वालिबलाविष्करणम्

किष्किन्धाकाण्डः / वालिबलाविष्करणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे वालिबलाविष्करणम् नाम एकादशः सर्गः ॥४-११॥
रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् । सुग्रीवः पूजयांचक्रे राघवं प्रशशंस च ॥४-११-१॥
असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः । त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः ॥४-११-२॥
वालिनः पौरुषं यत्तद् यच्च वीर्यं धृतिश्च या । तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम् ॥४-११-३॥
समुद्रात् पश्चिमात् पूर्वं दक्षिणादपि चोत्तरम् । क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः ॥४-११-४॥
अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि । ऊर्ध्वमुत्पात्य तरसा प्रतिगृह्णाति वीर्यवान् ॥४-११-५॥
बहवः सारवन्तश्च वनेषु विविधा द्रुमाः । वालिना तरसा भग्ना बलं प्रथयताऽऽत्मनः ॥४-११-६॥
महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः । बलं नागसहस्रस्य धारयामास वीर्यवान् ॥४-११-७॥
स वीर्योत्सेकदुष्टात्मा वरदानेन मोहितः । जगाम स महाकायः समुद्रं सरितां पतिम् ॥४-११-८॥
ऊर्मिमन्तमतिक्रम्य सागरं रत्नसंचयम् । मम युद्धं प्रयच्छेति तमुवाच महार्णवम् ॥४-११-९॥
ततः समुद्रो धर्मात्मा समुत्थाय महाबलः । अब्रवीद् वचनं राजन्नसुरं कालचोदितम् ॥४-११-१०॥
समर्थो नास्मि ते दातुं युद्धं युद्धविशारद । श्रूयतां त्वभिधास्यामि यस्ते युद्धं प्रदास्यति ॥४-११-११॥
शैलराजो महारण्ये तपस्विशरणं परम् । शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः ॥४-११-१२॥
महाप्रस्रवणोपेतो बहुकन्दरनिर्झरः । स समर्थस्तव प्रीतिमतुलां कर्तुमर्हति ॥४-११-१३॥
तं भीतमिति विज्ञाय समुद्रमसुरोत्तमः । हिमवद्वनमागम्य शरश्चापादिव च्युतः ॥४-११-१४॥
ततस्तस्य गिरेः श्वेता गजेन्द्रप्रतिमाः शिलाः । चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च ॥४-११-१५॥
ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः । हिमवानब्रवीद् वाक्यं स्व एव शिखरे स्थितः ॥४-११-१६॥
क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल । रणकर्मस्वकुशलस्तपस्विशरणो ह्यहम् ॥४-११-१७॥
तस्य तद् वचनं श्रुत्वा गिरिराजस्य धीमतः । उवाच दुन्दुभिर्वाक्यं क्रोधात् संरक्तलोचनः ॥४-११-१८॥
यदि युद्धेऽसमर्थस्त्वं मद्भयाद् वा निरुद्यमः । तमाचक्ष्व प्रदद्यान्मे यो हि युद्धं युयुत्सतः ॥४-११-१९॥
हिमवानब्रवीद् वाक्यं श्रुत्वा वाक्यविशारदः । अनुक्तपूर्वं धर्मात्मा क्रोधात् तमसुरोत्तमम् ॥४-११-२०॥
वाली नाम महाप्राज्ञ शक्रपुत्रः प्रतापवान् । अध्यास्ते वानरः श्रीमान् किष्किन्धामतुलप्रभाम् ॥४-११-२१॥
स समर्थो महाप्राज्ञस्तव युद्धविशारदः । द्वन्द्वयुद्धं स दातुं ते नमुचेरिव वासवः ॥४-११-२२॥
तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि । स हि दुर्मर्षणो नित्यं शूरः समरकर्मणि ॥४-११-२३॥
श्रुत्वा हिमवतो वाक्यं कोपाविष्टः स दुन्दुभिः । जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा ॥४-११-२४॥
धारयन् माहिषं रूपं तीक्ष्णशृङ्गो भयावहः । प्रावृषीव महामेघस्तोयपूर्णो नभस्तले ॥४-११-२५॥
ततस्तु द्वारमागम्य किष्किन्धाया महाबलः । ननर्द कम्पयन् भूमिं दुन्दुभिर्दुन्दुभिर्यथा ॥४-११-२६॥
समीपजान् द्रुमान् भञ्जन् वसुधां दारयन् खुरैः । विषाणेनोल्लिखन् दर्पात् तद्द्वारं द्विरदो यथा ॥४-११-२७॥
अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः । निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमा ॥४-११-२८॥
मितं व्यक्ताक्षरपदं तमुवाच स दुन्दुभिम् । हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् ॥४-११-२९॥
किमर्थं नगरद्वारमिदं रुद्ध्वा विनर्दसे । दुन्दुभे विदितो मेऽसि रक्ष प्राणान् महाबल ॥४-११-३०॥
तस्य तद् वचनं श्रुत्वा वानरेन्द्रस्य धीमतः । उवाच दुन्दुभिर्वाक्यं क्रोधात् संरक्तलोचनः ॥४-११-३१॥
