ताराहितोक्तिः

किष्किन्धाकाण्डः / ताराहितोक्तिः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे ताराहितोक्तिः नाम पञ्चदशः सर्गः ॥४-१५॥
अथ तस्य निनादं तं सुग्रीवस्य महात्मनः । शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः ॥४-१५-१॥
श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् । मदश्चैकपदे नष्टः क्रोधश्चापादितो महान् ॥४-१५-२॥
ततो रोषपरीताङ्गो वाली स कनकप्रभः । उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥४-१५-३॥
वाली दंष्ट्राकरालस्तु क्रोधाद् दीप्ताग्निलोचनः । भात्युत्पतितपद्माभः समृणाल इव ह्रदः ॥४-१५-४॥
शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः । वेगेन च पदन्यासैर्दारयन्निव मेदिनीम् ॥४-१५-५॥
तं तु तारा परिष्वज्य स्नेहाद् दर्शितसौहृदा । उवाच त्रस्तसम्भ्रान्ता हितोदर्कमिदं वचः ॥४-१५-६॥
साधु क्रोधमिमं वीर नदीवेगमिवागतम् । शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम् ॥४-१५-७॥
काल्यमेतेन संग्रामं करिष्यसि च वानर । वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते ॥४-१५-८॥
सहसा तव निष्क्रामो मम तावन्न रोचते । श्रूयतामभिधास्यामि यन्निमित्तं निवार्यते ॥४-१५-९॥
पूर्वमापतितः क्रोधात् स त्वामाह्वयते युधि । निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः ॥४-१५-१०॥
त्वया तस्य निरस्तस्य पीडितस्य विशेषतः । इहैत्य पुनराह्वानं शङ्कां जनयतीव मे ॥४-१५-११॥
दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः । निनादस्य च संरम्भो नैतदल्पं हि कारणम् ॥४-१५-१२॥
नासहायमहं मन्ये सुग्रीवं तमिहागतम् । अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति ॥४-१५-१३॥
प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः । नापरीक्षितवीर्येण सुग्रीवः सख्यमेष्यति ॥४-१५-१४॥
पूर्वमेव मया वीर श्रुतं कथयतो वचः । अङ्गदस्य कुमारस्य वक्ष्याम्यद्य हितं वचः ॥४-१५-१५॥
अङ्गदस्तु कुमारोऽयं वनान्तमुपनिर्गतः । प्रवृत्तिस्तेन कथिता चारैरासीन्निवेदिता ॥४-१५-१६॥
अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयौ । इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ ॥४-१५-१७॥
सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ । स ते भ्रातुर्हि विख्यातः सहायो रणकर्मणि ॥४-१५-१८॥
रामः परबलामर्दी युगान्ताग्निरिवोत्थितः । निवासवृक्षः साधूनामापन्नानां परा गतिः ॥४-१५-१९॥
आर्तानां संश्रयश्चैव यशसश्चैकभाजनम् । ज्ञानविज्ञानसम्पन्नो निदेशे निरतः पितुः ॥४-१५-२०॥
धातूनामिव शैलेन्द्रो गुणानामाकरो महान् । तत् क्षमो न विरोधस्ते सह तेन महात्मना ॥४-१५-२१॥
दुर्जयेनाप्रमेयेण रामेण रणकर्मसु । शूर वक्ष्यामि ते किंचिन्न चेच्छाम्यभ्यसूयितुम् ॥४-१५-२२॥
श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् । यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय ॥४-१५-२३॥
विग्रहं मा कृथा वीर भ्रात्रा राजन् यवीयसा । अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम् ॥४-१५-२४॥
सुग्रीवेण च सम्प्रीतिं वैरमुत्सृज्य दूरतः । लालनीयो हि ते भ्राता यवीयानेष वानरः ॥४-१५-२५॥
तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते । नहि तेन समं बन्धुं भुवि पश्यामि कंचन ॥४-१५-२६॥
दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम् । वैरमेतत् समुत्सृज्य तव पार्श्वे स तिष्ठतु ॥४-१५-२७॥
सुग्रीवो विपुलग्रीवो महाबन्धुर्मतस्तव । भ्रातृसौहृदमालम्ब्य नान्या गतिरिहास्ति ते ॥४-१५-२८॥
यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् । याच्यमानः प्रियत्वेन साधु वाक्यं कुरुष्व मे ॥४-१५-२९॥
प्रसीद पथ्यं शृणु जल्पितं हि मे न रोषमेवानुविधातुमर्हसि । क्षमो हि ते कोशलराजसूनुना न विग्रहः शक्रसमानतेजसा ॥४-१५-३०॥
तदा हि तारा हितमेव वाक्यं तं वालिनं पथ्यमिदं बभाषे । न रोचते तद् वचनं हि तस्य कालाभिपन्नस्य विनाशकाले ॥४-१५-३१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे ताराहितोक्तिः नाम पञ्चदशः सर्गः ॥४-१५॥