कबन्धशापाख्यानम्
अरण्यकाण्डः / कबन्धशापाख्यानम्
Script
Translation
Previous
कबन्धबाहुच्छेदः
Next
सीताधिगमोपायः
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे कबन्धशापाख्यानम् नाम एकसप्ततितमः सर्गः ॥३-७१॥
पुरा राम महाबाहो महाबलपराक्रमम् ।
रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् ॥३-७१-१॥
यथा सूर्यस्य सोमस्य शक्रस्य च यथा वपुः ।
सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत् ॥३-७१-२॥
ऋषीन् वनगतान् राम त्रासयामि ततस्ततः ।
ततः स्थूलशिरा नाम महर्षिः कोपितो मया ॥३-७१-३॥
स चिन्वन् विविधं वन्यं रूपेणानेन धर्षितः ।
तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना ॥३-७१-४॥
एतदेवं नृशंसं ते रूपमस्तु विगर्हितम् ।
स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति ॥३-७१-५॥
अभिशापकृतस्येति तेनेदं भाषितं वचः ।
यदा छित्त्वा भुजौ रामस्त्वां दहेद् विजने वने ॥३-७१-६॥
तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम् ।
श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण ॥३-७१-७॥
इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे ।
अहं हि तपसोग्रेण पितामहमतोषयम् ॥३-७१-८॥
दीर्घमायुः स मे प्रादात् ततो मां विभ्रमोऽस्पृशत् ।
दीर्घमायुर्मया प्राप्तं किं मां शक्रः करिष्यति ॥३-७१-९॥
इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम् ।
तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा ॥३-७१-१०॥
सक्थिनी च शिरश्चैव शरीरे सम्प्रवेशितम् ।
स मया याच्यमानः सन् नानयद् यमसादनम् ॥३-७१-११॥
पितामहवचः सत्यं तदस्त्विति ममाब्रवीत् ।
अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः ॥३-७१-१२॥
वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम् ।
स एवमुक्तः शक्रो मे बाहू योजनमायतौ ॥३-७१-१३॥
तदा चास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत् ।
सोऽहं भुजाभ्यां दीर्घाभ्यां संक्षिप्यास्मिन् वनेचरान् ॥३-७१-१४॥
सिंहद्वीपिमृगव्याघ्रान् भक्षयामि समन्ततः ।
स तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः ॥३-७१-१५॥
छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि ।
अनेन वपुषा तात वनेऽस्मिन् राजसत्तम ॥३-७१-१६॥
यद् यत् पश्यामि सर्वस्य ग्रहणं साधु रोचये ।
अवश्यं ग्रहणं रामो मन्येऽहं समुपैष्यति ॥३-७१-१७॥
इमां बुद्धिं पुरस्कृत्य देहन्यासकृतश्रमः ।
स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव ॥३-७१-१८॥
शक्यो हन्तुं यथा तत्त्वमेवमुक्तं महर्षिणा ।
अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ ॥३-७१-१९॥
मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना ।
एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः ॥३-७१-२०॥
इदं जगाद वचनं लक्ष्मणस्य च पश्यतः ।
रावणेन हृता भार्या सीता मम यशस्विनी ॥३-७१-२१॥
निष्क्रान्तस्य जनस्थानात् सह भ्रात्रा यथासुखम् ।
नाममात्रं तु जानामि न रूपं तस्य रक्षसः ॥३-७१-२२॥
निवासं वा प्रभावं वा वयं तस्य न विद्महे ।
शोकार्तानामनाथानामेवं विपरिधावताम् ॥३-७१-२३॥
कारुण्यं सदृशं कर्तुमुपकारेण वर्तताम् ।
काष्ठान्यानीय भग्नानि काले शुष्काणि कुञ्जरैः ॥३-७१-२४॥
धक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते ।
स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता ॥३-७१-२५॥
कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः ।
एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम् ॥३-७१-२६॥
प्रोवाच कुशलो वक्ता वक्तारमपि राघवम् ।
दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् ॥३-७१-२७॥
यस्तां वक्ष्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः ।
योऽभिजानाति तद्रक्षस्तद् वक्ष्ये राम तत्परम् ॥३-७१-२८॥
अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो ।
राक्षसं तु महावीर्यं सीता येन हृता तव ॥३-७१-२९॥
विज्ञानं हि महद् भ्रष्टं शापदोषेण राघव ।
स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम् ॥३-७१-३०॥
किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः ।
तावन्मामवटे क्षिप्त्वा दह राम यथाविधि ॥३-७१-३१॥
दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन ।
वक्ष्यामि तं महावीर यस्तं वेत्स्यति राक्षसम् ॥३-७१-३२॥
तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव ।
कल्पयिष्यति ते वीर साहाय्यं लघुविक्रम ॥३-७१-३३॥
नहि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव ।
सर्वान् परिवृतो लोकान् पुरा वै कारणान्तरे ॥३-७१-३४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे कबन्धशापाख्यानम् नाम एकसप्ततितमः सर्गः ॥३-७१॥
Previous
कबन्धबाहुच्छेदः
Next
सीताधिगमोपायः