तु गवानृते ।
आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते ॥४-३४-९॥
पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः ।
कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर ॥४-३४-१०॥
गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः ।
दृष्ट्वा कृतघ्नं क्रुद्धेन तन्निबोध प्लवंगम ॥४-३४-११॥
गोघ्ने चैव सुरापे च चौरे भग्नव्रते तथा ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥४-३४-१२॥
अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर ।
पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत् ॥४-३४-१३॥
ननु नाम कृतार्थेन त्वया रामस्य वानर ।
सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता ॥४-३४-१४॥
स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः ।
न त्वां रामो विजानीते सर्पं मण्डूकराविणम् ॥४-३४-१५॥
महाभागेन रामेण पापः करुणवेदिना ।
हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना ॥४-३४-१६॥
कृतं चेन्नातिजानीषे राघवस्य महात्मनः ।
सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम् ॥४-३४-१७॥
न स संकुचितः पन्था येन वाली हतो गतः ।
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥४-३४-१८॥
न नूनमिक्ष्वाकुवरस्य कार्मुकाच्छरांश्च तान् पश्यसि वज्रसंनिभान् ।
ततः सुखं नाम विषेवसे सुखी न रामकार्यं मनसाप्यवेक्षसे ॥४-३४-१९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सुग्रीवतर्जनम् नाम चतुस्त्रिंशः सर्गः ॥४-३४॥
Previous
तारासान्त्ववचनम्
Next
तारासमाधानम्