तारागमनम्

किष्किन्धाकाण्डः / तारागमनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे तारागमनम् नाम एकोनविंशः सर्गः ॥४-१९॥
स वानरमहाराजः शयानः शरपीडितः । प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत ॥४-१९-१॥
अश्मभिः परिभिन्नाङ्गः पादपैराहतो भृशम् । रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः ॥४-१९-२॥
तं भार्या बाणमोक्षेण रामदत्तेन संयुगे । हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् ॥४-१९-३॥
सा सपुत्राप्रियं श्रुत्वा वधं भर्तुः सुदारुणम् । निष्पपात भृशं तस्मादुद्विग्ना गिरिकन्दरात् ॥४-१९-४॥
ये त्वङ्गदपरीवारा वानरा हि महाबलाः । ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः ॥४-१९-५॥
सा ददर्श ततस्त्रस्तान् हरीनापततो द्रुतम् । यूथादेव परिभ्रष्टान् मृगान् निहतयूथपान् ॥४-१९-६॥
तानुवाच समासाद्य दुःखितान् दुःखिता सती । रामवित्रासितान् सर्वाननुबद्धानिवेषुभिः ॥४-१९-७॥
वानरा राजसिंहस्य यस्य यूयं पुरःसराः । तं विहाय सुवित्रस्ताः कस्माद् द्रवत दुर्गताः ॥४-१९-८॥
राज्यहेतोः स चेद् भ्राता भ्रात्रा क्रूरेण पातितः । रामेण प्रहितैर्दूरान्मार्गणैर्दूरपातिभिः ॥४-१९-९॥
कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः । प्राप्तकालमविश्लिष्टमूचुर्वचनमङ्गनाम् ॥४-१९-१०॥
जीवपुत्रे निवर्तस्व पुत्रं रक्षस्व चाङ्गदम् । अन्तको रामरूपेण हत्वा नयति वालिनम् ॥४-१९-११॥
क्षिप्तान् वृक्षान् समाविध्य विपुलाश्च तथा शिलाः । वाली वज्रसमैर्बाणैर्वज्रेणेव निपातितः ॥४-१९-१२॥
अभिभूतमिदं सर्वं विद्रुतं वानरं बलम् । अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे ॥४-१९-१३॥
रक्ष्यतां नगरी शूरैरङ्गदश्चाभिषिच्यताम् । पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवंगमाः ॥४-१९-१४॥
अथवारुचितं स्थानमिह ते रुचिरानने । आविशन्ति च दुर्गाणि क्षिप्रमद्यैव वानराः ॥४-१९-१५॥
अभार्याः सहभार्याश्च सन्त्यत्र वनचारिणः । लुब्धेभ्यो विप्रलब्धेभ्यस्तेभ्यो नः सुमहद्भयम् ॥४-१९-१६॥
अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना । आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी ॥४-१९-१७॥
पुत्रेण मम किं कार्यं राज्येनापि किमात्मना । कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति ॥४-१९-१८॥
पादमूलं गमिष्यामि तस्यैवाहं महात्मनः । योऽसौ रामप्रयुक्तेन शरेण विनिपातितः ॥४-१९-१९॥
एवमुक्त्वा प्रदुद्राव रुदती शोकमूर्च्छिता । शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती ॥४-१९-२०॥
सा व्रजन्ती ददर्शाथ पतिं निपतितं भुवि । हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम् ॥४-१९-२१॥
क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम् । महावातसमाविष्टं महामेघौघनिःस्वनम् ॥४-१९-२२॥
शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम् । नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् । शार्दूलेनामिषस्यार्थे मृगराजमिवाहतम् ॥४-१९-२३॥
अर्चितं सर्वलोकस्य सपताकं सवेदिकम् । नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा ॥४-१९-२४॥
अवष्टभ्यावतिष्ठन्तं ददर्श धनुरूर्जितम् । रामं रामानुजं चैव भर्तुश्चैव तथानुजम् ॥४-१९-२५॥
तानतीत्य समासाद्य भर्तारं निहतं रणे । समीक्ष्य व्यथिता भूमौ सम्भ्रान्ता निपपात ह ॥४-१९-२६॥
सुप्तेव पुनरुत्थाय आर्यपुत्रेति वादिनी । रुरोद सा पतिं दृष्ट्वा संवीतं मृत्युदामभिः ॥४-१९-२७॥
तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव । विषादमगमत् कष्टं दृष्ट्वा चाङ्गदमागतम् ॥४-१९-२८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे तारागमनम् नाम एकोनविंशः सर्गः ॥४-१९॥