कबन्धबाहुच्छेदः

अरण्यकाण्डः / कबन्धबाहुच्छेदः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे कबन्धबाहुच्छेदः नाम सप्ततितमः सर्गः ॥३-७०॥
तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ । बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत् ॥३-७०-१॥
तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ । आहारार्थं तु संदिष्टौ दैवेन हतचेतनौ ॥३-७०-२॥
तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा । उवाचार्तिसमापन्नो विक्रमे कृतनिश्चयः ॥३-७०-३॥
त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः । तस्मादसिभ्यामस्याशु बाहू छिन्दावहे गुरू ॥३-७०-४॥
भीषणोऽयं महाकायो राक्षसा भुजविक्रमः । लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति ॥३-७०-५॥
निश्चेष्टानां वधो राजन् कुत्सितो जगतीपतेः । क्रतुमध्योपनीतानां पशूनामिव राघव ॥३-७०-६॥
एतत् संजल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः । विदार्यास्यं ततो रौद्रं तौ भक्षयितुमारभत् ॥३-७०-७॥
ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ । अच्छिन्दन्तां सुसंहृष्टौ बाहू तस्यांसदेशतः ॥३-७०-८॥
दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः । चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः ॥३-७०-९॥
स पपात महाबाहुश्छिन्नबाहुर्महास्वनः । खं च गां च दिशश्चैव नादयञ्जलदो यथा ॥३-७०-१०॥
स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः । दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः ॥३-७०-११॥
इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः । शशंस तस्य काकुस्त्थं कबन्धस्य महाबलः ॥३-७०-१२॥
अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः । तस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् ॥३-७०-१३॥
मात्रा प्रतिहते राज्ये रामः प्रव्राजितो वनम् । मया सह चरत्येष भार्यया च महद् वनम् ॥३-७०-१४॥
अस्य देवप्रभावस्य वसतो विजने वने । रक्षसापहृता भार्या यामिच्छन्ताविहागतौ ॥३-७०-१५॥
त्वं तु को वा किमर्थं वा कबन्धसदृशो वने । आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे ॥३-७०-१६॥
एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः । उवाच वचनं प्रीतस्तदिन्द्रवचनं स्मरन् ॥३-७०-१७॥
स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि वामहम् । दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ ॥३-७०-१८॥
विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद् यथा । तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव ॥३-७०-१९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे कबन्धबाहुच्छेदः नाम सप्ततितमः सर्गः ॥३-७०॥