शबरीस्वर्गप्राप्तिः

अरण्यकाण्डः / शबरीस्वर्गप्राप्तिः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे शबरीस्वर्गप्राप्तिः नाम चतुःसप्ततितमः सर्गः ॥३-७४॥
तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने । आतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ ॥३-७४-१॥
तौ शैलेष्वाचितानेकान् क्षौद्रपुष्पफलद्रुमान् । वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ ॥३-७४-२॥
कृत्वा तु शैलपृष्ठे तु तौ वासं रघुनन्दनौ । पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः ॥३-७४-३॥
तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् । अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम् ॥३-७४-४॥
तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम् । सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः ॥३-७४-५॥
तौ दृष्ट्वा तु तदा सिद्धा समुत्थाय कृताञ्जलिः । पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः ॥३-७४-६॥
पाद्यमाचमनीयं च सर्वं प्रादाद् यथाविधि । तामुवाच ततो रामः श्रमणीं धर्मसंस्थिताम् ॥३-७४-७॥
कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः । कच्चित्ते नियतः कोप आहारश्च तपोधने ॥३-७४-८॥
कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम् । कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि ॥३-७४-९॥
रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता । शशंस शबरी वृद्धा रामाय प्रत्यवस्थिता ॥३-७४-१०॥
अद्य प्राप्ता तपःसिद्धिस्तव संदर्शनान्मया । अद्य मे सफलं जन्म गुरवश्च सुपूजिताः ॥३-७४-११॥
अद्य मे सफलं तप्तं स्वर्गश्चैव भविष्यति । त्वयि देववरे राम पूजिते पुरुषर्षभ ॥३-७४-१२॥
तवाहं चक्षुषा सौम्य पूता सौम्येन मानद । गमिष्याम्यक्षयांल्लोकांस्त्वत्प्रसादादरिंदम ॥३-७४-१३॥
चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः । इतस्ते दिवमारूढा यानहं पर्यचारिषम् ॥३-७४-१४॥
तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः । आगमिष्यति ते रामः सुपुण्यमिममाश्रमम् ॥३-७४-१५॥
स ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः । तं च दृष्ट्वा वरांल्लोकानक्षयांस्त्वं गमिष्यसि ॥३-७४-१६॥
एवमुक्ता महाभागैस्तदाहं पुरुषर्षभ । मया तु संचितं वन्यं विविधं पुरुषर्षभ ॥३-७४-१७॥
तवार्थे पुरुषव्याघ्र पम्पायास्तीरसम्भवम् । एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम् ॥३-७४-१८॥
राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम् । दनोः सकाशात् तत्त्वेन प्रभावं ते महात्मनाम् ॥३-७४-१९॥
श्रुतं प्रत्यक्षमिच्छामि संद्रष्टुं यदि मन्यसे । एतत्तु वचनं श्रुत्वा रामवक्त्रविनिःसृतम् ॥३-७४-२०॥
शबरी दर्शयामास तावुभौ तद्वनं महत् । पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् ॥३-७४-२१॥
मतङ्गवनमित्येव विश्रुतं रघुनन्दन । इह ते भावितात्मानो गुरवो मे महाद्युते । जुहवांचक्रिरे नीडं मन्त्रवन्मन्त्रपूजितम् ॥३-७४-२२॥
इयं प्रत्यक्स्थली वेदी यत्र ते मे सुसत्कृताः । पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः ॥३-७४-२३॥
तेषां तपःप्रभावेण पश्याद्यापि रघूत्तम । द्योतयन्ती दिशः सर्वाः श्रिया वेद्यतुलप्रभा ॥३-७४-२४॥
अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः । चिन्तितेनागतान् पश्य समेतान् सप्त सागरान् ॥३-७४-२५॥
कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह । अद्यापि न विशुष्यन्ति प्रदेशे रघुनन्दन ॥३-७४-२६॥
देवकार्याणि कुर्वद्भिर्यानीमानि कृतानि वै । पुष्पैः कुवलयैः सार्धं म्लानत्वं न तु यान्ति वै ॥३-७४-२७॥
कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया । तद् इच्छाम्य् अभ्यनुज्ञाता त्यक्ष्याम्य् एतत् कलेवरम् ॥३-७४-२८॥
तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम् । मुनीनामाश्रमो येषामहं च परिचारिणी ॥३-७४-२९॥
धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः । प्रहर्षमतुलं लेभे आश्चर्यमिति चाब्रवीत् ॥३-७४-३०॥
तामुवाच ततो रामः शबरीं संशितव्रताम् । अर्चितोऽहं त्वया भद्रे गच्छ कामं यथासुखम् ॥३-७४-३१॥
इत्येवमुक्ता जटिला चीरकृष्णाजिनाम्बरा । अनुज्ञाता तु रामेण हुत्वाऽऽत्मानं हुताशने ॥३-७४-३२॥
ज्वलत्पावकसंकाशा स्वर्गमेव जगाम ह । दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना ॥३-७४-३३॥
दिव्याम्बरधरा तत्र बभूव प्रियदर्शना । विराजयन्ती तं देशं विद्युत्सौदामनी यथा ॥३-७४-३४॥
यत्र ते सुकृतात्मानो विहरन्ति महर्षयः । तत् पुण्यं शबरी स्थानं जगामात्मसमाधिना ॥३-७४-३५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे शबरीस्वर्गप्राप्तिः नाम चतुःसप्ततितमः सर्गः ॥३-७४॥