रामाधिक्षेपः

किष्किन्धाकाण्डः / रामाधिक्षेपः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे रामाधिक्षेपः नाम सप्तदशः सर्गः ॥४-१७॥
ततः शरेणाभिहतो रामेण रणकर्कशः । पपात सहसा वाली निकृत्त इव पादपः ॥४-१७-१॥
स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः । अपतद् देवराजस्य मुक्तरश्मिरिव ध्वजः ॥४-१७-२॥
अस्मिन् निपतिते भूमौ हर्यृक्षाणां गणेश्वरे । नष्टचन्द्रमिव व्योम न व्यराजत मेदिनी ॥४-१७-३॥
भूमौ निपतितस्यापि तस्य देहं महात्मनः । न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः ॥४-१७-४॥
शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता । दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा ॥४-१७-५॥
स तया मालया वीरो हैमया हरियूथपः । संध्यानुगतपर्यन्तः पयोधर इवाभवत् ॥४-१७-६॥
तस्य माला च देहश्च मर्मघाती च यः शरः । त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते ॥४-१७-७॥
तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् । रामबाणासनक्षिप्तमावहत् परमां गतिम् ॥४-१७-८॥
तं तथा पतितं संख्ये गतार्चिषमिवानलम् । ययातिमिव पुण्यान्ते देवलोकादिह च्युतम् ॥४-१७-९॥
आदित्यमिव कालेन युगान्ते भुवि पातितम् । महेन्द्रमिव दुर्धर्षमुपेन्द्रमिव दुःसहम् ॥४-१७-१०॥
महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् । व्यूढोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम् ॥४-१७-११॥
लक्ष्मणानुचरो रामो ददर्शोपससर्प च । तं तथा पतितं वीरं गतार्चिषमिवानलम् ॥४-१७-१२॥
बहुमान्य च तं वीरं वीक्षमाणं शनैरिव । उपयातौ महावीर्यौ भ्रातरौ रामलक्ष्मणौ ॥४-१७-१३॥
तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् । अब्रवीत् परुषं वाक्यं प्रश्रितं धर्मसंहितम् ॥४-१७-१४॥
स भूमावल्पतेजोऽसुर्निहतो नष्टचेतनः । अर्थसंहितया वाचा गर्वितं रणगर्वितम् ॥४-१७-१५॥
त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः । पराङ्मुखवधं कृत्वा कोऽत्र प्राप्तस्त्वया गुणः । यदहं युद्धसंरब्धस्त्वत्कृते निधनं गतः ॥४-१७-१६॥
कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः । रामः करुणवेदी च प्रजानां च हिते रतः ॥४-१७-१७॥
सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः । इत्येतत् सर्वभूतानि कथयन्ति यशो भुवि ॥४-१७-१८॥
दमः शमः क्षमा धर्मो धृतिः सत्यं पराक्रमः । पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु ॥४-१७-१९॥
तान् गुणान् सम्प्रधार्याहमग्र्यं चाभिजनं तव । तारया प्रतिषिद्धः सन् सुग्रीवेण समागतः ॥४-१७-२०॥
न मामन्येन संरब्धं प्रमत्तं वेद्धुमर्हसि । इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव ॥४-१७-२१॥
स त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् । जाने पापसमाचारं तृणैः कूपमिवावृतम् ॥४-१७-२२॥
सतां वेषधरं पापं प्रच्छन्नमिव पावकम् । नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम् ॥४-१७-२३॥
विषये वा पुरे वा ते यदा पापं करोम्यहम् । न च त्वामवजानेऽहं कस्मात् तं हंस्यकिल्बिषम् ॥४-१७-२४॥
फलमूलाशनं नित्यं वानरं वनगोचरम् । मामिहाप्रतियुध्यन्तमन्येन च समागतम् ॥४-१७-२५॥
त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः । लिङ्गमप्यस्ति ते राजन् दृश्यते धर्मसंहितम् ॥४-१७-२६॥
कः क्षत्रियकुले जातः श्रुतवान् नष्टसंशयः । धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत् ॥४-१७-२७॥
त्वं राघवकुले जातो धर्मवानिति विश्रुतः । अभव्यो भव्यरूपेण किमर्थं परिधावसे ॥४-१७-२८॥
साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ । पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु ॥४-१७-२९॥
वयं वनचरा राम मृगा मूलफलाशिनः । एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वर ॥४-१७-३०॥
भूमिर्हिरण्यं रूपं च विग्रहे कारणानि च । तत्र कस्ते वने लोभो मदीयेषु फलेषु वा ॥४-१७-३१॥
नयश्च विनयश्चोभौ निग्रहानुग्रहावपि । राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः ॥४-१७-३२॥
त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः । राजवृत्तेषु संकीर्णः शरासनपरायणः ॥४-१७-३३॥
न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता । इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर ॥४-१७-३४॥
हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् । किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् ॥४-१७-३५॥
राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः । नास्तिकः परिवेत्ता च सर्वे निरयगामिनः ॥४-१७-३६॥
सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः । लोकं पापात्मनामेते गच्छन्ते नात्र संशयः ॥४-१७-३७॥
अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम् । अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः ॥४-१७-३८॥
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव । शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः ॥४-१७-३९॥
चर्म चास्थि च मे राम न स्पृशन्ति मनीषिणः । अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः ॥४-१७-४०॥
तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम् । तदतिक्रम्य मोहेन कालस्य वशमागतः ॥४-१७-४१॥
त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा । प्रमदा शीलसम्पूर्णा पत्येव च विधर्मणा ॥४-१७-४२॥
शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः । कथं दशरथेन त्वं जातः पापो महात्मना ॥४-१७-४३॥
छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना । त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना ॥४-१७-४४॥
अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम् । वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः ॥४-१७-४५॥
उदासीनेषु योऽस्मासु विक्रमोऽयं प्रकाशितः । अपकारिषु ते राम नैवं पश्यामि विक्रमम् ॥४-१७-४६॥
दृश्यमानस्तु युध्येथा मया युधि नृपात्मज । अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया ॥४-१७-४७॥
त्वयादृश्येन तु रणे निहतोऽहं दुरासदः । प्रसुप्तः पन्नगेनैव नरः पापवशं गतः ॥४-१७-४८॥
सुग्रीवप्रियकामेन यदहं निहतस्त्वया । मामेव यदि पूर्वं त्वमेतदर्थमचोदयः । मैथिलीमहमेकाह्ना तव चानीतवान् भवेः ॥४-१७-४९॥
राक्षसं च दुरात्मानं तव भार्यापहारिणम् । कण्ठे बद्ध्वा प्रदद्यां तेऽनिहतं रावणं रणे ॥४-१७-५०॥
न्यस्तां सागरतोये वा पाताले वापि मैथिलीम् । आनयेयं तवादेशाच्छ्वेतामश्वतरीमिव ॥४-१७-५१॥
युक्तं यत्प्राप्नुयाद् राज्यं सुग्रीवः स्वर्गते मयि । अयुक्तं यदधर्मेण त्वयाहं निहतो रणे ॥४-१७-५२॥
काममेवंविधो लोकः कालेन विनियुज्यते । क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम् ॥४-१७-५३॥
इत्येवमुक्त्वा परिशुष्कवक्त्रः शराभिघाताद् व्यथितो महात्मा । समीक्ष्य रामं रविसंनिकाशं तूष्णीं बभौ वानरराजसूनुः ॥४-१७-५४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे रामाधिक्षेपः नाम सप्तदशः सर्गः ॥४-१७॥