वालिसंहारः
किष्किन्धाकाण्डः / वालिसंहारः
Script
Translation
Previous
ताराहितोक्तिः
Next
रामाधिक्षेपः
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे वालिसंहारः नाम षोडशः सर्गः ॥४-१६॥
तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् ।
वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् ॥४-१६-१॥
गर्जतोऽस्य सुसंरब्धं भ्रातुः शत्रोर्विशेषतः ।
मर्षयिष्यामि केनापि कारणेन वरानने ॥४-१६-२॥
अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् ।
धर्षणामर्षणं भीरु मरणादतिरिच्यते ॥४-१६-३॥
सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे ।
सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जितम् ॥४-१६-४॥
न च कार्यो विषादस्ते राघवं प्रति मत्कृते ।
धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ॥४-१६-५॥
निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि ।
सौहृदं दर्शितं तावन्मयि भक्तिस्त्वया कृता ॥४-१६-६॥
प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम् ।
दर्पं चास्य विनेष्यामि न च प्राणैर्वियोक्ष्यते ॥४-१६-७॥
अहं ह्याजिस्थितस्यास्य करिष्यामि यदीप्सितम् ।
वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति ॥४-१६-८॥
न मे गर्वितमायस्तं सहिष्यति दुरात्मवान् ।
कृतं तारे सहायत्वं दर्शितं सौहृदं मयि ॥४-१६-९॥
शापितासि मम प्राणैर्निवर्तस्व जनेन च ।
अलं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे ॥४-१६-१०॥
तं तु तारा परिष्वज्य वालिनं प्रियवादिनी ।
चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् ॥४-१६-११॥
ततः स्वस्त्ययनं कृत्वा मन्त्रविद् विजयैषिणी ।
अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ॥४-१६-१२॥
प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम् ।
नगर्या निर्ययौ क्रुद्धो महासर्प इव श्वसन् ॥४-१६-१३॥
स निःश्वस्य महारोषो वाली परमवेगवान् ।
सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकांक्षया ॥४-१६-१४॥
स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम् ।
सुसंवीतमवष्टब्धं दीप्यमानमिवानलम् ॥४-१६-१५॥
तं स दृष्ट्वा महाबाहुः सुग्रीवं पर्यवस्थितम् ।
गाढं परिदधे वासो वाली परमकोपनः ॥४-१६-१६॥
स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् ।
सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः ॥४-१६-१७॥
श्लिष्टं मुष्टिं समुद्यम्य संरब्धतरमागतः ।
सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम् ॥४-१६-१८॥
तं वाली क्रोधताम्राक्षः सुग्रीवं रणकोविदम् ।
आपतन्तं महावेगमिदं वचनमब्रवीत् ॥४-१६-१९॥
एष मुष्टिर्महान् बद्धो गाढः सुनियताङ्गुलिः ।
मया वेगविमुक्तस्ते प्राणानादाय यास्यति ॥४-१६-२०॥
एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत् ।
तव चैष हरन् प्राणान् मुष्टिः पततु मूर्धनि ॥४-१६-२१॥
ताडितस्तेन तं क्रुद्धः समभिक्रम्य वेगतः ।
अभवच्छोणितोद्गारी सापीड इव पर्वतः ॥४-१६-२२॥
सुग्रीवेण तु निःशङ्कं सालमुत्पाट्य तेजसा ।
गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः ॥४-१६-२३॥
स तु वृक्षेण निर्भग्नः सालताडनविह्वलः ।
गुरुभारभराक्रान्ता नौः ससार्थेव सागरे ॥४-१६-२४॥
तौ भीमबलविक्रान्तौ सुपर्णसमवेगितौ ।
प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे ॥४-१६-२५॥
परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ ।
ततोऽवर्धत वाली तु बलवीर्यसमन्वितः ॥४-१६-२६॥
सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयत ।
वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः ॥४-१६-२७॥
वालिनं प्रति सामर्षो दर्शयामास राघवम् ।
वृक्षैः सशाखैः शिखरैर्वज्रकोटिनिभैर्नखैः ॥४-१६-२८॥
मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः ।
तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव ॥४-१६-२९॥
तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ ।
मेघाविव महाशब्दैस्तर्जमानौ परस्परम् ॥४-१६-३०॥
हीयमानमथापश्यत् सुग्रीवं वानरेश्वरम् ।
प्रेक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः ॥४-१६-३१॥
ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम् ।
स शरं वीक्षते वीरो वालिनो वधकांक्षया ॥४-१६-३२॥
ततो धनुषि संधाय शरमाशीविषोपमम् ।
पूरयामास तच्चापं कालचक्रमिवान्तकः ॥४-१६-३३॥
तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः ।
प्रदुद्रुवुर्मृगाश्चैव युगान्त इव मोहिताः ॥४-१६-३४॥
मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसंनिभः ।
राघवेण महाबाणो वालिवक्षसि पातितः ॥४-१६-३५॥
ततस्तेन महातेजा वीर्ययुक्तः कपीश्वरः ।
वेगेनाभिहतो वाली निपपात महीतले ॥४-१६-३६॥
इन्द्रध्वज इवोद्धूतः पौर्णमास्यां महीतले ।
आश्वयुक्समये मासि गतश्रीको विचेतनः ।
बाष्पसंरुद्धकण्ठस्तु वाली चार्तस्वरः शनैः ॥४-१६-३७॥
नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभूषितम् ।
ससर्ज दीप्तं तममित्रमर्दनं सधूममग्निं मुखतो यथा हरः ॥४-१६-३८॥
अथोक्षितः शोणिततोयविस्रवैः सुपुष्पिताशोक इवानिलोद्धतः ।
विचेतनो वासवसूनुराहवे प्रभ्रंशितेन्द्रध्वजवत् क्षितिं गतः ॥४-१६-३९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे वालिसंहारः नाम षोडशः सर्गः ॥४-१६॥
Previous
ताराहितोक्तिः
Next
रामाधिक्षेपः