पम्पादर्शनम्

अरण्यकाण्डः / पम्पादर्शनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे पम्पादर्शनम् नाम पञ्चसप्ततितमः सर्गः ॥३-७५॥
दिवं तु तस्यां यातायां शबर्यां स्वेन तेजसा । लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥३-७५-१॥
चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम् । हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत् ॥३-७५-२॥
दृष्टो मयाऽऽश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् । विश्वस्तमृगशार्दूलो नानाविहगसेवितः ॥३-७५-३॥
सप्तानां च समुद्राणां तेषां तीर्थेषु लक्ष्मण । उपस्पृष्टं च विधिवत् पितरश्चापि तर्पिताः ॥३-७५-४॥
प्रणष्टमशुभं यन्नः कल्याणं समुपस्थितम् । तेन त्वेतत् प्रहृष्टं मे मनो लक्ष्मण सम्प्रति ॥३-७५-५॥
हृदये मे नरव्याघ्र शुभमाविर्भविष्यति । तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम् ॥३-७५-६॥
ऋष्यमूको गिरिर्यत्र नातिदूरे प्रकाशते । यस्मिन् वसति धर्मात्मा सुग्रीवोंऽशुमतः सुतः ॥३-७५-७॥
नित्यं वालिभयात् त्रस्तश्चतुर्भिः सह वानरैः । अहं त्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् ॥३-७५-८॥
तदधीनं हि मे कार्यं सीतायाः परिमार्गणम् । इति ब्रुवाणं तं वीरं सौमित्रिरिदमब्रवीत् ॥३-७५-९॥
गच्छावस्त्वरितं तत्र ममापि त्वरते मनः । आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशाम्पतिः ॥३-७५-१०॥
आजगाम ततः पम्पां लक्ष्मणेन सह प्रभुः । समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम् ॥३-७५-११॥
कोयष्टिभिश्चार्जुनकैः शतपत्रैश्च कीरकैः । एतैश्चान्यैश्च बहुभिर्नादितं तद् वनं महत् ॥३-७५-१२॥
स रामो विविधान् वृक्षान् सरांसि विविधानि च । पश्यन् कामाभिसंतप्तो जगाम परमं ह्रदम् ॥३-७५-१३॥
स तामासाद्य वै रामो दूरात् पानीयवाहिनीम् । मतङ्गसरसं नाम ह्रदं समवगाहत ॥३-७५-१४॥
तत्र जग्मतुरव्यग्रौ राघवौ हि समाहितौ । स तु शोकसमाविष्टो रामो दशरथात्मजः ॥३-७५-१५॥
विवेश नलिनीं रम्यां पंकजैश्च समावृताम् । तिलकाशोकपुंनागबकुलोद्दालकाशिनीम् ॥३-७५-१६॥
रम्योपवनसम्बाधां पद्मसम्पीडितोदकाम् । स्फटिकोपमतोयां तां श्लक्ष्णवालुकसंतताम् ॥३-७५-१७॥
मत्स्यकच्छपसम्बाधां तीरस्थद्रुमशोभिताम् । सखीभिरिव संयुक्तां लताभिरनुवेष्टिताम् ॥३-७५-१८॥
किंनरोरगगन्धर्वयक्षराक्षससेविताम् । नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम् ॥३-७५-१९॥
पद्मसौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः । नीलां कुवलयोद्घाटैर्बहुवर्णां कुथामिव ॥३-७५-२०॥
अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम् । पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम् ॥३-७५-२१॥
स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह । विललाप च तेजस्वी रामो दशरथात्मजः ॥३-७५-२२॥
तिलकैर्बीजपूरैश्च वटैः शुक्लद्रुमैस्तथा । पुष्पितैः करवीरैश्च पुंनागैश्च सुपुष्पितैः ॥३-७५-२३॥
मालतीकुन्दगुल्मैश्च भण्डीरैर्निचुलैस्तथा । अशोकैः सप्तपर्णैश्च कतकैरतिमुक्तकैः ॥३-७५-२४॥
अन्यैश्च विविधैर्वृक्षैः प्रमदामिव शोभिताम् । अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः ॥३-७५-२५॥
ऋष्यमूक इति ख्यातश्चित्रपुष्पितपादपः । हरिर्ऋक्षरजोनाम्नः पुत्रस्तस्य महात्मनः ॥३-७५-२६॥
अध्यास्ते तु महावीर्यः सुग्रीव इति विश्रुतः । सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ ॥३-७५-२७॥
इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमः । कथं मया विना सीतां शक्यं लक्ष्मण जीवितुम् ॥३-७५-२८॥
इत्येवमुक्त्वा मदनाभिपीडितः स लक्ष्मणं वाक्यमनन्यचेतनः । विवेश पम्पां नलिनीमनोरमां तमुत्तमं शोकमुदीरयाणः ॥३-७५-२९॥
क्रमेण गत्वा प्रविलोकयन् वनं ददर्श पम्पां शुभदर्शकाननाम् । अनेकनानाविधपक्षिसंकुलां विवेश रामः सह लक्ष्मणेन ॥३-७५-३०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पम्पादर्शनम् नाम पञ्चसप्ततितमः सर्गः ॥३-७५॥