वालिवधसमर्थनम्
किष्किन्धाकाण्डः / वालिवधसमर्थनम्
Script
Translation
Previous
रामाधिक्षेपः
Next
तारागमनम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे वालिवधसमर्थनम् नाम अष्टादशः सर्गः ॥४-१८॥
इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् ।
परुषं वालिना रामो निहतेन विचेतसा ॥४-१८-१॥
तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् ।
उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम् ॥४-१८-२॥
धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम् ।
अधिक्षिप्तस्तदा रामः पश्चाद् वालिनमब्रवीत् ॥४-१८-३॥
धर्ममर्थं च कामं च समयं चापि लौकिकम् ।
अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे ॥४-१८-४॥
अपृष्ट्वा बुद्धिसम्पन्नान् वृद्धानाचार्यसम्मतान् ।
सौम्य वानरचापल्यात् त्वं मां वक्तुमिहेच्छसि ॥४-१८-५॥
इक्ष्वाकूणामियं भूमिः सशैलवनकानना ।
मृगपक्षिमनुष्याणां निग्रहानुग्रहेष्वपि ॥४-१८-६॥
तां पालयति धर्मात्मा भरतः सत्यवानृजुः ।
धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ॥४-१८-७॥
नयश्च विनयश्चोभौ यस्मिन् सत्यं च सुस्थितम् ।
विक्रमश्च यथा दृष्टः स राजा देशकालवित् ॥४-१८-८॥
तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः ।
चरामो वसुधां कृत्स्नां धर्मसंतानमिच्छवः ॥४-१८-९॥
तस्मिन् नृपतिशार्दूले भरते धर्मवत्सले ।
पालयत्यखिलां पृथ्वीं कश्चरेद् धर्मविप्रियम् ॥४-१८-१०॥
ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताः ।
भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि ॥४-१८-११॥
त्वं तु संक्लिष्टधर्मश्च कर्मणा च विगर्हितः ।
कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि ॥४-१८-१२॥
ज्येष्ठो भ्राता पिता वापि यश्च विद्यां प्रयच्छति ।
त्रयस्ते पितरो ज्ञेया धर्मे च पथि वर्तिनः ॥४-१८-१३॥
यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः ।
पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चैवात्र कारणम् ॥४-१८-१४॥
सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम ।
हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम् ॥४-१८-१५॥
चपलश्चपलैः सार्धं वानरैरकृतात्मभिः ।
जात्यन्ध इव जात्यन्धैर्मन्त्रयन् प्रेक्षसे नु किम् ॥४-१८-१६॥
अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते ।
नहि मां केवलं रोषात् त्वं विगर्हितुमर्हसि ॥४-१८-१७॥
तदेतत् कारणं पश्य यदर्थं त्वं मया हतः ।
भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम् ॥४-१८-१८॥
अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः ।
रुमायां वर्तसे कामात् स्नुषायां पापकर्मकृत् ॥४-१८-१९॥
तद् व्यतीतस्य ते धर्मात् कामवृत्तस्य वानर ।
भ्रातृभार्याभिमर्शेऽस्मिन् दण्डोऽयं प्रतिपादितः ॥४-१८-२०॥
नहि लोकविरुद्धस्य लोकवृत्तादपेयुषः ।
दण्डादन्यत्र पश्यामि निग्रहं हरियूथप ॥४-१८-२१॥
न च ते मर्षये पापं क्षत्रियोऽहं कुलोद्गतः ।
औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः ॥४-१८-२२॥
प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः ।
भरतस्तु महीपालो वयं त्वादेशवर्तिनः ॥४-१८-२३॥
त्वं च धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम् ।
गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन् ॥४-१८-२४॥
भरतः कामयुक्तानां निग्रहे पर्यवस्थितः ।
वयं तु भरतादेशावधिं कृत्वा हरीश्वर ।
त्वद्विधान् भिन्नमर्यादान् निग्रहीतुं व्यवस्थिताः ॥४-१८-२५॥
सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा ।
दारराज्यनिमित्तं च निःश्रेयस्करः स मे ॥४-१८-२६॥
प्रतिज्ञा च मया दत्ता तदा वानरसंनिधौ ।
प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम् ॥४-१८-२७॥
तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंश्रितैः ।
शासनं तव यद् युक्तं तद् भवाननुमन्यताम् ॥४-१८-२८॥
सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः ।
वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यता ॥४-१८-२९॥
शक्यं त्वयापि तत्कार्यं धर्ममेवानुवर्तता ।
श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ ।
गृहीतौ धर्मकुशलैस्तथा तच्चरितं मया ॥४-१८-३०॥
राजभिर्धृतदण्डाश्च कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥४-१८-३१॥
शासनाद् वापि मोक्षाद् वा स्तेनः पापात् प्रमुच्यते ।
राजा त्वशासन् पापस्य तदवाप्नोति किल्बिषम् ॥४-१८-३२॥
आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् ।
श्रमणेन कृते पापे यथा पापं कृतं त्वया ॥४-१८-३३॥
अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः ।
प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः ॥४-१८-३४॥
तदलं परितापेन धर्मतः परिकल्पितः ।
वधो वानरशार्दूल न वयं स्ववशे स्थिताः ॥४-१८-३५॥
शृणु चाप्यपरं भूयः कारणं हरिपुंगव ।
तच्छ्रुत्वा हि महद् वीर न मन्युं कर्तुमर्हसि ॥४-१८-३६॥
न मे तत्र मनस्तापो न मन्युर्हरिपुंगव ।
वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः ॥४-१८-३७॥
प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून् मृगान् ।
प्रधावितान् वा वित्रस्तान् विस्रब्धानतिविष्ठितान् ॥४-१८-३८॥
प्रमत्तानप्रमत्तान् वा नरा मांसाशिनो भृशम् ।
विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते ॥४-१८-३९॥
यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः ।
तस्मात् त्वं निहतो युद्धे मया बाणेन वानर ।
अयुध्यन् प्रतियुध्यन् वा यस्माच्छाखामृगो ह्यसि ॥४-१८-४०॥
दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च ।
राजानो वानरश्रेष्ठ प्रदातारो न संशयः ॥४-१८-४१॥
तान् न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् ।
देवा मानुषरूपेण चरन्त्येते महीतले ॥४-१८-४२॥
त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः ।
विदूषयसि मां धर्मे पितृपैतामहे स्थितम् ॥४-१८-४३॥
एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम् ।
न दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः ॥४-१८-४४॥
प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः ।
यत् त्वमात्थ नरश्रेष्ठ तत् तथैव न संशयः ॥४-१८-४५॥
प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात् ।
यदयुक्तं मया पूर्वं प्रमादाद् वाक्यमप्रियम् ॥४-१८-४६॥
तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव ।
त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः ।
कार्यकारणसिद्धौ च प्रसन्ना बुद्धिरव्यया ॥४-१८-४७॥
मामप्यवगतं धर्माद् व्यतिक्रान्तपुरस्कृतम् ।
धर्मसंहितया वाचा धर्मज्ञ परिपालय ॥४-१८-४८॥
बाष्पसंरुद्धकण्ठस्तु वाली सार्तरवः शनैः ।
उवाच रामं सम्प्रेक्ष्य पङ्कलग्न इव द्विपः ॥४-१८-४९॥
न चात्मानमहं शोचे न तारां नापि बान्धवान् ।
यथा पुत्रं गुणज्येष्ठमङ्गदं कनकाङ्गदम् ॥४-१८-५०॥
स ममादर्शनाद् दीनो बाल्यात् प्रभृति लालितः ।
तटाक इव पीताम्बुरुपशोषं गमिष्यति ॥४-१८-५१॥
बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः ।
तारेयो राम भवता रक्षणीयो महाबलः ॥४-१८-५२॥
सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम् ।
त्वं हि गोप्ता च शास्ता च कार्याकार्यविधौ स्थितः ॥४-१८-५३॥
या ते नरपते वृत्तिर्भरते लक्ष्मणे च या ।
सुग्रीवे चाङ्गदे राजंस्तां चिन्तयितुमर्हसि ॥४-१८-५४॥
मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् ।
सुग्रीवो नावमन्येत तथावस्थातुमर्हसि ॥४-१८-५५॥
त्वया ह्यनुगृहीतेन शक्यं राज्यमुपासितुम् ।
त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना ॥४-१८-५६॥
शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम् ।
त्वत्तोऽहं वधमाकांक्षन् वार्यमाणोऽपि तारया ॥४-१८-५७॥
सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः ।
इत्युक्त्वा वानरो रामं विरराम हरीश्वरः ॥४-१८-५८॥
स तमाश्वासयद् रामो वालिनं व्यक्तदर्शनम् ।
साधुसम्मतया वाचा धर्मतत्त्वार्थयुक्तया ॥४-१८-५९॥
न संतापस्त्वया कार्य एतदर्थं प्लवङ्गम ।
न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम ।
वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः ॥४-१८-६०॥
दण्ड्ये यः पातयेद् दण्डं दण्ड्यो यश्चापि दण्ड्यते ।
कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः ॥४-१८-६१॥
तद् भवान् दण्डसंयोगादस्माद् विगतकल्मषः ।
गतः स्वां प्रकृतिं धर्म्यां दण्डदिष्टेन वर्त्मना ॥४-१८-६२॥
त्यज शोकं च मोहं च भयं च हृदये स्थितम् ।
त्वया विधानं हर्यग्र्य न शक्यमतिवर्तितुम् ॥४-१८-६३॥
यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर ।
तथा वर्तेत सुग्रीवे मयि चापि न संशयः ॥४-१८-६४॥
स तस्य वाक्यं मधुरं महात्मनः समाहितं धर्मपथानुवर्तितम् ।
निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तं निजगाद वानरः ॥४-१८-६५॥
शराभितप्तेन विचेतसा मया प्रभाषितस्त्वं यदजानता विभो ।
इदं महेन्द्रोपमभीमविक्रम प्रसादितस्त्वं क्षम मे नरेश्वर ॥४-१८-६६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे वालिवधसमर्थनम् नाम अष्टादशः सर्गः ॥४-१८॥
Previous
रामाधिक्षेपः
Next
तारागमनम्