ऋष्यमूकमार्गकथनम्

अरण्यकाण्डः / ऋष्यमूकमार्गकथनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे ऋष्यमूकमार्गकथनम् नाम त्रिसप्ततितमः सर्गः ॥३-७३॥
दर्शयित्वा तु रामाय सीतायाः परिमार्गणे । वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत् ॥३-७३-१॥
एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः । प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः ॥३-७३-२॥
जम्बूप्रियालपनसा न्यग्रोधप्लक्षतिन्दुकाः । अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः ॥३-७३-३॥
धन्वना नागवृक्षाश्च तिलका नक्तमालकाः । नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः ॥३-७३-४॥
अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः । तानारुह्याथवा भूमौ पातयित्वा च तान् बलात् ॥३-७३-५॥
फलान्यमृतकल्पानि भक्षयित्वा गमिष्यथः । तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम् ॥३-७३-६॥
नन्दनप्रतिमं चान्यत् कुरवस्तूत्तरा इव । सर्वकालफला यत्र पादपा मधुरस्रवाः ॥३-७३-७॥
सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा । फलभारनतास्तत्र महाविटपधारिणः ॥३-७३-८॥
शोभन्ते सर्वतस्तत्र मेघपर्वतसंनिभाः । तानारुह्याथवा भूमौ पातयित्वाथवा सुखम् ॥३-७३-९॥
फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति । चङ्क्रमन्तौ वरान् शैलान् शैलाच्छैलं वनाद् वनम् ॥३-७३-१०॥
ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः । अशर्करामविभ्रंशां समतीर्थामशैवलाम् ॥३-७३-११॥
राम संजातवालूकां कमलोत्पलशोभिताम् । तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव ॥३-७३-१२॥
वल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः । नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः ॥३-७३-१३॥
घृतपिण्डोपमान् स्थूलांस्तान् द्विजान् भक्षयिष्यथः । रोहितान् वक्रतुण्डांश्च नलमीनांश्च राघव ॥३-७३-१४॥
पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान् हतान् । निस्त्वक्पक्षानयस्तप्तानकृशानैककण्टकान् ॥३-७३-१५॥
तव भक्त्या समायुक्तो लक्ष्मणः सम्प्रदास्यति । भृशं तान् खादतो मत्स्यान् पम्पायाः पुष्पसंचये ॥३-७३-१६॥
पद्मगन्धि शिवं वारि सुखशीतमनामयम् । उद्धृत्य स तदाक्लिष्टं रूप्यस्फटिकसंनिभम् ॥३-७३-१७॥
अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति । स्थूलान् गिरिगुहाशय्यान् वानरान् वनचारिणः ॥३-७३-१८॥
सायाह्ने विचरन् राम दर्शयिष्यति लक्ष्मणः । अपां लोभादुपावृत्तान् वृषभानिव नर्दतः ॥३-७३-१९॥
स्थूलान् पीतांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम । सायाह्ने विचरन् राम विटपी माल्यधारिणः ॥३-७३-२०॥
शिवोदकं च पम्पायां दृष्ट्वा शोकं विहास्यसि । सुमनोभिश्चितास्तत्र तिलका नक्तमालकाः ॥३-७३-२१॥
उत्पलानि च फुल्लानि पङ्कजानि च राघव । न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः ॥३-७३-२२॥
न च वै म्लानतां यान्ति न च शीर्यन्ति राघव । मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहिताः ॥३-७३-२३॥
तेषां भाराभितप्तानां वन्यमाहरतां गुरोः । ये प्रपेतुर्महीं तूर्णं शरीरात् स्वेदबिन्दवः ॥३-७३-२४॥
तानि माल्यानि जातानि मुनीनां तपसा तदा । स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव ॥३-७३-२५॥
तेषां गतानामद्यापि दृश्यते परिचारिणी । श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी ॥३-७३-२६॥
त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् । दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति ॥३-७३-२७॥
ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम् । आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि ॥३-७३-२८॥
न तत्राक्रमितुं नागाः शक्नुवन्ति तदाश्रमे । ऋषेस्तस्य मतङ्गस्य विधानात् तच्च काननम् ॥३-७३-२९॥
मतङ्गवनमित्येव विश्रुतं रघुनन्दन । तस्मिन् नन्दनसंकाशे देवारण्योपमे वने ॥३-७३-३०॥
नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः । ऋष्यमूकस्तु पम्पायाः पुरस्तात् पुष्पितद्रुमः ॥३-७३-३१॥
सुदुःखारोहणश्चैव शिशुनागाभिरक्षितः । उदारो ब्रह्मणा चैव पूर्वकालेऽभिनिर्मितः ॥३-७३-३२॥
शयानः पुरुषो राम तस्य शैलस्य मूर्धनि । यत् स्वप्नं लभते वित्तं तत् प्रबुद्धोऽधिगच्छति ॥३-७३-३३॥
यस्त्वेनं विषमाचारः पापकर्माधिरोहति । तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः ॥३-७३-३४॥
तत्रापि शिशुनागानामाक्रन्दः श्रूयते महान् । क्रीडतां राम पम्पायां मतङ्गाश्रमवासिनाम् ॥३-७३-३५॥
सक्ता रुधिरधाराभिः संहत्य परमद्विपाः । प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः ॥३-७३-३६॥
ते तत्र पीत्वा पानीयं विमलं चारु शोभनम् । अत्यन्तसुखसंस्पर्शं सर्वगन्धसमन्वितम् ॥३-७३-३७॥
निर्वृत्ताः संविगाहन्ते वनानि वनगोचराः । ऋक्षांश्च द्वीपिनश्चैव नीलकोमलकप्रभान् ॥३-७३-३८॥
रुरूनपेतानजयान् दृष्ट्वा शोकं प्रहास्यसि । राम तस्य तु शैलस्य महती शोभते गुहा ॥३-७३-३९॥
शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम् । तस्या गुहायाः प्राग्द्वारे महान् शीतोदको ह्रदः बहुमूलफलो रम्यो नानानगसमाकुलः । तस्यां वसति धर्मात्मा सुग्रीवः सह वानरैः ॥३-७३-४०॥
कदाचिच्छिखरे तस्य पर्वतस्यापि तिष्ठति । कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ ॥३-७३-४१॥
स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् । तं तु खस्थं महाभागं तावुभौ रामलक्ष्मणौ ॥३-७३-४२॥
प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिके । गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीत् स च ॥३-७३-४३॥
सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा ॥३-७३-४४॥
स तत् कबन्धः प्रतिपद्य रूपं वृतः श्रिया भास्वरसर्वदेहः । निदर्शयन् राममवेक्ष्य खस्थः सख्यं कुरुष्वेति तदाभ्युवाच ॥३-७३-४५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे ऋष्यमूकमार्गकथनम् नाम त्रिसप्ततितमः सर्गः ॥३-७३॥