ताराविलापः

किष्किन्धाकाण्डः / ताराविलापः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे ताराविलापः नाम विंशः सर्गः ॥४-२०॥
रामचापविसृष्टेन शरेणान्तकरेण तम् । दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना ॥४-२०-१॥
सा समासाद्य भर्तारं पर्यष्वजत भामिनी । इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् ॥४-२०-२॥
वानरं पर्वतेन्द्राभं शोकसंतप्तमानसा । तारा तरुमिवोन्मूलं पर्यदेवयतातुरा ॥४-२०-३॥
रणे दारुणविक्रान्त प्रवीर प्लवतां वर । किमिदानीं पुरोभागामद्य त्वं नाभिभाषसे ॥४-२०-४॥
उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् । नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः ॥४-२०-५॥
अतीव खलु ते कान्ता वसुधा वसुधाधिप । गतासुरपि तां गात्रैर्मां विहाय निषेवसे ॥४-२०-६॥
व्यक्तमद्य त्वया वीर धर्मतः सम्प्रवर्तता । किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता ॥४-२०-७॥
यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु । विहृतानि त्वया काले तेषामुपरमः कृतः ॥४-२०-८॥
निरानन्दा निराशाहं निमग्ना शोकसागरे । त्वयि पञ्चत्वमापन्ने महायूथपयूथपे ॥४-२०-९॥
हृदयं सुस्थितं मह्यं दृष्ट्वा निपतितं भुवि । यन्न शोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा ॥४-२०-१०॥
सुग्रीवस्य त्वया भार्या हृता स च विवासितः । यत् तत् तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप ॥४-२०-११॥
निःश्रेयसपरा मोहात् त्वया चाहं विगर्हिता । यैषाब्रुवं हितं वाक्यं वानरेन्द्र हितैषिणी ॥४-२०-१२॥
रूपयौवनदृप्तानां दक्षिणानां च मानद । नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि ॥४-२०-१३॥
कालो निःसंशयो नूनं जीवितान्तकरस्तव । बलाद् येनावपन्नोऽसि सुग्रीवस्यावशो वशम् ॥४-२०-१४॥
अस्थाने वालिनं हत्वा युध्यमानं परेण च । न संतप्यति काकुत्स्थः कृत्वा कर्मसुगर्हितम् ॥४-२०-१५॥
वैधव्यं शोकसंतापं कृपणाकृपणा सती । अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत् ॥४-२०-१६॥
लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः । वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्च्छिते ॥४-२०-१७॥
कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् । दुर्लभं दर्शनं तस्य तव वत्स भविष्यति ॥४-२०-१८॥
समाश्वासय पुत्रं त्वं संदेशं संदिशस्व मे । मूर्ध्न्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि ॥४-२०-१९॥
रामेण हि महत् कर्म कृतं त्वामभिनिघ्नता । आनृण्यं तु गतं तस्य सुग्रीवस्य प्रतिश्रवे ॥४-२०-२०॥
सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे । भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव ॥४-२०-२१॥
किं मामेवं प्रलपतीं प्रियां त्वं नाभिभाषसे । इमाः पश्य वरा बाह्व्यो भार्यास्ते वानरेश्वर ॥४-२०-२२॥
तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्च ताः । परिगृह्याङ्गदं दीना दुःखार्ताः प्रतिचुक्रुशुः ॥४-२०-२३॥
किमङ्गदं साङ्गदवीरबाहो विहाय यातोऽसि चिरं प्रवासम् । न युक्तमेवं गुणसंनिकृष्टं विहाय पुत्रं प्रियचारुवेषम् ॥४-२०-२४॥
यद्यप्रियं किंचिदसम्प्रधार्य कृतं मया स्यात् तव दीर्घबाहो । क्षमस्व मे तद्धरिवंशनाथ व्रजामि मूर्ध्ना तव वीर पादौ ॥४-२०-२५॥
तथा तु तारा करुणं रुदन्ती भर्तुः समीपे सह वानरीभिः । व्यवस्यत प्रायमनिन्द्यवर्णा उपोपवेष्टुं भुवि यत्र वाली ॥४-२०-२६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे ताराविलापः नाम विंशः सर्गः ॥४-२०॥