न त्वं स्त्रीसंनिधौ वीर वचनं वक्तुमर्हसि । मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम् ॥४-११-३२॥
अथवा धारयिष्यामि क्रोधमद्य निशामिमाम् । गृह्यतामुदयः स्वैरं कामभोगेषु वानर ॥४-११-३३॥
दीयतां सम्प्रदानं च परिष्वज्य च वानरान् । सर्वशाखामृगेन्द्रस्त्वं संसादय सुहृज्जनम् ॥४-११-३४॥
सुदृष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे । क्रीडस्व च समं स्त्रीभिरहं ते दर्पशासनः ॥४-११-३५॥
यो हि मत्तं प्रमत्तं वा भग्नं वा रहितं कृशम् । हन्यात् स भ्रूणहा लोके त्वद्विधं मदमोहितम् ॥४-११-३६॥
स प्रहस्याब्रवीन्मन्दं क्रोधात् तमसुरेश्वरम् । विसृज्य ताः स्त्रियः सर्वास्ताराप्रभृतिकास्तदा ॥४-११-३७॥
मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे । मदोऽयं सम्प्रहारेऽस्मिन् वीरपानं समर्थ्यताम् ॥४-११-३८॥
तमेवमुक्त्वा संक्रुद्धो मालामुत्क्षिप्य काञ्चनीम् । पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत ॥४-११-३९॥
विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसंनिभम् । आविध्यत तथा वाली विनदन् कपिकुञ्जरः ॥४-११-४०॥
बलाद् व्यापादयांचक्रे ननर्द च महास्वनम् । श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः ॥४-११-४१॥
तयोस्तु क्रोधसंरम्भात् परस्परजयैषिणोः । युद्धं समभवद् घोरं दुन्दुभेर्वालिनस्तथा ॥४-११-४२॥
अयुध्यत तदा वाली शक्रतुल्यपराक्रमः । मुष्टिभिर्जानुभिः पद्भिः शिलाभिः पादपैस्तथा ॥४-११-४३॥
परस्परं घ्नतोस्तत्र वानरासुरयोस्तदा । आसीद्धीनोऽसुरो युद्धे शक्रसूनुर्व्यवर्धत ॥४-११-४४॥
तं तु दुन्दुभिमुद्यम्य धरण्यामभ्यपातयत् । युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा ॥४-११-४५॥
स्रोतोभ्यो बहु रक्तं तु तस्य सुस्राव पात्यतः । पपात च महाबाहुः क्षितौ पञ्चत्वमागतः ॥४-११-४६॥
तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम् । चिक्षेप वेगवान् वाली वेगेनैकेन योजनम् ॥४-११-४७॥
तस्य वेगप्रविद्धस्य वक्त्रात् क्षतजबिन्दवः । प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति ॥४-११-४८॥
तान् दृष्ट्वा पतितांस्तत्र मुनिः शोणितविप्रुषः । क्रुद्धस्तस्य महाभाग चिन्तयामास को न्वयम् ॥४-११-४९॥
येनाहं सहसा स्पृष्टः शोणितेन दुरात्मना । कोऽयं दुरात्मा दुर्बुद्धिरकृतात्मा च बालिशः ॥४-११-५०॥
इत्युक्त्वा स विनिष्क्रम्य ददृशे मुनिसत्तमः । महिषं पर्वताकारं गतासुं पतितं भुवि ॥४-११-५१॥
स तु विज्ञाय तपसा वानरेण कृतं हि तत् । उत्ससर्ज महाशापं क्षेप्तारं वानरं प्रति ॥४-११-५२॥
इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत् । वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः ॥४-११-५३॥
क्षिपता पादपाश्चेमे सम्भग्नाश्चासुरीं तनुम् । समन्तादाश्रमं पूर्णं योजनं मामकं यदि ॥४-११-५४॥
आगमिष्यति दुर्बुद्धिर्व्यक्तं स न भविष्यति । ये चास्य सचिवाः केचित् संश्रिता मामकं वनम् ॥४-११-५५॥
न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम् । तेऽपि वा यदि तिष्ठन्ति शपिष्ये तानपि ध्रुवम् ॥४-११-५६॥
वनेऽस्मिन् मामके नित्यं पुत्रवत् परिरक्षिते । पत्राङ्कुरविनाशाय फलमूलाभवाय च ॥४-११-५७॥
दिवसश्चाद्य मर्यादा यं द्रष्टा श्वोऽस्मि वानरम् । बहुवर्षसहस्राणि स वै शैलो भविष्यति ॥४-११-५८॥
ततस्ते वानराः श्रुत्वा गिरं मुनिसमीरिताम् । निश्चक्रमुर्वनात् तस्मात् तान् दृष्ट्वा वालिरब्रवीत् ॥४-११-५९॥
किं भवन्तः समस्ताश्च मतङ्गवनवासिनः । मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम् ॥४-११-६०॥
ततस्ते कारणं सर्वं तथा शापं च वालिनः । शशंसुर्वानराः सर्वे वालिने हेममालिने ॥४-११-६१॥
एतच्छ्रुत्वा तदा वाली वचनं वानरेरितम् । स महर्षिं समासाद्य याचते स्म कृताञ्जलिः ॥४-११-६२॥
महर्षिस्तमनादृत्य प्रविवेशाश्रमं प्रति । शापधारणभीतस्तु वाली विह्वलतां गतः ॥४-११-६३॥
ततः शापभयाद् भीतो ऋष्यमूकं महागिरिम् । प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर ॥४-११-६४॥
तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम् । विचरामि सहामात्यो विषादेन विवर्जितः ॥४-११-६५॥
एषोऽस्थिनिचयस्तस्य दुन्दुभेः सम्प्रकाशते । वीर्योत्सेकान्निरस्तस्य गिरिकूटनिभो महान् ॥४-११-६६॥
इमे च विपुलाः सालाः सप्त शाखावलम्बिनः । यत्रैकं घटते वाली निष्पत्रयितुमोजसा ॥४-११-६७॥
एतदस्यासमं वीर्यं मया राम प्रकाशितम् । कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप ॥४-११-६८॥
तथा ब्रुवाणं सुग्रीवं प्रहसँल्लक्ष्मणोऽब्रवीत् । कस्मिन् कर्मणि निर्वृत्ते श्रद्दध्या वालिनो वधम् ॥४-११-६९॥
तमुवाचाथ सुग्रीवः सप्त सालानिमान् पुरा । एवमेकैकशो वाली विव्याधाथ स चासकृत् ॥४-११-७०॥
रामो निर्दारयेदेषां बाणेनैकेन च द्रुमम् । वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम् ॥४-११-७१॥
हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण । उद्यम्य प्रक्षिपेच्चापि तरसा द्वे धनुःशते ॥४-११-७२॥
एवमुक्त्वा तु सुग्रीवो रामं रक्तान्तलोचनम् । ध्यात्वा मुहूर्तं काकुत्स्थं पुनरेव वचोऽब्रवीत् ॥४-११-७३॥
शूरश्च शूरमानी च प्रख्यातबलपौरुषः । बलवान् वानरो वाली संयुगेष्वपराजितः ॥४-११-७४॥
दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि । यानि संचिन्त्य भीतोऽहमृष्यमूकमुपाश्रितः ॥४-११-७५॥
तमजय्यमधृष्यं च वानरेन्द्रममर्षणम् । विचिन्तयन्न मुञ्चापि ऋष्यमूकममुं त्वहम् ॥४-११-७६॥
उद्विग्नः शङ्कितश्चाहं विचरामि महावने । अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैर्वरैः ॥४-११-७७॥
उपलब्धं च मे श्लाघ्यं सन्मित्रं मित्रवत्सल । त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः ॥४-११-७८॥
किं तु तस्य बलज्ञोऽहं दुर्भ्रातुर्बलशालिनः । अप्रत्यक्षं तु मे वीर्यं समरे तव राघव ॥४-११-७९॥
न खल्वहं त्वां तुलये नावमन्ये न भीषये । कर्मभिस्तस्य भीमैश्च कातर्यं जनितं मम ॥४-११-८०॥
कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः । सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम् ॥४-११-८१॥
तस्य तद् वचनं श्रुत्वा सुग्रीवस्य महात्मनः । स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रति ॥४-११-८२॥
यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर । प्रत्ययं समरे श्लाघ्यमहमुत्पादयामि ते ॥४-११-८३॥
एवमुक्त्वा तु सुग्रीवं सान्त्वयँल्लक्ष्मणाग्रजः । राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया ॥४-११-८४॥
तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् । असुरस्य तनुं शुष्कां पादाङ्गुष्ठेन वीर्यवान् ॥४-११-८५॥
क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत् । लक्ष्मणस्याग्रतो रामं तपन्तमिव भास्करम् । हरीणामग्रतो वीरमिदं वचनमर्थवत् ॥४-११-८६॥
आर्द्रः समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे । परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा ॥४-११-८७॥
लघुः सम्प्रति निर्मांसस्तृणभूतश्च राघव । क्षिप्त एवं प्रहर्षेण भवता रघुनन्दन ॥४-११-८८॥
नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् । आर्द्रं शुष्कमिति ह्येतत् सुमहद् राघवान्तरम् ॥४-११-८९॥
स एव संशयस्तात तव तस्य च यद्बलम् । सालमेकं विनिर्भिद्य भवेद् व्यक्तिर्बलाबले ॥४-११-९०॥
कृत्वैतत् कार्मुकं सज्यं हस्तिहस्तमिवाततम् । आकर्णपूर्णमायम्य विसृजस्व महाशरम् ॥४-११-९१॥
इमं हि सालं प्रहितस्त्वया शरो न संशयोऽत्रास्ति विदारयिष्यति । अलं विमर्शेन मम प्रियं ध्रुवं कुरुष्व राजन् प्रतिशापितो मया ॥४-११-९२॥
यथा हि तेजःसु वरः सदारविर्यथा हि शैलो हिमवान् महाद्रिषु । यथा चतुष्पात्सु च केसरी वरस्तथा नराणामसि विक्रमे वरः ॥४-११-९३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे वालिबलाविष्करणम् नाम एकादशः सर्गः ॥४-११॥